७.८ प्रतिशतं जीडीपी-वृद्धिदरमधिकृत्य भाजपादलेन राहुलगान्धिनं प्रति प्रहारः—देशं वञ्चयितुं प्रयत्नाय क्षमायाचना कर्तव्या इति उक्तम्
नवदिल्ली, ०१ सेप्टेम्बरमासः (हि.स.)। चलितवित्तवर्षस्य प्रथमत्रैमासिकस्य विवरणानुसारं भारतस्य सकल-गृहोत्पादस्य वृद्धिदरः ७.८ प्रतिशतं अभवत्। अस्मिन् विषये भारतीय-जनतापक्षेण लोकसभायां विपक्षनेतारं राहुलगान्धिनं लक्ष्यं कृत्वा अद्य उक्तं यत् विश्वस्य
भाजपा सांसद रविशंकर प्रसाद


नवदिल्ली, ०१ सेप्टेम्बरमासः (हि.स.)। चलितवित्तवर्षस्य प्रथमत्रैमासिकस्य विवरणानुसारं भारतस्य सकल-गृहोत्पादस्य वृद्धिदरः ७.८ प्रतिशतं अभवत्। अस्मिन् विषये भारतीय-जनतापक्षेण लोकसभायां विपक्षनेतारं राहुलगान्धिनं लक्ष्यं कृत्वा अद्य उक्तं यत् विश्वस्य सर्वाधिकवेगेन वर्धमानाम् अर्थव्यवस्थां “मृतार्थव्यवस्था” इति कथयित्वा देशं वञ्चयितुं प्रयत्नं कृतवते काङ्ग्रेसनेतृणे स्वस्य मिथ्यावक्तव्याय देशवासिभ्यः क्षमायाचना कर्तव्या।

भाजपादलेन उक्तं यत् वैश्विकसङ्कटस्य आर्थिकसमस्यायाः च विद्यमानत्वेऽपि भारतस्य सुदृढा आर्थिकवृद्धिदरः प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वस्य सर्वकारस्य आर्थिकनीतिनां च परिणामः अस्ति।

भाजपासांसदेन रविशङ्करप्रसादेन पक्षस्य मुख्यालये आयोजिते संवाददातृसम्मेलने उक्तं यत् यस्मिन् त्रैमासिककाले खाडीसङ्कटम्, तैलापूर्तिसम्बद्धाः समस्याः वैश्विकानिश्चितता च विद्यमानाः आसन्, तस्मिन्नेव काले भारतदेशेन ७.८ प्रतिशतं जीडीपी-वृद्धिः अभिलेखिता। अस्मिन्नेव अवधौ जर्मनीदेशस्य वृद्धिदरः १ प्रतिशतं, ब्रिटेन-अमेरिकयोः २.१ प्रतिशतं, कनाडादेशस्य १.५ प्रतिशतं तथा मलेशियादेशस्य ६ प्रतिशतं आसीत्।

तेन उक्तं यत् एतानि विवरणानि दर्शयन्ति यत् वैश्विक-आर्थिकसङ्कटस्य मध्येऽपि भारतदेशः विश्वस्य प्रमुखार्थव्यवस्थाभ्यः उत्तमं प्रदर्शनं करोति। अस्य कृते तेन प्रधानमन्त्रिणः मोदिनः नेतृत्वस्य, वित्तमन्त्रालयस्य प्रबन्धनस्य सर्वकारस्य आर्थिकनीतिनां च प्रशंसा कृता।

राहुलगान्धिनं लक्ष्यं कृत्वा रविशङ्कर-प्रसादेन उक्तं यत् तेन भारतीयार्थव्यवस्था “मृतार्थव्यवस्था” इति उक्ता आसीत्, किन्तु ७.८ प्रतिशतस्य वृद्धिदरः तस्य कथनानां दृढं प्रत्युत्तरम् अस्ति। पक्षेण आरोपः कृतः यत् राहुलगान्धी निरन्तरं देशस्य अर्थव्यवस्थाविषये मिथ्यावक्तव्यानि प्रदाय जनानां मनोबलं न्यूनीकर्तुं प्रयतते। अतः तेन देशवासिभ्यः क्षमायाचना कर्तव्या।

रविशङ्करप्रसादेन उक्तं यत् २०१३ तमे वर्षे भारतस्य अर्थव्यवस्था “दुर्बलपञ्चक” तथा “नीतिगतजडता” इत्येताभ्यां समस्याभ्यां पीडितार्थव्यवस्था इति कथ्यते स्म, किन्तु अद्य देशः ७.८ प्रतिशतस्य वृद्धिदरेण विश्वस्य सर्वाधिकवेगेन वर्धमानासु प्रमुखार्थ-व्यवस्थासु अन्तर्भूतः अस्ति।

तेन उक्तं यत् ७.८ प्रतिशतस्य वृद्धौ विनिर्माण-व्यापार-सेवा-निर्माणक्षेत्राणाम् उत्तमप्रदर्शनस्य तथा च सर्वकारस्य नीतिनां महत्त्वपूर्णा भूमिका अस्ति।

/ अंशु गुप्ता