एनसीईआरटी अधिकं नवोन्मेषिणं समावेशिनं भविष्यदनुकूलं च विकसितुं आवश्यकम् - जोशी
नवदिल्ली, ०१ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयशिक्षामन्त्रिणा प्रह्लादजोशिना उक्तं यत् राष्ट्रियशैक्षिकानुसन्धान-प्रशिक्षण-परिषदः भारतीयशिक्षाव्यवस्थायां षड्दशकाधिककालात् महत्त्वपूर्णा भूमिका वर्तते। विद्यालयीयशिक्षायां परिवर्तनं आनेतुं बालकाणां भव
प्रहलाद जोशी फाइल फोटो


नवदिल्ली, ०१ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयशिक्षामन्त्रिणा प्रह्लादजोशिना उक्तं यत् राष्ट्रियशैक्षिकानुसन्धान-प्रशिक्षण-परिषदः भारतीयशिक्षाव्यवस्थायां षड्दशकाधिककालात् महत्त्वपूर्णा भूमिका वर्तते। विद्यालयीयशिक्षायां परिवर्तनं आनेतुं बालकाणां भविष्यं च निर्मातुं एनसीईआरटी इत्यस्य महत्त्वपूर्णं दायित्वम् अस्ति। एतत् दृष्ट्वा एनसीईआरटी इत्यस्य भविष्ये अधिकं नवोन्मेषिणः, समावेशिनः, अनुसन्धानाधारितस्य भविष्याय सज्जस्य च संस्थानस्य रूपेण विकासः करणीयः।

जोशिना मङ्गलवासरे एनसीईआरटी-मुख्यालये आयोजितायाः एनसीईआरटी-संस्थायाः षट्षष्टितमे स्थापना-दिवससमारोहे सम्बोधने उक्तं यत् एनसीईआरटी स्वकीयाभिः पाठ्यपुस्तकैः, शिक्षणसामग्रीभिः पाठ्यक्रमरूपरेखाभिश्च देशस्य विद्यालयीयशिक्षां सुदृढीकर्तुं महत्त्वपूर्णं योगदानं दत्तवती अस्ति। राष्ट्रियशिक्षानीतिः २०२० विद्यालयीय-शिक्षायां व्यापकसुधाराणां कृते दृढम् आधारं निर्मितवती अस्ति। अस्यां बालकानां समग्रविकासस्य, सृजनात्म-कतायाः, आलोचनात्मक-चिन्तनस्य, अनुभावाधारितशिक्षायाः दक्षताधारिताधिगमस्य च विषये बलं दत्तम् अस्ति।

जोशिना एनसीईआरटी-पक्षतः सज्जी-कृतायाः राष्ट्रियपाठ्यचर्यारूपरेखायाः मूलभूतचरणस्य तथा राष्ट्रियपाठ्यचर्या-रूपरेखायाः विद्यालयीयशिक्षा-२०२३ इत्यस्य च उल्लेखं कृत्वा उक्तं यत् कक्ष्या १ तः ९ पर्यन्तं नवीनपाठ्यपुस्तकानां विकासकार्यमपि महत्त्वपूर्णः प्रयत्नः अस्ति। बहुभाषीय-शिक्षायाः प्रोत्साहनाय एनसीईआरटी-पक्षतः क्रियमाणानां प्रयत्नानां तेन प्रशंसा कृता।

तेन सूचितं यत् कक्ष्या १ तः ८ पर्यन्तं पाठ्यपुस्तकानि संविधानस्य अष्टम्यां अनुसूच्यां समाविष्टासु सर्वासु २२ भाषासु सज्जीक्रियन्ते। एतदतिरिक्तं विभिन्नासु भारतीयभाषासु १२१ प्रारम्भिकपाठपुस्तिकाः सज्जीक्रियन्ते, येषु ९३ जनजातीयभाषाः सम्मिलिताः सन्ति। नवीनपाठ्यपुस्तकेषु अध्ययनं अधिकं रोचकं प्रासङ्गिकं च कर्तुं सह भारतस्य परम्परा भारतीयज्ञान-परम्परा च समावेशिता क्रियते।

शिक्षामन्त्रिणा उक्तं यत् परिवर्तमानकाले एनसीईआरटी-संस्थायाः स्वकीयम् अनुसन्धानतन्त्रं अधिकं सुदृढं कर्तव्यं तथा प्रौद्योगिक्याः प्रयोगोऽपि वर्धनीयः। शिक्षायां समाजे च कृत्रिमबुद्धिमत्तायाः वर्धमानां भूमिकां दृष्ट्वा विद्यार्थिभ्यः अङ्कीय-साक्षरता, कृत्रिमबुद्धिमत्तायाः अवबोधः, आलोचनात्मकचिन्तनम्, समस्या-समाधानं नवाचारश्च इत्यादिभिः कौशलैः युक्तैः कर्तुम् आवश्यकम्। तेन विद्यार्थिनां मानसिकस्वास्थ्यस्य कल्याणस्य च विषयेऽपि ध्यानं दातुं आवश्यकता उक्ता। अस्य कृते पाठ्यक्रमे उचितहस्तक्षेपः, मनोसामाजिकसहयोगः शिक्षकाणां प्रशिक्षणं च महत्त्वपूर्णम् इति प्रतिपादितम्।

जोशिना उक्तं यत् एनसीईआरटी-संस्थां भविष्ये अधिकं नवोन्मेषिणीं, समावेशिनीं, अनुसन्धानाधारितां भविष्याय सज्जां च संस्थां रूपेण विकसितुं आवश्यकम् अस्ति। तेन उक्तं यत् एनसीईआरटी स्वस्य षड्दशकाधिकस्य अनुभवस्य लाभं स्वीकृत्य शिक्षायाः परिवर्तमानानाम् आवश्यकतानाम् अनुरूपं अग्रे गन्तव्यम्।

समारोहे केन्द्रीयमन्त्रिणा रोबोटिक्स-अधिगमकेन्द्रस्य, अनुवादप्रयोगशालायाः उन्नतदूरदर्शनप्रकोष्ठस्य च उद्घाटनं कृतम्। तेन उक्तं यत् एताः सुविधाः प्रौद्योगिकी-आधारितशिक्षायाः, भारतीय-भाषासु शिक्षायाः गुणवत्तापूर्ण-शैक्षिकसामग्रीनिर्माणस्य च कार्ये सहायतां करिष्यन्ति।

कार्यक्रमे भारतीयभाषासमितेः अध्यक्षः डॉ. चामूकृष्णशास्त्री, एनसीईआरटी-संस्थायाः निदेशकः प्रो. दिनेशप्रसादसकलानी तथा शिक्षामन्त्रालयस्य एनसीईआरटी-संस्थायाश्च वरिष्ठाधिकारिणः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan