पञ्जाबविधानसभानिर्वाचनं भाजपादलम् एकाकी स्पर्धां करिष्यति, सर्वेषु ११७ आसन्देषु अभ्यर्थिनः निर्धारयिष्यन्ते - सतीशपूनिया
चण्डीगढम्, ०१ सेप्टेम्बरमासः (हि.स.)। पञ्जाबप्रदेशे २०२७ तमे वर्षे भविष्यमाणं विधानसभानिर्वाचनमधिकृत्य भारतीयजनतापक्षेण पुनरेकवारं स्वकीयं मतं स्पष्टं कृतम्। भाजपादलस्य पञ्जाबप्रभारी सतीशपूनिया उक्तवान् यत् पक्षः अग्रिमविधानसभानिर्वाचनम् एकाकी स्पर
ਭਾਜਪਾ ਦੇ ਪੰਜਾਬ ਇੰਚਾਰਜ ਸਤੀਸ਼ ਪੂਨੀਆ


चण्डीगढम्, ०१ सेप्टेम्बरमासः (हि.स.)। पञ्जाबप्रदेशे २०२७ तमे वर्षे भविष्यमाणं विधानसभानिर्वाचनमधिकृत्य भारतीयजनतापक्षेण पुनरेकवारं स्वकीयं मतं स्पष्टं कृतम्। भाजपादलस्य पञ्जाबप्रभारी सतीशपूनिया उक्तवान् यत् पक्षः अग्रिमविधानसभानिर्वाचनम् एकाकी स्पर्धां करिष्यति तथा च विधानसभायाः सर्वेषु ११७ आसन्देषु स्वाभ्यर्थिनः स्थापयिष्यति।

पक्षस्य वरिष्ठनेतृणां अकालीदलस्य विभिन्नसमूहानां च मध्ये गोपनीयतया वार्तालापः प्रचलति इति वार्तासम्बद्धे प्रश्नस्य विषये पूनिया उक्तवान् यत् भाजपादलं स्वबलेन निर्वाचनं प्राप्स्यति इति निर्णयस्य विषये दृढम् अस्ति। तेन उक्तं यत् विभिन्नराजनैतिकदलानां नेतृणां मध्ये समये समये परस्परं मिलनानि भवन्ति, किन्तु एतानि मिलनानि गठबन्धनसम्बद्धवार्तालापरूपेण न मन्तव्यानि।

तेन उक्तं यत् भाजपादलं पञ्जाबप्रदेशे सर्वेषु स्तरेषु स्वसङ्गठनं सुदृढं करोति तथा च पक्षस्य कार्यकर्तारः निर्वाचनाय पूर्णतया सज्जाः सन्ति।

भाजपादले कथितानुशासनहीनतायाः नेतृषु असन्तोषस्य च विषये पृष्टे पूनिया उक्तवान् यत् सः पञ्जाबप्रदेशे सर्वैः नेतृभिः कार्यकर्तृभिः च सह वार्तालापं कर्तुम् आगतः अस्ति। तेन उक्तं यत् पक्षे सर्वेषां नेतॄणां कृते संवादस्य द्वाराणि उद्घाटितानि सन्ति।

पूनिया उक्तवान् यत् भाजपादलं पञ्जाबप्रदेशे भूमिस्तरे स्वसङ्गठनं सुदृढीकर्तुं प्रयत्नरतं वर्तते। तेन सूचितं यत् पक्षकार्यकर्तृभ्यः कार्यशालाः आयोज्यन्ते तथा च अग्रिमविधानसभानिर्वाचनाय कार्यकर्तारः नेतारश्च सज्जीकृताः क्रियन्ते।

हिन्दुस्थान समाचार / Divya Ranjan