Enter your Email Address to subscribe to our newsletters

लखनऊ, 01 सितंबरमासः (हि.स.)।
उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसाद मौर्यः उक्तवान् यत् प्रदेशशासनं खाद्यप्रसंस्करणक्षेत्रे निवेशस्य प्रोत्साहनाय पूर्णतया प्रतिबद्धम् अस्ति। खाद्यप्रसंस्करणोद्योगः कृषकाणाम् आयवर्धने, कृषिउत्पादानां मूल्यवर्धने तथा युवभ्यः रोजगारस्य नवीनावसराणां सृजने च महत्त्वपूर्णां भूमिकां निर्वहति। तेन उक्तं यत् विकसितस्य उत्तरप्रदेशस्य विकसितस्य भारतस्य च निर्माणे खाद्यप्रसंस्करणोद्योगस्य महत्त्वपूर्णा भूमिका भविष्यति।
उपमुख्यमन्त्रिणा खाद्यप्रसंस्करणविभागस्य अधिकारिभ्यः निर्देशाः प्रदत्ताः यत् उत्तरप्रदेशखाद्यप्रसंस्करणोद्योगनीतिः २०२३ इत्यस्य अन्तर्गतं उपलब्धानां सुविधानाम् अनुदानानां प्रोत्साहनानां च व्यापकसूचनां उद्यमिभ्यः प्रापयितुं प्रभावी जनजागरूकताभियानं सञ्चाल्यताम्। तेन उक्तं यत् अधिकाधिकाः उद्यमिनः अस्मिन् क्षेत्रे निवेशाय प्रोत्साह्यन्ताम्, येन कृषकाणां उत्पादनाय उत्तमविपणिः उचितं मूल्यं च प्राप्येत तथा स्थानीयस्तरे रोजगारस्य अवसराः वर्धेरन्।
अस्यैव क्रमानुसारम् अपरमुख्यसचिवस्य उद्यानस्य खाद्यप्रसंस्करणविभागस्य च बी एल मीणस्य अध्यक्षतायां खाद्यप्रसंस्करणनिदेशालये उत्तरप्रदेशखाद्यप्रसंस्करणोद्योगनीतिः २०२३ इत्यस्य अन्तर्गतं गठितायाः एप्रेजलसमित्याः बैठकम् आयोजिता। बैठके पोर्टल माध्यमेन प्राप्तानां नवीननिवेशनप्रस्तावानां परीक्षणं कृतम् तथा समितेः समक्षं प्रस्तुतानां प्रस्तावानां विषये विस्तृतविचारविमर्शः कृतः।
बैठके प्राप्तेषु कुलद्वादश नवीन आवेदनेषु विचारः कृतः। परीक्षणानन्तरं तेषु दश प्रस्तावेषु आवश्यकानां शर्तानां पूर्तेः अधीनं स्वीकृत्यै संस्तुतिः प्रदत्ता।
संस्तुतपरियोजनासु खाद्यप्रसंस्करणक्षेत्रस्य विविधाः गतिविधयः सम्मिलिताः सन्ति। तासु पशुचारा, धान्यानि परिष्कृतमसालाश्च, मूंगफलीप्रसंस्करणम्, हिमीकृताः अन्ये च खाद्यपदार्थाः, शीघ्रपाकयोग्याः उत्पादाः, तैल आटा दाल बेसननिर्माणम्, दालमिल तथा हिमीकृतफलानां शाकानां च प्रसंस्करणम् इत्यादयः एककाः सम्मिलिताः सन्ति। अनेकप्रस्तावेषु एककानां ऊर्जाआवश्यकतां पूरयितुं सौरऊर्जासंयन्त्रस्य स्थापनायाः प्रस्तावोऽपि अस्ति।
एप्रेजलसमित्या संस्तुतपरियोजनासु निर्धारितानां शर्तानां अनुपालनं सुनिश्चितं कर्तुं निर्देशाः प्रदत्ताः। तेषु स्थानीयकृषकेभ्यः कच्चामालस्य क्रयणम्, आवश्यकं संयन्त्रनक्शा, अग्निसुरक्षायाः प्रदूषणनियन्त्रणस्य च प्रमाणपत्राणि, उत्पादनक्षमतायाः उपयोगः तथा विद्युत्बिलम् अन्ये आवश्यकाः दस्तावेजाश्च उपलब्धं करणम् इत्यादयः सम्मिलिताः सन्ति।
बैठके एकः प्रस्तावः अभिलेखानाम् आधारेण पात्रतायाः पूर्तिं न कृतवान् इति कारणेन निरस्तः कृतः। अपरस्मिन् प्रस्तावे संयन्त्रस्य यन्त्रसामग्रीसम्बद्धाः आवश्यकविवरणाः उपलब्धीकृत्य आगामी एप्रेजलसमित्याः बैठके विचारः करिष्यते इति निर्णयः कृतः।
समित्या इदमपि निर्देशितं यत् उत्तरप्रदेशखाद्यप्रसंस्करणोद्योगनीतिः २०२३ इत्यस्य अन्तर्गतं प्रथमकिस्तं प्राप्तवतीभ्यः संस्थाभ्यः द्वितीयकिस्तायाः निर्गमने तदैव विचारः क्रियेत यदा सम्बन्धिताः एककाः आर ओ एफ सी माध्यमेन स्वकीयस्य उत्पादस्य परीक्षणं कारयित्वा परीक्षणप्रतिवेदनं उपलब्धं कारयेयुः।
बैठकस्य उद्देश्यं प्रदेशे खाद्यप्रसंस्करणक्षेत्रे नवीननिवेशस्य प्रोत्साहनम्, स्थानीयकृषिउत्पादानां मूल्यवर्धनस्य वृद्धिः, कृषकेभ्यः उत्तमविपण्याः उपलब्धीकरणम् तथा रोजगारस्य नवीनावसराणां सृजनम् अस्ति।
उत्तरप्रदेशशासनस्य खाद्यप्रसंस्करणविभागेन नीतिः २०२३ इत्यस्य अन्तर्गतं प्राप्तानां निवेशप्रस्तावानां समयबद्धपरीक्षणस्य आवश्यकानुमोदनस्य च प्रक्रिया निरन्तरं प्रचलति। प्रदेशशासनस्य प्रयासः अस्ति यत् खाद्यप्रसंस्करणक्षेत्रे निवेशं वर्धयित्वा कृषिउत्पादानां श्रेष्ठं मूल्यवर्धनं भवेत्, कृषकाणाम् आयवृद्धिः भवेत् तथा युवभ्यः अधिकाधिकाः रोजगारावसराः सृज्येरन्।
Hindusthan Samachar / Dheeraj Maithani