विदेशीयनिवेशम् आकर्षयितुं मुख्यमन्त्री विजयः ब्रिटेनदेशं गमिष्यति
चेन्नई, १ सितम्बरमासः (हि.स.)। तमिलनाडुराज्यस्य मुख्यमन्त्री विजयः राज्याय विदेशीयनिवेशम् आकर्षयितुं १० सेप्टे,म्बरमासात् षड्दिवसीयां ब्रिटेनयात्रां करिष्यति। मुख्यमन्त्रिकार्यालयस्य अधिकारिभिः अस्य पुष्टिः कृता, सूचना च प्रदत्ता। विधानसभायाः सत्र
मुख्यमंत्री विजय


चेन्नई, १ सितम्बरमासः (हि.स.)। तमिलनाडुराज्यस्य मुख्यमन्त्री विजयः राज्याय विदेशीयनिवेशम् आकर्षयितुं १० सेप्टे,म्बरमासात् षड्दिवसीयां ब्रिटेनयात्रां करिष्यति। मुख्यमन्त्रिकार्यालयस्य अधिकारिभिः अस्य पुष्टिः कृता, सूचना च प्रदत्ता।

विधानसभायाः सत्रस्य समाप्तेः अनन्तरं मुख्यमन्त्रिणः जोसेफविजयस्य नेतृत्वे उच्चस्तरीयप्रतिनिधिमण्डलं निवेशम् आकर्षयितुं १० तः १६ सेप्टेम्बरमासपर्यन्तं ब्रिटेनदेशस्य यात्रां करिष्यति। तत्र ते उद्योगपतिभिः निवेशकैः च मिलित्वा तमिलनाडुराज्ये निवेशं कर्तुं तान् आमन्त्रयिष्यन्ति।

एतत्पूर्वं वैदेशीयसंस्थानां निवेशम् आकर्षयितुं क्रियमाणानां प्रयासानां अन्तर्गतं उद्योगमन्त्री कीर्तनापि अग्रिमे ४ सेप्टेम्बरमासे ताइवानदेशं गमिष्यति। अर्धचालक-प्रौद्योगिकी, कृत्रिमबुद्धिमत्ता, चिप् इत्यादिषु विविधक्षेत्रेषु कार्यं कुर्वतीनां अनेकदेशीयानां संस्थानां सहभागितायुक्तं सेमिकॉन-सम्मेलनम् अस्मिन् सप्ताहे ताइवानदेशे आयोज्यमानम् अस्ति।

अस्मिन् सम्मेलने भागं गृह्णन्तीनां संस्थानां निवेशं तमिलनाडुं प्रति आकर्षयितुम् उद्दिश्य मन्त्री कीर्तनायाः नेतृत्वे प्रतिनिधिमण्डलं ताइवानदेशं गत्वा निवेशकैः सह मिलित्वा वार्तां करिष्यति।

तमिलग-वेत्रि-कड़गम्-दलेन घोषितं यत् २०३६ तमवर्षपर्यन्तं तमिलनाडुराज्यं १.५ ट्रिलियन-डॉलर्-परिमितां अर्थव्यवस्थां कर्तुं लक्ष्यं निर्धारितम् अस्ति। अस्य लक्ष्यस्य पूर्तये स्वदेशीयान् विदेशीयान् च निवेशकान् आकर्षयितुं तमिलनाडु-सर्वकारः विविधाः योजनाः प्रयत्नाश्च करोति।

अस्यैव क्रमे तमिलग-वेत्रि-कड़गम्-सर्वकारस्य सत्ताग्रहणस्य प्रथमेषु १०० दिवसेषु १०४ संस्थाभिः सह सन्धिज्ञापनानि कृतानि सन्ति। एतेषां माध्यमेन १,०२,५१४ कोटिरूप्यकाणां निवेशः आकर्षितः अस्ति तथा च १,२१,७८८ जनानां कृते रोजगारस्य अवसराः सृष्टाः सन्ति।

औद्योगिकनिवेशम् आकर्षयितुं तमिल-नाडुराज्यस्य आन्ध्रप्रदेशस्य च मध्ये स्पर्धा वर्तते। अतः तमिलनाडु-सर्वकारेण निवेशम् आकर्षयितुं प्रयत्नाः तीव्रतराः कृताः सन्ति।

/ अंशु गुप्ता