७.८ प्रतिशतस्य सकलस्य गृह-उत्पादस्य वृद्धिः नवभारतस्य आर्थिकशक्तेः प्रमाणम् - तरुणचुघः
नवदिली, १ सितम्बरमासः (हि.स.)। देशस्य अर्थव्यवस्थायाः ७.८ प्रतिशतस्य जीडीपी-वृद्धिं भाजपादलस्य राष्ट्रियमहासचिवः केन्द्रीयकार्यालयस्य प्रभारी च तरुणचुघः नवभारतस्य आर्थिकसुदृढतायाः प्रमाणम् इति उक्तवान्। सः अवदत् यत् वैश्विकस्तरे प्रचाल्यमाणाया: आर्
तरुण चुग फाइल फोटो


नवदिली, १ सितम्बरमासः (हि.स.)। देशस्य अर्थव्यवस्थायाः ७.८ प्रतिशतस्य जीडीपी-वृद्धिं भाजपादलस्य राष्ट्रियमहासचिवः केन्द्रीयकार्यालयस्य प्रभारी च तरुणचुघः नवभारतस्य आर्थिकसुदृढतायाः प्रमाणम् इति उक्तवान्। सः अवदत् यत् वैश्विकस्तरे प्रचाल्यमाणाया: आर्थिकानिश्चिततायाः सत्त्वेऽपि भारतस्य अर्थव्यवस्थायाः एतादृशेन तीव्रगत्या वर्धनं देशस्य कृते महती उपलब्धिः अस्ति।

चुघः अवदत् यत् सम्प्रति विश्वं नैकैः आर्थिकैः आव्हानैः ग्रस्तम् अस्ति। तैलमूल्यानाम् अनिश्चितताया: आपूर्ति-शृङ्खलासम्बद्धानां समस्याणां च प्रभावः अनेकेषां देशानाम् अर्थव्यवस्थासु अभवत्। तथापि भारतस्य अर्थव्यवस्थया ७.८ प्रतिशतस्य वृद्धिः प्राप्ता अस्ति। एतां वृद्धिं सः प्रधानमन्त्रीनरेन्द्रमोदिनः दृढनेतृत्वस्य दूरदर्शिनाम् आर्थिकनीतीन् च प्रति देशस्य वर्धमानविश्वासस्य परिणामम् इति उक्तवान्।

सः अवदत् यत् प्रधानमन्त्रीनरेन्द्रमोदिनः नेतृत्वे भारतं कठिनपरिस्थितीन् अवसरेषु परिणमयति। सर्वकारस्य नीतिभिः देशस्य अर्थव्यवस्था निरन्तरं सुदृढा भवति तथा च भारतं विकासस्य नूतनान् सोपानान् प्रति अग्रसरति।

चुघः अवदत् यत् भारतस्य तीव्रः आर्थिकविकासः दर्शयति यत् देशस्य आर्थिकाधारः सुदृढः अस्ति। स्वकीयां घरेलू-अर्थव्यवस्थां सुदृढां कुर्वता भारतदेशेन वैश्विकस्तरेऽपि स्वकीयां भूमिकां निरन्तरं सुदृढीकृतम् अस्ति।

सः अवदत् यत् ७.८ प्रतिशतस्य सकलस्य गृह-उत्पादस्य वृद्धिः ‘विकसितभारतस्य’ सङ्कल्पं अग्रे नेतुं महत्त्वपूर्णा उपलब्धिः अस्ति। प्रधानमन्त्रीमोदिनः नेतृत्वे भारतम् अग्रिमेषु वर्षेषु विश्वस्य प्रमुखासु आर्थिकशक्तिषु स्वस्थानं अधिकं सुदृढं करिष्यति।

Hindusthan Samachar / Divya Ranjan