Enter your Email Address to subscribe to our newsletters

लखनऊ, १ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशे प्रधानमन्त्रिणः नरेन्द्रमोदिनः २५ वर्षाणां जनसेवाकालस्य उपलब्धीनां जनं जनं प्रति प्रसारणाय तथा प्रत्येकं नागरिकं ‘विकसितभारत-२०४७’ इति राष्ट्रिय-सङ्कल्पेन संयोजयितुं १७ सेप्टेम्बरतः १७ अक्टोबरपर्यन्तं ‘सेवासङ्कल्पाभियानम्’ आयोजयिष्यते।
एकमासात्मकस्य अस्य अभियानस्य अन्तर्गतं १३ प्रमुखकार्यक्रमाणां माध्यमेन सेवा, सुशासनं, दरिद्रकल्याणं, विकासः जनसहभागिता च समाजस्य सर्वेषां वर्गाणां मध्ये प्रसारयिष्यते। ‘आशीर्वादस्य दीपः’, ‘२५ कोटिबालकानां स्वप्नानां भारतम्’, ‘नमोसेवागाथा’, ‘आङ्गणस्य उत्सवः’, ‘परिवर्तनस्य कथा’, ‘विकसितभारत-सङ्कल्पयात्रा’, ‘सेवाज्योतियात्रा’, ‘वडनगरतः वाराणसीपर्यन्तं यात्रा’, ‘सेवा मम योगदानम्’, ‘सेवासेत्वभियानम्’, ‘राष्ट्ररङ्गोली गृहात् राष्ट्रपर्यन्तम्’, ‘राष्ट्रिय-नवाचार-आह्वानम्’ तथा ‘जनसेवामहाकुम्भः’ इत्येते प्रमुखाः कार्यक्रमाः भविष्यन्ति।
अभियानस्य कार्ययोजनायाः विषये आयोजितायां उच्चस्तरीयसभायां मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् प्रधानमन्त्रिणः २५ वर्षाणां सार्वजनिक-जीवनं सेवा-सुशासन-दरिद्रकल्याणस्य निरन्तरयात्रा अस्ति। केन्द्रसर्वकारस्य १२ वर्षेषु राज्यसर्वकारस्य १० वर्षेषु च सम्पन्नानां विकासकार्याणां जन-कल्याणकारीयोजनानां च प्रभावः जनसामान्यस्य जीवने स्पष्टतया प्रदर्शनीयः।
सः निर्देशं दत्तवान् यत् अभियानं केवलं जनपदमुख्यालयेषु विकासखण्डेषु वा सीमितं न भवेत्, अपितु न्यायपञ्चायत-ग्रामपञ्चायतस्तरपर्यन्तं प्राप्नुयात्। जनप्रतिनिधीनां, यूनां, महिलानां, कृषकाणां, लाभार्थिनां, सामाजिकसंस्थानां सामान्यनागरिकाणां च सक्रियसह-भागितया अभियानं वास्तविकजन-सहभागितायाः स्वरूपं प्राप्नुयात्।
मुख्यमन्त्री अभियानस्य कार्यक्रमानां स्थायी-तथ्यभाण्डारस्य निर्माणस्य निर्देशमपि दत्तवान्। अस्मिन् केन्द्रस्य गत१२वर्षाणां राज्यसर्वकारस्य गत१०-वर्षाणां च विकासकार्याणां, जनकल्याण-कारीयोजनानां लाभार्थिनां च अद्यतनविवरणं समावेशनीयम्। धार्मिक-सांस्कृतिकस्थलानि, अवस्थापना-सम्पर्कपरियोजनाः, शिक्षाकौशलविकासः, स्वास्थ्यं क्रीडा, पञ्चायतीराजः, सुशासनम् तथा ओडीओपी-सम्बद्धाः सफलताकथाः अपि अस्मिन् तथ्यभाण्डारे सङ्कलनीयाः।
सः निर्देशं दत्तवान् यत् १७ सेप्टेम्बरे प्रधानमन्त्रिणः जन्मदिवसे सायं सप्तवादने ‘आशीर्वादस्य दीपः’ इति कार्यक्रमेन अभियानस्य प्रारम्भः भवेत्। १७ सेप्टेम्बरतः ७ अक्टोबरपर्यन्तं ‘२५ कोटिबालकाणां स्वप्नानां भारतम्’ इति कार्यक्रमस्य अन्तर्गतं विद्यालयस्तरात् प्रदेशस्तरपर्यन्तं चित्रकला, भाषणं वादविवादश्च आयोजिताः भवन्तु।
२५ सेप्टेम्बरतः ७ अक्टोबरपर्यन्तं ‘आङ्गणस्य उत्सवः’ इत्यन्तर्गतं प्रत्येकम् आङ्गणवाडीकेंद्रे त्रिदिवसीयोत्सवः संवादश्च आयोजयिष्यते। स्वस्थबालकाः, कुपोषणात् सुपोषणं प्राप्तवत्यः मातरः, उत्कृष्टकार्यं कुर्वन्त्यः आशाकार्यकर्तारः आङ्गणवाडीसहायिकाश्च सम्मानिताः भविष्यन्ति।
‘सेवाज्योतियात्रा’ कार्यक्रमस्य अन्तर्गतं ७ अक्टोबरे सर्वेषु ७५ जनपदेषु प्रमुखस्थानेषु ‘सेवाज्योतिः’ स्थापयिष्यते। ‘वडनगरतः वाराणसीपर्यन्तं यात्रा’ कार्यक्रमेन प्रधानमन्त्रिणः जन्मभूमिः कर्मभूमिश्च पवित्रजलस्य आदानप्रदानेन संयोज-यिष्येते। ‘सेवा मम योगदानम्’ कार्यक्रमेन प्रत्येकं नागरिकं २५ सेवागतिविधिषु कस्यामपि एकस्यां गतिविधौ योगदानस्य अवसरः प्राप्स्यति।
‘सेवासेत्वभियानम्—सर्वकारः भवतां द्वारम्’ इत्यस्य अन्तर्गतं सर्वेषु विकासखण्डेषु बहुउद्देशीयसेवाशिबिराणि आयोजयित्वा योजनाभ्यः वञ्चितानां पात्रजनानां चिन्हीकरणं कृत्वा तेभ्यः त्वरितं लाभं प्रदास्यते। ‘राष्ट्रिय-नवाचार-आह्वाने’ उत्तरप्रदेशस्य यूनां व्यापकसहभागिता सुनिश्चितं करिष्यते। १७ अक्टोबरमासे ‘पञ्चायततः संसद्पर्यन्तम्’ इति विषयाधारितः ‘जनसेवामहाकुम्भः’ आयोजयिष्यते।
मुख्यमन्त्री उक्तवान् यत् ऐतिहासिकेषु पर्यटनस्थलेषु च ‘नमोसेवा’ इति विषयाधारिताः लेजर-प्रदर्शनाः अपि आयोजनीयाः। सः निर्देशं दत्तवान् यत् १० सेप्टेम्बरपर्यन्तं कार्ययोजना, जन-प्रतिनिधीनाम् अधिकारिणां च सभा, तथ्यभाण्डारं लाभार्थिसूचयश्च सज्जीकृताः भवन्तु। ‘सेवासङ्कल्पाभियानं’ केवल-मेकमासीयः कार्यक्रमः न, अपितु २५ वर्षाणां जनसेवायाः यात्रां जनसहभागितया संयोजयितुं महत्त्वपूर्णः अवसरः अस्ति।
Hindusthan Samachar / Divya Ranjan