श्रीनिवास धाम्नि गूंजितः जयगुरुदेवस्य उद्घोषः, संत पंकज महाराजेन दत्तः शाकाहारसदाचारयोः संदेशः
मीरजापुरम्, 01 सितंबरमासः (हि.स.)। मथुरास्थितायाः जयगुरुदेवधर्मप्रचारकसंस्थायाः राष्ट्रियाध्यक्षस्य सन्तपङ्कजमहाराजस्य एकशताधिक-अष्टदिवसीया शाकाहार-सदाचार-मद्यनिषेध-आध्यात्मिकवैचारिकजनजागरणयात्रा मङ्गलवासरे द्वादशमे विश्रामस्थले श्रीनिवासधामं प्रा
श्रीनिवास धाम में आध्यात्मिक संदेश देते पंकज जी महाराज


मीरजापुरम्, 01 सितंबरमासः (हि.स.)। मथुरास्थितायाः जयगुरुदेवधर्मप्रचारकसंस्थायाः राष्ट्रियाध्यक्षस्य सन्तपङ्कजमहाराजस्य एकशताधिक-अष्टदिवसीया शाकाहार-सदाचार-मद्यनिषेध-आध्यात्मिकवैचारिकजनजागरणयात्रा मङ्गलवासरे द्वादशमे विश्रामस्थले श्रीनिवासधामं प्राप्तवती। मौनीस्वामी-अन्तर्महाविद्यालयस्य क्रीडाङ्गणे आयोजिते सत्सङ्गसमारोहे बहुसंख्याकाः श्रद्धालवः सम्मिलिताः। वाद्यघोषैः पुष्पवर्षया च सन्तपङ्कजमहाराजस्य भव्यं स्वागतं कृतम्। सम्पूर्णं परिसरं ‘जयगुरुदेव’ इति घोषेण गुज्जितम्।

सत्सङ्गे सन्तपङ्कजमहाराजः अवदत् यत् चतुरशीतिलक्षयोनिषु मानवशरीरं श्रेष्ठतमं मन्यते तथा तस्य प्राप्तिः सौभाग्यस्य विषयः अस्ति। मानवजीवनस्य उद्देश्यं केवलं भौतिकसुखस्य प्राप्तिः न, अपितु गृहस्थाश्रमे स्थित्वा परिश्रमेण ईमानदारीपूर्वकं च जीवनयापनम् अस्ति। शाकाहारस्य स्वीकरणं नशापदार्थेभ्यः च दूरं स्थित्वा जीवनयापनम् अपि आवश्यकम् अस्ति।

सः अवदत् यत् मनुष्यः युगेभ्यः जन्ममरणस्य बन्धने भ्रमन् अस्ति। प्रभुः जीवात्मनां कल्याणाय सन्तान् पृथिव्यां प्रेषितवान्। उत्तमसमाजस्य निर्माणाय मानवधर्मं प्रेम सद्भावं च स्वीकरणम् आवश्यकम् अस्ति। संस्थायाः पक्षतः ग्रामे ग्रामे जनान् शाकाहारिणः सदाचारिणः नशामुक्ताश्च कर्तुं अभियानं सञ्चाल्यते।

सन्तपङ्कजमहाराजः श्रद्धालुभ्यः प्रभुप्राप्तेः सरलमार्गं कथयन् सुमिरणस्य ध्यानस्य भजनस्य च विधिं बोधितवान् तथा तस्य नियमितरूपेण आचरणाय आह्वानं कृतवान्। सः अवदत् यत् अस्मिन् मार्गे चलित्वा व्यक्तिः स्वयम् अनुभवं प्राप्तुं शक्नोति तथा तस्य इहलोकः परलोकश्च उभौ कल्याणमयौ भवितुम् अर्हतः।

कार्यक्रमे जिलाध्यक्षः घूरनप्रसादः, सङ्गठनमन्त्री प्रवक्ता च मोतीलालसिंहः, ग्रामप्रधानः मनोजपाठकः सहितं बहुसंख्याकाः श्रद्धालवः उपस्थिताः आसन्। प्रतापगढतः आगताः सङ्गतस्य पदाधिकारिणः सहयोगिनश्च कार्यक्रमे सहभागितां कृतवन्तः।

---------------