Enter your Email Address to subscribe to our newsletters

15 दिसंबरमासं यावत् अवशिष्टस्य गृहकरस्य, जलकरस्य सीवरकरस्य ब्याजराशेः अधिभारे 100 प्रतिशतं मूल्यशैथिल्यस्य लाभम् उत्थापयेत् नागरिकः
प्रयागराजः, 01 सितंबरमासः (हि.स.)। मुख्यमंत्रिणो योगिनः आदित्यनाथस्य नेतृत्वे प्रदेशशासनपरतया प्रवर्तिता एकीकृतसमाधान योजना (ओटीएस) नगरवासिनां कृते अवशिष्ट-करेभ्यो रक्षणप्राप्तये महत्त्वपूर्ण-अवसरः अस्याः योजनायाः अन्तर्गत नागरिकाः स्वकीयस्य बकाया गृहकरस्य, जलकरस्य तथा सीवरकरस्य समाधानं कर्तुं शक्नुवन्ति। करराहत्याः कारणेन नागरिकानां आर्थिकभारः न्यूनीभविष्यति तथा प्रयागराजस्य विकासकार्याणाम् अपि गतिः वर्धिष्यते। एतत् महापौरः गणेशक़ेसरवानी मङ्गलवासरे योजनायाः विषये सूचनां प्रददन् उक्तवान्।
तेन उक्तं यत् नगरनिगमः प्रयागराजः नागरिकेभ्यः अवशिष्टकरस्य भुगतानाय एकमुश्त-समाधान-योजनायाः लाभं प्रददाति। पञ्चदश अगस्त् द्विसहस्रषड्विंशतितः पञ्चदश दिसम्बर् द्विसहस्रषड्विंशतिपर्यन्तं बकाया गृहकरस्य, जलकरस्य तथा सीवरकरस्य उपरि आरोप्यमाणे ब्याजे अधिभारे च शतप्रतिशतं मूल्यं प्रदास्यते।
दीर्घकालतः बकायाकरदातृभ्यः अपि भविष्यति लाभः
महापौरः उक्तवान् यत् दीर्घकालतः अवशिष्टकरं धारयद्भ्यः नगरवासिभ्यः एषा योजना विशेषरूपेण लाभप्रदा अस्ति। ब्याजमध्ये अधिभारे च सम्पूर्णा शैथिल्यप्राप्तेः कारणेन नागरिकाः न्यूनतरेण आर्थिकभारेण स्वकीयस्य पुरातन-अवशिष्टकरस्य निस्तारणं कर्तुं शक्नुवन्ति। तेन उक्तं यत् प्रदेशशासनस्य एषः उपक्रमः नागरिकहिते महत्त्वपूर्णः निर्णयः अस्ति। अनेन नगरवासिनः स्वकीयानां बकायाकराणां सरलतया समाधानं कर्तुं अवसरं प्राप्स्यन्ति तथा नगरनिगमाय अपि राजस्वस्य प्राप्तिः भविष्यति, यस्य उपयोगः नगरस्य विकासकार्येषु जनसुविधानां च उन्नयनाय क्रियते।
महापौरेण मुख्यमन्त्रिणः प्रति कृतज्ञता प्रकटिता
महापौरः गणेशक़ेसरवानी प्रयागराजस्य नागरिकेभ्यः राहत्-प्रदां योजनां प्रवर्तितवते मुख्यमन्त्रिणे योगी आदित्यनाथाय आभारं धन्यवादं च प्रकटितवान्। तेन उक्तं यत् योजनया बहुसंख्यकाः नगरवासिनः लाभान्विताः भविष्यन्ति। महापौरेण नागरिकेभ्यः आग्रहः कृतः यत् ते पञ्चदश दिसम्बर् इति अन्तिमतिथिं प्रतीक्ष्य न तिष्ठन्तु, अपितु समये एव एककृत-समाधान-योजनायाः लाभं स्वीकृत्य स्वकीयस्य बकाया गृहकरस्य, जलकरस्य एवं सीवरकरस्य समाधानं कारयन्तु। तेन उक्तं यत् “करराहत्या समृद्धः प्रयागराजः” इति संकल्पेन नागरिकानां सहभागिता नगरस्य विकासं अधिकं सुदृढीकरिष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani