Enter your Email Address to subscribe to our newsletters

लखनऊ, १ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य ग्रामेषु स्वसहायतासमूहाः ग्रामीणार्थव्यवस्थायाः महिलानाम् आत्मनिर्भरतायाश्च प्रमुखकेन्द्राणि भवन्ति। योगीसर्वकारस्य ग्रामीणजीविकामिशनस्य अन्तर्गतं प्रदेशे १०.५८ लक्षाधिकाः स्वसहायतासमूहाः सक्रियाः सन्ति। एतेषु समूहेषु सम्बद्धाः प्रायः सवाकोटि-ग्रामीणपरिवाराः जीविकायाः नूतनान् अवसरान् प्राप्तवन्तः। एतेषु ८२ लक्षाधिकाः महिलाकृषकाः अपि सम्बद्धाः सन्ति।
आत्मनिर्भरतायाः नूतना कथा
मिशनस्य माध्यमेन महिलाः प्रशिक्षणेन, ऋणेन, उद्यमेन विपणिना च संयोज्यन्ते। खाद्यप्रसंस्करणं, सिवन-कशीदाकार्यं, दुग्धव्यवसायः, हस्तशिल्पं, स्वच्छता-उत्पादानां निर्माणम् इत्यादिषु क्षेत्रेषु महिलाः लघूद्यमान् सञ्चालयन्ति। अनेन तासां आयः वर्धितः तथा परिवाराणाम् आर्थिकस्थितिरपि सुदृढा जाता।
सञ्चय-ऋणेन उद्यमितायाः अवसराः
मिशननिदेशकः अरुणकुमारः अवदत् यत् महिलाः सञ्चयस्य ऋणस्य च पारम्परिकव्यवस्थायाः अग्रे नीत्वा उद्यमितायाः अवसरैः योजिताः सन्ति। प्रशिक्षणेन वित्तीयसहायतया विपणिना च संयोजनस्य कारणेन ग्रामीणक्षेत्रेषु लघूद्योगानां विकासः अभवत्। अनेन महिलासु आत्मविश्वासः वर्धितः तथा स्थानीयस्तरे रोजगारावसराः अपि सृज्यन्ते।
८२ लक्षं महिलाकृषकाः परिवर्तनस्य वाहिकाः
कृषिक्षेत्रे ८२ लक्षाधिकाः महिलाकृषकाः अभियानेन सम्बद्धाः सन्ति। कृषिसम्बद्धकार्येषु महिलानां सहभागितां आयवर्धकावसरैः संयोजयित्वा ग्रामीण-परिवाराणां जीविकास्रोतेषु विविधता आगता। महिलासमूहाः आर्थिकगतिविधीनां सह सामाजिकपरिवर्तनस्यापि सुदृढं माध्यमं भवन्ति।
वित्तीयसमावेशनेन सुदृढा आर्थिका-धारशिला
वित्तीयसमावेशनस्य माध्यमेन ग्रामीण-महिलाभ्यः सञ्चयस्य, ऋणस्य अन्येषाम् आर्थिकावसराणां च प्राप्तिः अभवत्। सर्वकारस्य उद्देश्यम् एतेषां समूहानां उद्यमेन, रोजगारेण विपण्यावसरैश्च संयोजनं कृत्वा आयस्य स्थायी-स्रोतांसि निर्मातुम् अस्ति।
मिशननिदेशकः अरुणकुमारः अवदत् यत् प्रदेशे सार्धदशलक्षाधिकानां स्वसहायता-समूहानां जालं ग्रामीणार्थव्यवस्थायां नूतनां शक्तिं सञ्चारयति। अनेन महिलाभ्यः आर्थिकात्मनिर्भरता सामा-जिकसम्मानस्य च नूतना पहचानः प्राप्यते तथा ग्रामेषु रोजगारस्य उद्यमस्य च अधिकाः अवसराः सृज्यन्ते।
Hindusthan Samachar / Divya Ranjan