Enter your Email Address to subscribe to our newsletters

वाराणसी, ०१ सितम्बरमासः (हि.स.)। काशी हिन्दू विश्वविद्यालयस्य कुलपतिः प्रो. अजित कुमार चतुर्वेदी उक्तवान् यत् प्राकृतिक-भाषा-प्रसंस्करणं, सङ्गणक-दृष्टिः तथा वर्गीकरणम् इत्यादि-प्रौद्योगिकीनाम् आधारेण कृत्रिमबुद्धिमत्ता अधुना केवलं विशिष्टक्षेत्रेषु सीमिता नास्ति। तेन शोधकर्तॄन् अस्याः प्रभावी-उपयोक्तारः भवितुं प्रेरिताः तथा कृत्रिमबुद्धिमत्तां शोधकार्यस्य गतिवर्धकं प्रभावी साधनम् अपि प्रतिपादितम्।
कुलपतिः मङ्गलवासरे विश्वविद्यालयस्य कलासङ्कायस्य शारीरिक-शिक्षा-विभागस्य पक्षतः आयोजितां कार्यशालां सम्बोधयन् उक्तवान्। त्रिदिवसीयायाः ‘वैज्ञानिक-अनुसन्धाने कृत्रिमबुद्धिमत्तायाः अनुप्रयोगः’ इति विषयकस्य राष्ट्रिय-कार्यशालायाः उद्घाटनसत्रे कुलपतिना उक्तं यत् येषां कार्याणां सम्पूर्तये पूर्वं एकवर्षपर्यन्तं समयः अपेक्षितः भवति स्म, तानि अधुना एकमासे अथवा पञ्चदशदिवसेषु सम्पादयितुं शक्यन्ते। अनेन शोधकर्तारः केवलं शोधकार्यस्य अवधिं न्यूनीकर्तुं न शक्नुवन्ति, अपितु अधिकगहनानां महत्त्वपूर्णानां च प्रश्नानां विषये अपि ध्यानं केन्द्रितुं शक्नुवन्ति।
तेन उक्तं यत् शिक्षकानां भूमिका केवलं विद्यार्थिभ्यः कृत्रिमबुद्धिमत्तायाः तथा अन्वेषणयन्त्राणां माध्यमेन सूचनां प्रदातुं सीमिता न भवेत्। अपितु ते एताभ्यः साधनेभ्यः अग्रे गत्वा विषयस्य गहनं बोधं व्यापकं ज्ञानं च विद्यार्थिभ्यः प्रददेयुः।
कार्यशालायां भारतीय-प्रौद्योगिकी-संस्थानस्य, काशी हिन्दू विश्वविद्यालयस्य च सङ्गणक-विज्ञान-अभियांत्रिकी-विभागस्य प्रो. सञ्जय कुमार सिंहः कृत्रिमबुद्धिमत्तायाः यन्त्र-अधिगमस्य च सम्बन्धित-संसाधनानां कृते समर्पित-प्रयोगशालायाः अधिगम-मञ्चस्य च विकासे बलं दत्तवान्। विद्यार्थिषु कृत्रिमबुद्धिमत्तायाः प्रौद्योगिक्याः च उपयोगं प्रोत्साहयितुं क्रियमाणानां प्रयासानां विषये अपि तेन सूचना प्रदत्ता।
कलासङ्कायस्य सङ्कायप्रमुखा प्रो. सुषमा घिल्डियालः दैनिकजीवने कृत्रिमबुद्धिमत्तायाः वर्धमानां भूमिकां उल्लिखितवती। तया उक्तं यत् शारीरिकशिक्षायाः क्रीडाक्षेत्रस्य च अपि तकनीकी-परिवर्तनानुसारं स्वस्य विकासः करणीयः। शारीरिक-शिक्षा-विभागस्य विभागाध्यक्षेण अतिथीनां स्वागतं कृतम्। तेन सूचितं यत् कार्यशालायां केन्द्रीय-विश्वविद्यालय-हरियाणा, तीर्थङ्कर-महाविश्वविद्यालयः, लक्ष्मीबाई-राष्ट्रीय-शारीरिक-शिक्षा-संस्थानम्, जवाहरलाल-नेहरू-विश्वविद्यालयः तथा सनबीम-समूह-शैक्षणिक-संस्थानानि इत्यादिभ्यः विभिन्नेभ्यः शैक्षणिकेभ्यः शोधसंस्थानेभ्यश्च आगताः विशेषज्ञाः प्रतिभागिभ्यः वैज्ञानिक-अनुसन्धाने तथा शारीरिक-शिक्षायां कृत्रिमबुद्धिमत्तायाः अनुप्रयोगसम्बद्धान् विविधदृष्टिकोणान् परिचाययन्ति। त्रिसितम्बरपर्यन्तं चलन्ती कार्यशाला शारीरिक-शिक्षा-विभागस्य करणसिंह-सभागारे आयोजिता अस्ति।
कार्यशालायां द्वितीये त्रितीये च सितम्बर-दिने विभिन्नप्रमुखेभ्यः शैक्षणिकेभ्यः शोधसंस्थानेभ्यश्च विशेषज्ञाः वक्तारश्च सहभागितां करिष्यन्ति, ये अनुसन्धाने उद्भवन्तीनां प्रौद्योगिकीनाम् अनुप्रयोगसम्बद्धान् विविधदृष्टिकोणान् प्रतिभागिभिः सह साझीकुर्वन्ति। कार्यक्रमे प्रो. श्रीराम पाण्डेयः, पुस्तकालय-विज्ञान-सूचना-विज्ञान-विभागः, केन्द्रीय-विश्वविद्यालय-हरियाणा; डॉ. शाश्वत प्रियम खरे, टीएमआईएमटी-शारीरिक-शिक्षा-महाविद्यालयः, तीर्थङ्कर-महाविश्वविद्यालयः; डॉ. बृजकिशोरः, लक्ष्मीबाई-राष्ट्रीय-शारीरिक-शिक्षा-संस्थानम्, ग्वालियर तथा सनबीम-समूह-शैक्षणिक-संस्थानानां मुख्य-सञ्चालनाधिकारी सन्दीप मुखर्जी इत्यादयः विशेषज्ञाः सम्बोधयिष्यन्ति।
कार्यशालायाः उद्घाटनसत्रे ‘हेल्थ एण्ड फिजिकल एजुकेशन’ इति शीर्षकस्य पुस्तकस्य विमोचन-कार्यक्रमः अपि आयोजितः। धन्यवाद-ज्ञापनं प्रो. बी.सी. कपरी इत्यनेन कृतम्।
Hindusthan Samachar / Dheeraj Maithani