उदयपुर सिटी-असरवा वंदे भारतम् अधुना सूरतं यावत् गमिष्यति, रेलवे बोर्डपरिषदः सैद्धांतिकसहमतिः
सूरतम्, 01 सितंबरमासः (हि.स.)। गुजरात-राजस्थानयोर्मध्ये रेलसम्पर्कं सुदृढं कर्तुं रेल्वेमण्डलेन महत्त्वपूर्णः निर्णयः स्वीकृतः। उदयपुरसिटी-असरवयोर्मध्ये सञ्चाल्यमाना वन्देभारतएक्सप्रेस् रेलसेवां सूरतपर्यन्तं विस्तारितुं सैद्धान्तिकस्वीकृतिः प्रदत
वन्दे भारत ट्रैन की फाइल फोटो


सूरतम्, 01 सितंबरमासः (हि.स.)।

गुजरात-राजस्थानयोर्मध्ये रेलसम्पर्कं सुदृढं कर्तुं रेल्वेमण्डलेन महत्त्वपूर्णः निर्णयः स्वीकृतः। उदयपुरसिटी-असरवयोर्मध्ये सञ्चाल्यमाना वन्देभारतएक्सप्रेस् रेलसेवां सूरतपर्यन्तं विस्तारितुं सैद्धान्तिकस्वीकृतिः प्रदत्ता अस्ति। अनेन दक्षिणगुजरातस्य यात्रिकेभ्यः उदयपुरं राजस्थानस्य अन्यानि प्रमुखाणि पर्यटन-धार्मिकस्थलानि च प्रति प्रत्यक्षरेलसेवा सुलभा भविष्यति।

प्रस्तावितव्यवस्थानुसारं रेलयानं मङ्गलवासरं विहाय सप्ताहे षड्दिनानि सञ्चालितं भविष्यति। सूरततः रेलयानं प्रातः षड्वादनदशमिनिटे प्रस्थाय मध्याह्ने एकवादने चत्वारिंशन्मिनिटे उदयपुरसिटीनगरं प्राप्स्यति। प्रत्यागमने रेलयानम् उदयपुरसिटीतः अपराह्णे सार्धत्रिवादने प्रस्थाय रात्रौ एकादशवादने सूरतं प्राप्स्यति। विस्तारितमार्गे भरूचः, वडोदरा, आणन्दः, मणिनगरम्, असरवा, हिम्मतनगरम्, शामलाजीरोड्, डूंगरपुरं, जावरश्च प्रमुखाः विरामस्थानानि भविष्यन्ति।

एतस्याः रेलसेवायाः सूरतपर्यन्तं विस्तारेण दक्षिणगुजरातस्य व्यापारिभ्यः, पर्यटकेभ्यः, राजस्थानं प्रति गच्छद्भ्यः श्रद्धालुभ्यश्च सुविधा प्राप्तुं शक्यते इति अपेक्षा अस्ति। विशेषतः उदयपुरं श्रीनाथद्वारं च गच्छतां यात्रिकाणां कृते एषा प्रत्यक्षरेलसेवा महत्त्वपूर्णा मन्यते।

तथापि विस्तारितरेलसेवा कस्मिन् दिनाङ्के आरप्स्यते, तस्याः अन्तिमः आधिकारिकः निर्णयः पश्चिमरेल्वेप्रशासनेन अद्यापि घोषणीयः अस्ति। रेल्वेप्रशासनेन परिचालनस्य दिनाङ्कः अन्तिमं समयसारिणी च प्रकाशिते सति स्थितिः स्पष्टा भविष्यति।

केन्द्रीयजलशक्तिमन्त्री सी. आर. पाटिलः स्वकीयमाध्यमेन सूचनां प्रसारयन् प्रधानमन्त्री नरेन्द्रमोदिनं रेलमन्त्री अश्विनीवैष्णवं च धन्यवादं ज्ञापितवान्। सः उक्तवान् यत् शीघ्रमेव एषा आधुनिकरेलसेवा प्रारप्स्यते। एषा सूरतसहिताय सम्पूर्णाय दक्षिणगुजराताय महत्त्वपूर्णोपाहारात् इति सः अवदत्।

---------------

Hindusthan Samachar / Dheeraj Maithani