Enter your Email Address to subscribe to our newsletters

कोलकाता, 1 सितंबरमासः (हि.स.)। पत्रकाराणां कृते मङ्गलवासरे नवान्नसभागारात् अनेकाः महत्त्वपूर्णाः घोषणाः कृताः। मुख्यमन्त्री शुभेन्दुअधिकारी पत्रकाराणां निवृत्तिवेतनं प्रतिमासं पञ्चसहस्ररूप्यकाणि कर्तुं तथा स्वास्थ्यबीमायाः क्षेत्रं विस्तारयितुं घोषणा कृतवान्। नवीनव्यवस्थानुसारं मुद्रितमाध्यमैः, वैद्युतिकमाध्यमैः अन्यैः माध्यमैश्च सम्बद्धानां पत्रकाराणां सह समाचारकक्षे सम्पादकीयपीठिकायां कार्यं कुर्वन्तः पत्रकाराः अपि अस्याः सुविधायाः लाभं प्राप्स्यन्ति।
मुख्यमन्त्री अवदत् यत् पत्रकारेभ्यः आयुष्मानभारतस्य मुख्यमन्त्रीस्वास्थ्यबीमायोजनायाश्च अन्तर्गतं राज्यस्य प्रायः एकसहस्रनवशतं सर्वकारीयेषु निजीचिकित्सालयेषु च उपचारस्य सुविधा प्राप्स्यते। अस्याः योजनायाः अन्तर्गतं परिवारसहितं पञ्चलक्षरूप्यकपर्यन्तं चिकित्साव्ययस्य लाभः प्राप्तुं शक्यते। सः अवदत् यत् पूर्वं स्वास्थ्यसाथीयोजनायाः अन्तर्गतं प्रायः सप्तदशशतचिकित्सालयेषु उपचारस्य सुविधा उपलब्धा आसीत्।
एषा सुविधा केवलं पश्चिमबङ्गालराज्ये सीमिता न भविष्यति। सम्पूर्णे देशे स्थितेषु प्रायः अष्टत्रिंशत्सहस्रचिकित्सालयेष्वपि पत्रकाराः तेषां परिवारजनाश्च उपचारस्य सुविधां प्राप्तुं शक्ष्यन्ति। एतेषु वेल्लोरनगरस्य, मुम्बईस्थितस्य टाटाकर्करोगचिकित्सालयस्य, चण्डीगढस्य पीजीआई, हैदराबादस्य बेङ्गलूरुनगरस्य च प्रमुखचिकित्सालयाः सम्मिलिताः सन्ति।
मुख्यमन्त्री स्पष्टं कृतवान् यत् ये पत्रकाराः पूर्वमेव परिवारसहिताः आयुष्मानभारते पञ्जीकृताः सन्ति, तेभ्यः पृथक् मुख्यमन्त्रीस्वास्थ्यबीमायोजनायाः पत्रं ग्रहीतुं आवश्यकता न भविष्यति। पत्रकाराः परिवारसहिताः योजनायाः लाभं प्राप्स्यन्ति। अस्मिन् अवसरे कतिपयेभ्यः पत्रकारेभ्यः प्रतीकरूपेण स्वास्थ्यबीमापत्राणि अपि प्रदत्तानि।
निवृत्तपत्रकाराणां निवृत्तिवेतनमपि प्रतिमासं पञ्चसहस्ररूप्यकाणि कृतम् अस्ति। पूर्वं एषा राशिः द्विसहस्रपञ्चशतं रूप्यकाणि आसीत् तथा प्रायः एकशतचतुःपञ्चाशत् पत्रकाराः अस्य लाभं प्राप्नुवन्ति स्म। मुख्यमन्त्री अवदत् यत् वर्धितनिवृत्तिवेतनव्यवस्था अद्यतः एव प्रवर्तिष्यते। अस्यां व्यवस्थायां सर्वे पात्रपत्रकाराः सम्मिलिताः भविष्यन्ति। समाचारकक्षे सम्पादकीयपीठिकायां कार्यं कुर्वन्तः प्रेसमान्यतापत्रं न धारयन्तश्च पात्रपत्रकाराः अपि अस्याः सुविधायाः परिधौ भविष्यन्ति।
मुख्यमन्त्री अवदत् यत् निजीसंस्थासु कार्यं कुर्वन्तः पत्रकाराः बहुधा नियमितसामाजिकसुरक्षायाः लाभं प्राप्तुं न शक्नुवन्ति। नवीनव्यवस्थायाः उद्देश्यं तान् सामाजिकसुरक्षायाः परिधौ आनेतुम् अस्ति।
नवीनयोजनायां सर्वप्रकारकाः पत्रकाराः पात्रतानुसारम् आवेदनं कर्तुं शक्ष्यन्ति। चयनं निर्धारितयोग्यतायाः मापदण्डानां च आधारेण भविष्यति। सर्वकारेण चयनप्रक्रियायां पारदर्शिता संरक्षिता भविष्यति इत्यपि आश्वासनं प्रदत्तम्।
पत्रकाराणां प्रेसमान्यतापत्रस्य विषयेऽपि मुख्यमन्त्रिणा महत्त्वपूर्णा घोषणा कृता। सः अवदत् यत् नवीनमान्यतापत्राय कृतं आवेदनं परीक्षणसमित्याः स्तरे अनावश्यकतया स्थगितं न भविष्यति। निर्धारितमापदण्डान् पूरयन्तः आवेदकाः नियमानुसारं मान्यतापत्रं प्राप्स्यन्ति।
एतदतिरिक्तं आवेदनं कुर्वद्भ्यः पत्रकारेभ्यः पूजाभत्तारूपेण त्रिसहस्ररूप्यकाणि प्रदास्यन्ते। अस्य धनराशेः वितरणे कोलकातानगरस्य जनपदानां च पत्रकाराणां मध्ये कश्चिदपि भेदभावः न भविष्यति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani