प्रधानमन्त्रिणः मोदिनः जन्मदिवसावसरे मध्यप्रदेशे १७ सेप्टेम्बरमासतः १७ अक्टोबरपर्यन्तं प्रचलिष्यति अभियानम्
सेवासङ्कल्पाभियानं विकसितभारतस्य सङ्कल्पस्य दिशि महत्त्वपूर्णं पदम् : मोहनयादवः भोपालम्, ०१ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः उक्तवान् यत् अग्रिम ०७ अक्टोबरदिनाङ्के मुख्यमन्त्रिरूपेण प्रधानमन्त्रिरूपेण च प्रधानमन्त्र
कैबिनेट की बैठक से पहले मंत्रीगणों को संबोधित करते हुए मुख्यमंत्री डॉ. मोहन यादव


सेवासङ्कल्पाभियानं विकसितभारतस्य सङ्कल्पस्य दिशि महत्त्वपूर्णं पदम् : मोहनयादवः

भोपालम्, ०१ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः उक्तवान् यत् अग्रिम ०७ अक्टोबरदिनाङ्के मुख्यमन्त्रिरूपेण प्रधानमन्त्रिरूपेण च प्रधानमन्त्रिणः नरेन्द्रमोदिनः जनसेवायाः २५ वर्षाणि पूर्णानि भविष्यन्ति। एतेषु २५ वर्षेषु विकासस्य जनकल्याणस्य च ये अविस्मरणीयाः कार्याः अभवन्, तेषां सूचना जनसामान्यं प्रति प्रसारयितुं सेवासङ्कल्पाभियानम् आयोजयिष्यते।

मुख्यमन्त्री डॉ. यादवः मङ्गलवासरे मन्त्रिपरिषदः सभायाः पूर्वं मन्त्रिगणान् सम्बोधयन् उक्तवान् यत् प्रधानमन्त्रिणः मोदिनः जन्मदिवसात् १७ सेप्टेम्बर २०२६ तः प्रारभ्य एकमासपर्यन्तम् अर्थात् १७ अक्टोबर २०२६ पर्यन्तम् एतदभियानं प्रचलिष्यति। सेवासङ्कल्पाभियानं विकसितभारतस्य सङ्कल्पस्य दिशि महत्त्वपूर्णं पदं भविष्यति। अस्य अभियानस्य अन्तर्गतं अधिकाधिक-जनसहभागितां सुनिश्चित्य कार्यक्रमाः आयोजनीयाः।

मुख्यमन्त्रिणा अप्रैलतः जून २०२६ पर्यन्तस्य त्रैमासिककाले देशस्य सकलघरेलू-उत्पादस्य वृद्धिदरः ७.८ प्रतिशतं प्राप्तः इत्यस्मिन् विषये प्रधानमन्त्रिणे मोदिने अभिनन्दनं कृतम् तथा मन्त्रिपरिषदः पक्षतः तस्य अभिनन्दनं कृतम्। गतवर्षे अस्यैव अवधौ एषा वृद्धिदरः ६.९ प्रतिशतं आसीत्। तेन उक्तं यत् प्रधानमन्त्रिणः मोदिनः नीतिनां परिणामस्वरूपं देशः सर्वेषु क्षेत्रेषु तीव्रगत्या प्रगतिं कुर्वन् अस्ति।

धार्मिकपर्यटनस्य प्रोत्साहनाय प्रदेशे प्रचलन्ति विविधाः गतिविधयः

मुख्यमन्त्रिणा उक्तं यत् प्रधानमन्त्रिणा मोदिना सांस्कृतिकोत्थानस्य धार्मिक-पर्यटनस्य च या दूरदृष्टिः प्रदत्ता, तस्याः परिणामस्वरूपं प्रदेशस्य विभिन्नेषु स्थानेषु अस्माकं गौरवशालिन्यः परम्पराः ऐतिहासिकधरोहरश्च संरक्षितुं कार्यमारब्धम् अस्ति। अस्मिन् दिशः अन्तर्गतं प्रदेशे २४३ कोटिरूप्यकाणां व्ययेन विभिन्नानि संरक्षणविकासकार्याणि प्रचलन्ति।

‘न विलम्बः, न दूरी’ इति सिद्धान्तं चरितार्थयति जनविश्वासाभियानम्

मुख्यमन्त्रिणा उक्तं यत् प्रदेशे गत ७ अगस्ततः प्रारब्धस्य जनविश्वासाभियानस्य अन्तर्गतं ‘न विलम्बः, न दूरी’ इति सिद्धान्तमवलम्ब्य राज्यसर्वकारः सुशासनस्य क्षेत्रे अस्य अभियानस्य एकं मीलस्तम्भं कर्तुं प्रयतते। अधुना पर्यन्तं तेन स्वयमेव चत्वारः जनपदाः—क्रमशः छिन्दवाडा, बडवानी, टीकमगढः बालाघाटश्च—परिभ्रमिताः।

तेन मन्त्रिगणान् अभियानस्य अन्तर्गतं निरन्तरं भ्रमणं कृत्वा विभिन्नानां योजनानां विकासगतिविधीनां च निरीक्षणं कर्तुं तथा विभिन्नसमुदायैः सह संवादं निरन्तरं स्थापयितुं च उक्तम्।

Hindusthan Samachar / Divya Ranjan