न्यायाधीशः संजय के. अग्रवालो राजस्थान उच्च न्यायालयस्य नूतनःसीजेपदेऽधिष्ठितः
जयपुरम्, 01 सितंबरमासः(हि.स.)। उच्चतमन्यायालयस्य (सुप्रीम कोर्ट) महत्त्वपूर्णे न्यायाधीशसमूहनिर्णयसमितेः सोमवासरे आयोजितायां सभायां छत्तीसगढ़-उच्चन्यायालयस्य वरिष्ठतमस्य न्यायाधीशस्य न्यायमूर्तेः सञ्जय के. अग्रवालस्य राजस्थान-उच्चन्यायालयं स्थानान्
जज संजय के. अग्रवाल राजस्थान उच्च न्यायालय के नए सीजे


जयपुरम्, 01 सितंबरमासः(हि.स.)। उच्चतमन्यायालयस्य (सुप्रीम कोर्ट) महत्त्वपूर्णे न्यायाधीशसमूहनिर्णयसमितेः सोमवासरे आयोजितायां सभायां छत्तीसगढ़-उच्चन्यायालयस्य वरिष्ठतमस्य न्यायाधीशस्य न्यायमूर्तेः सञ्जय के. अग्रवालस्य राजस्थान-उच्चन्यायालयं स्थानान्तरणस्य अनुशंसा कृता अस्ति। तेन सह तस्य राजस्थान-उच्चन्यायालयस्य मुख्यन्यायाधीशपदे पदोन्नतेरपि अनुशंसा कृता अस्ति। अपरपक्षे राजस्थान-उच्चन्यायालयस्य वरिष्ठतमस्य न्यायाधीशस्य पुष्पेन्द्रसिंहभाटेः जम्मू-कश्मीर-लद्दाख-उच्चन्यायालयस्य मुख्यन्यायाधीशपदे नियुक्तेः अनुशंसा कृता अस्ति।

न्यायिकक्षेत्रस्य जनाः अस्य स्थानान्तरणनिर्णयस्य सम्बन्धं राजस्थान-उच्चन्यायालयस्य वर्तमानकार्यवाहकमुख्यन्यायाधीशेन संजीवप्रकाशशर्मणा सह सम्बद्धेन साम्प्रतिकविवादेन प्रत्यक्षरूपेण पश्यन्ति। मन्यते यत् अस्य फेरबदलस्य माध्यमेन उच्चतमन्यायालयः उच्चन्यायालयस्य प्रशासनिकसन्तुलनं न्यायिकव्यवस्थां च पुनः सुदृढीकर्तुम् इच्छति।

उल्लेखनीयं यत् उच्चतमन्यायालयस्य न्यायाधीशेन सन्दीपमेहतामहोदयेन भारतस्य मुख्यन्यायाधीशाय सूर्यकान्ताय राजस्थान-उच्चन्यायालयस्य कार्यवाहकमुख्यन्यायाधीशस्य संजीवप्रकाशशर्मणः सम्बन्धे शिकायत् कृत्वा तं राजस्थान-उच्चन्यायालयात् स्थानान्तरणीयम् इति आग्रहः कृतः आसीत्। तस्य स्थाने अन्यस्य न्यायाधीशस्य नियुक्तेरपि अनुरोधः कृतः आसीत्। ततः भारतस्य मुख्यन्यायाधीशस्य वक्तव्यमपि प्रकाशितम् आसीत् यत् प्रकरणस्य उच्चस्तरीयं परीक्षणं कृत्वा सर्वेषाम् आयामानां सम्यक् परीक्षणानन्तरमेव निर्णयः स्वीकरिष्यते। न्यायमूर्तिः संजीवप्रकाशशर्मा आगामिनि २६ सितम्बर्-दिने सेवानिवृत्तः भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani