Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, ०१ सेप्टेम्बरमासः (हि.स.)। काङ्ग्रेसनेता तथा लोकसभायां विपक्षनेता राहुलगान्धिना अनुसूचितजाति-अनु-सूचितजनजातिसमाजमधिकृत्य कथितायाः अभद्रटिप्पण्याः विरोधे लक्सरक्षेत्रस्य भारतीयजनतापक्षस्य पूर्वविधायकः सञ्जयगुप्तः मोर्चां उद्घाटितवान्। सः राहुलगान्धिनः त्वरितनिग्रहणस्य याचनां कृत्वा तस्य वक्तव्यं अनुसूचितजात्यनुसूचितजन-जातिसमाजस्य अपमानम् इति उक्तवान्।
हल्द्वानीनगरे काङ्ग्रेसस्य राष्ट्रियाध्यक्षस्य मल्लिकार्जुनखरगे इत्यस्य सभायाः अनन्तरं शुद्धीकरणसम्बद्धतया प्रारब्धस्य घटनाक्रमस्य विषये सञ्जयगुप्तः आरोपं कृतवान् यत् राहुलगान्धिना अनुसूचितजाति-अनुसूचितजनजाति-समुदायसम्बन्धे अभद्रटिप्पणी कृता तथा च असत्यतथ्यान् आधारं कृत्वा समाजस्य अपकीर्तिं कर्तुं प्रयत्नः कृतः।
तेन उक्तं यत् अनुसूचितजाति-अनुसूचितजनजातिसमाजः देशस्य लोकतान्त्रिक-सामाजिकव्यवस्थायाः महत्त्वपूर्णः अंशः अस्ति तथा च तस्य सम्मानविषये कस्यापि प्रकारस्य क्रीडा स्वीकार्यं नास्ति। तेन उक्तं यत् शुद्धीकरणकार्यं कुर्वन्तः जनाः अपि दलितसमाजस्य एव आसन्। अतः तेषां विषये टिप्पणीकरणं समाजस्य अपमानम् अस्ति।
पूर्वविधायकेन उक्तं यत् राजनैतिकविरोधः वैचारिकमतभेदाश्च लोकतन्त्रस्य अंशः सन्ति, किन्तु कस्यचित् समुदायस्य गरिमायाः आघातं कुर्वती टिप्पणी राजनैतिकवक्तृत्वस्य नाम्ना उपेक्षितुं न शक्यते। तेन सम्बद्धाधिकारिणः प्रकरणस्य संज्ञानं स्वीकृत्य वक्तव्यस्य अन्वेषणं कारयितुं विध्यनुसारं कार्यवाहीं कर्तुं च आग्रहः कृतः।
राहुलगान्धिनः कथितवक्तव्यस्य विरोधे सञ्जयगुप्तेन तस्य त्वरिनिग्रहणस्य याचना कृता, येन लक्सरक्षेत्रे राजनैतिकवातावरणं उष्णम् अभवत्। भाजपानेता उक्तवान् यत् प्रकरणे निष्पक्षान्वेषणानन्तरं दोषी सिद्धे सति कठोरा वैधानिकी कार्यवाही भवितव्या। तेन अनुसूचितजाति-अनुसूचितजन-जातिसमाजस्य जनान् अपि लोकतान्त्रिकेन शान्तिपूर्णेन च प्रकारेण स्वविरोधं प्रकटयितुम् आह्वानं कृतम्।
Hindusthan Samachar / Divya Ranjan