Enter your Email Address to subscribe to our newsletters

नवदेहली, १० सितम्बरमासः (हि.स.)। केन्द्रीय-गृहमन्त्री एवं सहकारितामन्त्री अमित शाहः गुरुवासरे अवदत् यत् प्रधानमन्त्री-नरेन्द्रमोदिनः नेतृत्वे गत १२ वर्षेषु देशस्य आपदा-प्रबन्धनस्य दृष्टिकोणे तथा कार्यप्रणाल्यां मूलभूतः परिवर्तनः अभवत्। पूर्वं आपदा केवलं राहत-कार्यस्य पुनर्वासस्य च दृष्ट्या एव पश्यन्ति स्म, किन्तु अधुना जोखिम-न्यूनीकरणम्, पूर्वचेतावनी-प्रणाली तथा जनहानि-निवारणस्य लक्ष्यं स्वीकृत्य देशः नूतनयुगे अग्रे गच्छति। सः अवदत् यत् मोदी-सर्वकारस्य लक्ष्यं आपदा-रोधकग्रामाणां तथा आपदा-रोधकनगराणां निर्माणम् अस्ति, तथा च एतत् प्राथमिकतया अग्रे नेतव्यम्।
शाहः नवदेहल्यां राष्ट्रिय-आपदा-प्रबन्धन-संस्थानस्य (एन.आई.डी.एम.) संस्थान-निकायस्य तृतीयायाः बैठकस्य अध्यक्षतां कुर्वन् अवदत् यत् देशेन अनेकानाम् आपदानां सफलतया सामना कृतः अस्ति, येन बृहती जनहानिः न अभवत्। जनहानि-निवारणस्य लक्ष्यं केवलम् आपदायाः अनन्तरं राहत-उद्धारकार्यपर्यन्तं सीमितं न भवेत्, अपितु आपदायाः उत्पत्तेः निवारणाय उपायेषु अपि ध्यानं दातव्यम्।
गृहमन्त्री अवदत् यत् आपदा-प्रबन्धने सर्वकारस्य सर्वेषां विभागानां संयुक्तरूपेण कार्यं कर्तुं ‘सम्पूर्ण-सर्वकार’ इति कार्यप्रणालीम् अधिकं सुदृढां कर्तव्यम्। सः सर्वान् हितधारकान् स्व-स्व विभागेषु कार्यसूच्याः क्रियान्वयनाय एकं केन्द्रितं प्रकोष्ठं निर्मातुं तथा विभागप्रमुखान् न्यूनातिन्यूनं त्रिषु मासेषु एकवारं तस्य समीक्षा-सभां कर्तुं निर्देशितवान्।
सः अवदत् यत् पर्यावरण-संरक्षणम्, जोखिम-न्यूनीकरणम्, लचीलापनम् तथा व्यापक-राष्ट्रीय-दृष्टिकोणस्य कारणेन भारतः शनैः शनैः विश्वे आपदा-प्रबन्धनस्य आदर्श-प्रतिरूपं भवति। वैश्विक-तापमान-वृद्धेः तथा जलवायु-परिवर्तनस्य कारणेन आगामिकाले आपदानां संख्या वर्धितुं शक्नोति। विज्ञानस्य नूतनप्रयोगैः नूतनप्रकारस्य आपदाः अपि समक्षं आगन्तुं शक्नुवन्ति, येन एन.आई.डी.एम. तथा राष्ट्रिय-आपदा-प्रबन्धन-प्राधिकरणस्य (एन.डी.एम.ए.) भूमिका अधिका महत्त्वपूर्णा भविष्यति।
शाहः एन.आई.डी.एम.-संस्थानं अनुसन्धानस्य, नवाचारस्य, नीतिसहयोगस्य, प्रशिक्षणस्य तथा विभागीय-समन्वयस्य राष्ट्रियकेन्द्ररूपेण स्थापयितुं बलं दत्तवान्। सः अवदत् यत् एन.आई.डी.एम. तथा एन.डी.एम.ए. विश्वे प्रचलितानां अनुसन्धानानां अध्ययनं कृत्वा तेषां निष्कर्षान् भारतीयपरिस्थितीनाम् अनुरूपं कार्यान्वयेताम्। प्रत्येकस्य आपदायाः अनन्तरं उभयोः संस्थयोः संयुक्तदलस्य गठनं कृत्वा राष्ट्रिय-आपदा-मोचन-बलम् (एन.डी.आर.एफ.) तथा राज्य-आपदा-मोचन-बलम् (एस.डी.आर.एफ.) अपि अस्मिन् सम्मिलितं कुर्यात्। दलं क्षतेः कारणानाम् अध्ययनं कृत्वा विस्तृतां प्रतिवेदनं सज्जीकुर्यात्।
शाहः अवदत् यत् मोदी-सर्वकारस्य शासनकाले राज्य-आपदा-मोचन-निधौ प्रायः चतुर्गुणा तथा राष्ट्रिय-आपदा-मोचन-कोषे प्रायः त्रिगुणा वृद्धिः अभवत्। गत ११ वर्षेषु आपदा-प्रबन्धनस्य क्षेत्रे प्रायः द्वि-अर्धलक्ष-कोटि-रूप्यकाणां व्ययः कृतः अस्ति।
गृहमन्त्री आपदा-प्रबन्धनसम्बद्धानां चल-दूरभाष-अनुप्रयोगानां प्राथमिक-माध्यमिक-उच्चशिक्षापर्यन्तं प्रसारं तथा प्रशिक्षण-दिशानिर्देशानां भूमौ प्रभावी-रूपेण कार्यान्वयनस्य विषये अपि बलं दत्तवान्। सः अवदत् यत् ज्ञानं क्षमतायां, क्षमता सज्जतायां, तथा सज्जता परिणामे परिवर्त्य जनहानि-निवारणस्य लक्ष्यं प्राप्तव्यं भवेत्।
–––––––––––––––––––––––––––––––
Hindusthan Samachar / अंशु गुप्ता