क्रान्तिकारी-बाघा-जतिनस्य पुण्यतिथौ मुख्यमन्त्रिणा शुभेन्दु-अधिकारीणा श्रद्धाञ्जलिः
कोलकाता, १० सेप्टेम्बरमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु-अधिकारी गुरुवासरे प्रातः महान् क्रान्तिकारी स्वतन्त्रतासेनानी च बाघा-जतिनस्य पुण्यतिथौ तस्मै श्रद्धाञ्जलिं समर्पितवान्। सः सामाजिक-माध्यमे सन्देशं प्रकाश्य ‘बाघा-जतिन’ इति नाम्
क्रांतिकारी बाघा जतिन की छवि


कोलकाता, १० सेप्टेम्बरमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु-अधिकारी गुरुवासरे प्रातः महान् क्रान्तिकारी स्वतन्त्रतासेनानी च बाघा-जतिनस्य पुण्यतिथौ तस्मै श्रद्धाञ्जलिं समर्पितवान्। सः सामाजिक-माध्यमे सन्देशं प्रकाश्य ‘बाघा-जतिन’ इति नाम्ना प्रसिद्धस्य जतिन्द्रनाथ-मुखर्जी इत्यस्य आत्मबलिदानं स्मृतवान्।

शुभेन्दु-अधिकारी स्वसन्देशे लिखितवान्— “सशस्त्र-क्रान्तिकारी, स्वतन्त्रतासेनानी बाघा-जतिनस्य अर्थात् जतिन्द्रनाथ-मुखर्जीस्य आत्मबलिदानदिने विनम्रा श्रद्धाञ्जलिः।”

जतिन्द्रनाथ-मुखर्जी ७ दिसम्बरमासे १८७९ तमे वर्षे जन्म अलभत। सः बङ्गालस्य प्रमुखेषु क्रान्तिकारिषु अन्यतमः आसीत् तथा च ब्रिटिशशासनस्य विरुद्धे सशस्त्रान्दोलने महत्त्वपूर्णां भूमिकां निर्वाहितवान्। व्याघ्रेण सह युद्धं कृत्वा तस्य वधस्य घटनायाः अनन्तरं सः ‘बाघा-जतिन’ इति नाम्ना प्रसिद्धः अभवत्।

९ सेप्टेम्बरमासे १९१५ तमे वर्षे ओडिशाराज्यस्य बालेश्वरे ब्रिटिश-आरक्षक-सैनिकैः सह अभिमुखसङ्घर्षे सः गम्भीररूपेण आहतः अभवत्। ततः परदिने, १० सेप्टेम्बरमासे १९१५ तमे वर्षे सः अन्तिमश्वासं त्यक्तवान्। तस्य पुण्यतिथौ देशे सर्वत्र तं स्वातन्त्र्यसङ्ग्रामस्य साहसिकक्रान्तिकारिरूपेण स्मर्यते।

Hindusthan Samachar / Divya Ranjan