नवीनप्रौद्योगिक्या भविष्यति वनानां श्रेष्ठतरं मूल्याङ्कनम्, स्वदेशीप्रौद्योगिक्याः स्वीकरणे बलम्।
नवदिल्ली, 10 सितंबरमासः (हि.स.)। केन्द्रीयपर्यावरणवनजलवायुपरिवर्तनमन्त्री भूपेन्द्रयादवः उक्तवान् यत् भारतं वनानां वृक्षाणां च सम्यग् मूल्याङ्कनाय आधुनिकानां स्वदेशीयानां च प्रौद्योगिकीनाम् अधिकाधिकं प्रयोगं कुर्यात्। वनानां संरक्षणाय हरितक्षेत्र
कार्यशाला में केन्द्रीय मंत्री भूपेन्द्र यादव


नवदिल्ली, 10 सितंबरमासः (हि.स.)।

केन्द्रीयपर्यावरणवनजलवायुपरिवर्तनमन्त्री भूपेन्द्रयादवः उक्तवान् यत् भारतं वनानां वृक्षाणां च सम्यग् मूल्याङ्कनाय आधुनिकानां स्वदेशीयानां च प्रौद्योगिकीनाम् अधिकाधिकं प्रयोगं कुर्यात्। वनानां संरक्षणाय हरितक्षेत्रस्य वर्धनाय च सुदृढा मानकसञ्चालनप्रक्रिया तथा एकसमानमापदण्डाः आवश्यकाः सन्ति। सः उक्तवान् यत् प्रौद्योगिक्याः साहाय्येन वनसम्बद्धाः दत्तांशाः अधिकं सटीकाः भविष्यन्ति तथा जलवायुपरिवर्तनस्य निवारणेऽपि सहायता भविष्यति।

गुरुवासरे नवदिल्ल्यां ‘वनवृक्षसंसाधनानाम् आकलने नवीनतमप्रौद्योगिकीनां लाभः’ इति विषये राष्ट्रियकार्यशालायाः उद्घाटनं कुर्वन् भूपेन्द्रयादवः उक्तवान् यत् भारतं १९८७ तमवर्षात् भारतीयवनसर्वेक्षणस्य माध्यमेन प्रत्येकं द्विवर्षे देशस्य वनवृक्षसंसाधनानाम् आकलनं करोति। एषा प्रतिवेदना देशे वनानां स्थितेः परिवर्तनस्य च वैज्ञानिकं अभिलेखं निर्माति।

केन्द्रीयमन्त्री उक्तवान् यत् पुनः पुनः अग्निदाहेन प्रभावितानां वनक्षेत्राणां परिचयं कृत्वा तेषां कृते पृथक् रणनीतिः निर्मातव्या। तेन सह आर्द्रभूमीनां वनानां तृणभूमीनां च मध्ये सन्तुलनं स्थापयितुम् अपि आवश्यकम् अस्ति, येन जैवविविधता संरक्षिता भवेत्।

सः वनकर्मचारिणां प्रशिक्षणस्य, स्वदेशीयप्रौद्योगिक्याः विकासस्य तथा श्रेष्ठगुणवत्तायुक्तदत्तांशानां च विषये अपि बलं दत्तवान्। सः उक्तवान् यत् भारतस्य लक्ष्यं २०३५ तमवर्षपर्यन्तं ३.५ तः ४ अरबटनपर्यन्तं कार्बनडाइऑक्साइड्-समतुल्यस्य कार्बनसङ्ग्रहस्य निर्माणम् अस्ति। एतत् तकनीकीनवाचारैः, सुदृढनीतिभिः जनसहभागितया च एव प्राप्तुं शक्यते।

कार्यशालायां राज्येषु वनविभागानां, वैज्ञानिकसंस्थानां तथा तकनीकीविशेषज्ञानां प्रतिनिधयः भागं गृहीतवन्तः। तत्र वनसीमानां अङ्कीयकरणस्य, वनवृक्षाच्छादनस्य आकलनस्य तथा कार्बनसञ्चयस्य अनुमानस्य च विषयेषु चर्चा कृता। केन्द्रसर्वकारेण उक्तं यत् हरितभारत-अभियानस्य, मिष्टी-योजनायाः, नगरवनयोजनायाः, नमोवनस्य तथा ‘एकः वृक्षः मातुः नाम्नि’ इत्यादीनां योजनानां माध्यमेन राज्येभ्यः निरन्तरं तकनीकीं वित्तीयं च साहाय्यं प्रदीयते।

---------------

Hindusthan Samachar / Dheeraj Maithani