ब्रिक्स्-शिखरसम्मेलनस्य शुभारम्भः शनिवासरे भविष्यति, जिनपिङ्गः, पुतिनः, पेजेश्कियानः च भारतम् आगमिष्यन्ति।
नव दिल्ली, 10 सितंबरमासः (हि.स.)।ब्रिक्स्-शिखरसम्मेलनस्य अन्तर्गतं सदस्यदेशानां सहभागिदेशानां च नेतृभ्यः कृते अत्र भारतमण्डपमे १२ तथा १३ सितम्बर् दिनाङ्कयोः विभिन्नाः कार्यक्रमाः आयोजयिष्यन्ते। कार्यक्रमेषु गोपनीयसत्रम्, ‘भारत-इनोवेट्स्’ प्रदर्शनी,
ब्रिक्स लोगो


नव दिल्ली, 10 सितंबरमासः (हि.स.)।ब्रिक्स्-शिखरसम्मेलनस्य अन्तर्गतं सदस्यदेशानां सहभागिदेशानां च नेतृभ्यः कृते अत्र भारतमण्डपमे १२ तथा १३ सितम्बर् दिनाङ्कयोः विभिन्नाः कार्यक्रमाः आयोजयिष्यन्ते। कार्यक्रमेषु गोपनीयसत्रम्, ‘भारत-इनोवेट्स्’ प्रदर्शनी, सामूहिकचित्रग्रहणम्, संयुक्तवृक्षारोपणं तथा प्रधानमन्त्रीपक्षतः आयोजितं रात्रिभोजनं च सम्मिलितानि सन्ति। अष्टादशे ब्रिक्स्-शिखरसम्मेलने १० सदस्यदेशानां १० सहभागिदेशानां च नेतारः सम्मिलिताः भविष्यन्ति। तदतिरिक्तं ५ क्षेत्रीयसङ्घटनानां अध्यक्षाः प्रतिनिधयः वा तथा ७ अन्तर्राष्ट्रीयसङ्घटनानां प्रमुखाः अपि सम्मेलने उपस्थिताः भविष्यन्ति।

ब्रिक्स्-शिखरसम्मेलने ब्राजील्-देशं विहाय सर्वेषां १० सदस्यदेशानां शीर्षनेतारः भागं गृह्णन्ति। ब्राजीलस्य पक्षतः विदेशमन्त्री माउरो विएरा सम्मेलने भागं ग्रहीष्यति। चीनतः राष्ट्रपतिः शी जिनपिङ्गः, रूसस्य राष्ट्रपतिः व्लादिमीर् पुतिनः, दक्षिणाफ्रिकायाः राष्ट्रपतिः सिरिलरामाफोसा च सम्मेलने भागं ग्रहीष्यन्ति।

तदतिरिक्तम् ईरानतः राष्ट्रपतिः मसूदपेजेश्कियानः, मिस्रतः राष्ट्रपतिः अब्देलफतह-अल्-सीसी, इथियोपियातः प्रधानमन्त्री अबिय अहमद अली, इण्डोनेशियातः राष्ट्रपतिः प्रबोवो सुबियान्तो तथा सऊदी-अरबस्य विदेशमन्त्री प्रिन्स् फैसल् बिन् फरहान् अल् सऊदः, संयुक्तारब-अमीराततः अबुधाबीनगरस्य युवराजः शेख् खालिद् बिन् मोहम्मद् बिन् जायद् अल् नह्यानः च सम्मेलने भागं ग्रहीष्यन्ति।

विदेशमन्त्रालयस्य अनुसारं १२ सितम्बर् दिनाङ्के अपराह्णे द्विवादने ब्रिक्स्-सदस्यदेशानां नेतारः भारतमण्डपम् आगमिष्यन्ति। ततः शिखरसम्मेलनसभागारे ‘समावेशिग्लोबलशासनं बहुपक्षवादस्य च सुदृढीकरणम्’ इति विषये सदस्यदेशानां सत्रं भविष्यति। अस्मिन्नेव दिने सायंकाले भारतमण्डपे एव ब्रिक्स्-सदस्यदेशानां नेतारः ‘भारत-इनोवेट्स्’ प्रदर्शनीम् अवलोकयिष्यन्ति। ततः भारतमण्डपस्य बाह्यप्राङ्गणे सदस्यदेशानां नेतारः सामूहिकचित्रग्रहणाय एकत्रिताः भविष्यन्ति। अनन्तरं संयुक्तवृक्षारोपणकार्यक्रमः भविष्यति। रात्रौ प्रधानमन्त्रीपक्षतः राजकीय-रात्रिभोजनस्य आयोजनं करिष्यते।

रविवासरे प्रातः ब्रिक्स्-सहभागिदेशानां आमन्त्रितदेशानां च शासनाध्यक्षाः राष्ट्राध्यक्षाश्च भारतमण्डपम् आगमिष्यन्ति। प्रातः सामूहिकचित्रग्रहणस्य अनन्तरं शिखरसम्मेलनस्य मुक्तसत्रस्य प्रारम्भः भविष्यति। अस्य विषयः ‘लचीलता, नवाचारः, सहयोगः सततता च — समावेशिग्लोबलविकासस्य भविष्यस्य आकारनिर्धारणम्’ इति अस्ति। मन्त्रालयस्य कथनानुसारं विषयः ‘मानवता प्रथमम्’ इति भावनायाः आधारेण जनकेन्द्रितदृष्टिकोणं प्रतिबिम्बयति। सम्मेलने ब्रिक्स्-सहयोगस्य वैश्विकक्षेत्रीयविषयाणां च विषये विचाराणाम् आदानप्रदानं भविष्यति।

ब्रिक्स्-सहभागिदेशेभ्यः बेलारूसस्य विदेशमन्त्री मैक्सिम् रिजेन्कोवः, बोलिवियायाः प्रभारीराजदूता अर्लेट् गाब्रिएला बुस्टामान्ते गार्सिया, क्यूबादेशस्य विदेशमन्त्री ब्रूनो रोड्रिग्ज् पैरिला, कजाकिस्तानस्य राष्ट्रपतिः कासिम्-जोमार्ट् तोकायेवः तथा मलेशियायाः प्रधानमन्त्री अनवर् इब्राहिमः भागं ग्रहीष्यन्ति। नाइजीरियायाः उपराष्ट्रपतिः काशिम् शेट्टीमा, थाईलैण्डस्य उपप्रधानमन्त्री विदेशमन्त्री च सिहासाक् फुआङ्केटकेओ, युगाण्डायाः उपराष्ट्रपतिः जेसिका रोज् एपेल् अलुपो, उज्बेकिस्तानस्य उपप्रधानमन्त्री अर्थव्यवस्थावित्तमन्त्री च जम्शिद् कुचकारोवः तथा वियतनामस्य प्रधानमन्त्री ले मिन्ह हङ्गः अपि सम्मेलने सम्मिलिताः भविष्यन्ति।

सम्मेलने क्षेत्रीयसङ्घटनानां अन्तर्राष्ट्रीयसंस्थानां च प्रमुखाः अपि भागं ग्रहीष्यन्ति। संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेसः, विश्वव्यापारसङ्घटनस्य महानिदेशिका न्गोजी ओकोंजो-इवेला, विश्वस्वास्थ्यसङ्घटनस्य महानिदेशकः टेड्रोस् अधानोम् घेब्रेयेसुसः, न्यू डेवलपमेण्ट् बैंकस्य अध्यक्षाः दिल्मा रूसेफ्, एआईआईबी-संस्थायाः अध्यक्षा जोउ जियायी तथा आईएसए-संस्थायाः सीडीआरआई-संस्थायाः च प्रमुखाः सम्मेलने भागं ग्रहीष्यन्ति।

आसियानस्य अध्यक्षतां कुर्वन् फिलिपीन्सस्य राष्ट्रपतिः फर्डिनेण्ड् मार्कोस् जूनियरः, आफ्रिकासङ्घस्य अध्यक्षतां कुर्वन् बुरुण्डीदेशस्य राष्ट्रपतिः एवरिस्ट् न्दायिशिमिये, जीसीसी-पक्षतः बहरीन्-देशस्य विदेशमन्त्री अब्दुल्लातिफ् बिन् राशिद् अल् जायानी, सीईएलएसी्-पक्षतः उरुग्वेदेशस्य विदेशमन्त्री मारियो लुबेत्किन् तथा ईएईयू-पक्षतः कजाकिस्तानस्य राष्ट्रपतिः तोकायेवः सम्मेलने सम्मिलिताः भविष्यन्ति।

उल्लेखनीयं यत् भारतं ब्रिक्सस्य संस्थापकसदस्यः अस्ति तथा २०१२, २०१६ तथा २०२१ तमे वर्षे अध्यक्षतां कृतवान्। भारतं १ जनवरी २०२६ दिनाङ्के चतुर्थवारं अध्यक्षतां स्वीकृतवान्। २०२६ तमे वर्षे ब्रिक्सस्य स्थापनायाः २० वर्षाणि अपि पूर्णानि भवन्ति। भारतस्य अध्यक्षतायां २५ तः अधिकेषु नगरेषु ३५० तः अधिकाः बैठकाः उच्चस्तरीयकार्यक्रमाश्च आयोजिताः सन्ति। एतेषां उद्देश्यं राजनीतिकसुरक्षाक्षेत्रे, आर्थिकवित्तीयक्षेत्रे तथा सांस्कृतिके जन-जनसम्पर्कक्षेत्रे च सहयोगं सुदृढीकर्तुम् अस्ति।

------------

Hindusthan Samachar / Dheeraj Maithani