ब्रिक्स-शिखरसम्मेलनम् - प्रगतिः, सहयोगः भारतस्य नेतृत्वकारी भूमिका च
नवदिल्ली, १० सेप्टेम्बरमासः (हि.स.)। भारतस्य अध्यक्षतायाम् अष्टादशतमं ब्रिक्स-शिखरसम्मेलनं १२-१३ सेप्टेम्बर-दिनाङ्कयोः नवदिल्ली इत्यस्य भारत-मण्डपम-स्थले आयोज्यमानम् अस्ति। ब्रिक्सस्य अध्यक्षतां कर्तुं भारतस्य एतत् चतुर्थ: अवसरः भविष्यति। अस्य सम्म
ब्रिक्स शिखर सम्मेलन के लोगो का प्रतीकात्मक चित्र


ब्रिक्स शिखर सम्मेलन के लोगो का प्रतीकात्मक चित्र


नवदिल्ली, १० सेप्टेम्बरमासः (हि.स.)। भारतस्य अध्यक्षतायाम् अष्टादशतमं ब्रिक्स-शिखरसम्मेलनं १२-१३ सेप्टेम्बर-दिनाङ्कयोः नवदिल्ली इत्यस्य भारत-मण्डपम-स्थले आयोज्यमानम् अस्ति। ब्रिक्सस्य अध्यक्षतां कर्तुं भारतस्य एतत् चतुर्थ: अवसरः भविष्यति। अस्य सम्मेलनस्य विषयः अस्ति— “सुदृढ-शीलतायै, नवाचाराय, सहयोगाय सततविकासाय च निर्माणम्”।

ब्रिक्सः प्रमुखानाम् उदीयमानानाम् अर्थव्यवस्थानां मध्ये आर्थिकनीतीनां समन्वयस्य महत्त्वपूर्णमञ्चरूपेण विकसितः अस्ति। वैश्विकशासनसम्बद्धेषु विषयेषु एते प्रमुखदेशाः यत्र साझा-दृष्टिकोणं निर्मान्ति, सः एषः प्रमुखः मञ्चः अस्ति। निरन्तरसंवादस्य माध्यमेन बहुपक्षीयसंस्थासु ग्लोबल-साउथ्-समूहस्य हितानां समर्थनस्य प्रभावी-माध्यमरूपेण ब्रिक्स इति विकसितः अस्ति।

ब्रिक्सस्य कार्यसूची विकासः, वित्तम्, प्रौद्योगिकी, व्यापारः तथा जनानां परस्परसंपर्कः इत्यादीनि विस्तृतक्षेत्राणि व्याप्नोति। अयं समूहः वैश्विकस्तरे उदीयमानानाम् अर्थव्यवस्थानां वर्धमानम् आर्थिकप्रभावं तासाम् आकाङ्क्षाश्च प्रतिबिम्बयति। सदस्यदेशानां स्वानुभवानां परस्परं आदानप्रदानाय तथा सहभाग-समस्यानां समाधानस्य अन्वेषणाय अपि सः सशक्तं मञ्चं प्रददाति।

ब्रिक्सस्य विंशतिवर्षपूर्तेः अवसरः अयं समारोहः आयोज्यते। भारतं १२-१३ सेप्टेम्बर-दिनाङ्कयोः नवदिल्ली इत्यस्य भारतमण्डपम-स्थले ब्रिक्स-शिखर-सम्मेलनस्य आतिथ्यं करोति तथा चतुर्थवारं समूहस्य अध्यक्षतां वहति। भारतस्य अध्यक्षतायाः मार्गदर्शकः विषयः अस्ति— “सुदृढशीलतायै, नवाचाराय, सहयोगाय सततविकासाय च निर्माणम्”। एते विषयाः भारतस्य वर्तमानोपलब्धीनां सुदृढीकरणे तथा संस्थागतप्रभाव-शीलतायाः वर्धने केन्द्रितं दृष्टिकोणं प्रतिबिम्बयन्ति।

अष्टादशे ब्रिक्स-शिखरसम्मेलने विकासः, स्थिरता नवाचारश्च कार्यसूच्याः केन्द्रे स्थाप्यन्ते। तेन सह ग्लोबल-साउथ-समूहस्य आकाङ्क्षाणाम् अपि प्रमुखता प्रदास्यते। भारतस्य उद्देश्यं ब्रिक्सं रचनात्मकं, समाधानकेन्द्रितं परिणामो-न्मुखं च मञ्चरूपेण अधिकं सशक्तं कर्तुम् अस्ति।

विश्वस्य चतसृणाम् उदीयमानानाम् अर्थव्यवस्थानां कृते प्रयुक्तः संक्षिप्तनाम ‘ब्रिक्स’ इदानीं विस्तृतसमूहस्य रूपं प्राप्तवान् अस्ति। एषः चतुर्-महाद्वीपेषु विस्तृतः महत्त्वपूर्णः भू-राजनैतिकः समूहः अस्ति।

अस्य यात्रा चतुर्णां देशानां मध्ये संवादेन आरब्धा, सा च अद्य अधिकव्यापकसमूहस्य रूपं प्राप्तवती अस्ति। सदस्यतायाः निरन्तरविस्तारेण तस्मिन् तैलसमृद्धदेशाः, आफ्रिकीय-अर्थव्यवस्थाः तथा दक्षिण-पूर्व-एशियायाः सहयोगिनः अपि सम्मिलिताः। अस्य विस्तारितस्य समूहस्य केन्द्रे अद्य भारतम् अस्ति, यत् समूहस्य स्थापनानन्तरं चतुर्थवारं तस्य अध्यक्षतां करोति।

ब्रिक्से ११ प्रमुखदेशाः सन्ति— ब्राजील, चीन, मिस्र, इथियोपिया, भारत, इण्डोनेशिया, ईरान, रूस, सऊदी-अरब, दक्षिणाफ्रिका तथा संयुक्त अरब अमीरात्। एते सदस्यदेशाः सामूहिकरूपेण विश्वस्य ४९.५ प्रतिशतं जनसंख्यां, वैश्विक-सकलगृहोत्पादनस्य ४० प्रतिशतं तथा विश्वव्यापारस्य २६ प्रतिशतं प्रतिनिधित्वं कुर्वन्ति। एतानि विवरणानि तेषां उल्लेखनीयां जनसांख्यिकीं आर्थिकक्षमतां च रेखाङ्कयन्ति।

ब्रिक्सस्य विस्तारितसदस्यसमूहेन एशिया, आफ्रिका, मध्यपूर्वः तथा लैटिन-अमेरिका च प्रति तस्य भौगोलिकव्याप्तिः अपि विस्तृता अभवत्। एषा विविधता विशालान् बाजारान्, प्राकृतिकसंसाधनानि, तक-नीकीक्षमताः तथा विकासस्य विभिन्नानुभवान् एकस्मिन् सहभाग-मञ्चे आनयति।

ब्रिक्सस्य उद्भवः विस्तारश्च

‘ब्रिक’ इति संक्षिप्तनाम वर्षे २००१ तमे गोल्डमैन-सैक्स-संस्थया प्रकाशिते ‘ग्लोबल इकोनॉमिक्स’ शोधपत्रे गृहीतम् आसीत्। अर्थमितीयविश्लेषणस्य आधारेण अस्मिन् शोधपत्रे अनुमानितं यत् ब्राजील, रूस, भारतं चीनश्च अग्रिमेषु पञ्चदशकेषु विश्वस्य बृहत्तमासु अर्थव्यवस्थासु अन्तर्भविष्यन्ति। एतेषां देशानां वर्धमाना आर्थिकशक्तिः तथा त्रिषु महाद्वीपेषु विस्तृता विशालभौगोलिकव्याप्तिः तेषां वर्धमानं वैश्विकमहत्त्वं रेखाङ्कितवती।

तदनन्तरं ब्रिकस्य अवधारणा औपचारिक-समूहरूपेण विकसितवती। वर्षे २०१० तमे दक्षिणाफ्रिकादेशस्य समावेशेन ब्रिक्-समूहस्य विस्तारः अभवत्, ततः सः ब्रिक्सः इति नाम्ना अभवत्। एतत् परिवर्तनं केवलं विश्लेषकैः चिह्निताद् आर्थिकसमूहाद् अग्रे गत्वा राजनीतिक-आर्थिक-विकासात्मकसहयोगस्य औपचारिकमञ्चरूपेण तस्य रूपान्तरणं दर्शयति।

उद्देश्यानि, लक्ष्याणि सहयोगस्य प्रमुखक्षेत्राणि च

ब्रिक्सस्य प्रारम्भिकसंकल्पना अन्ता-राष्ट्रियकार्यसूच्यां प्रभावं जनयत्सु प्रमुखेषु विषयेषु संवादस्य मञ्चरूपेण कृता आसीत्। प्रारम्भिककाले अस्य ध्यानं वैश्विक-राजनैतिक-आर्थिकविषयेषु साझा-दृष्टिकोणस्य विकासे केन्द्रितम् आसीत्। अधिकलोकतान्त्रिकां, वैधां सन्तुलितां च अन्ताराष्ट्रियव्यवस्थां प्रोत्साहयितुम् अस्य उद्देश्यं आसीत्।

अयं समूहः सतत-आर्थिक-सामाजिक-विकासे, सामाजिकसमावेशे तथा उदीयमानानाम् अर्थव्यवस्थानां मध्ये सहभाग-समृद्धौ अपि विशेषं बलं दत्तवान्। कालेन सह एताभिः प्राथमिकताभिः सदस्यदेशानां मध्ये अधिकगहनस्य व्यापकस्य च सहयोगस्य सुदृढा आधारभूमिः निर्मिता।

निरन्तरमायोजितैः शिखरसम्मेलनैः ब्रिक्सस्य सहयोगः शनैः शनैः रणनीतिक-वैश्विकविषयेषु तथा व्यावहारिकसहयोगस्य विभिन्नक्षेत्रेषु विस्तृतः। अस्य कार्यसूच्याम् आतङ्कवादः, जलवायुपरिवर्तनम्, खाद्य-ऊर्जासुरक्षा, व्यापारः तथा कृषिः इत्यादयः महत्त्वपूर्णाः विषयाः अन्तर्भवन्ति। तेन सह श्रम-रोजगारः, दूरसञ्चारः, अन्ताराष्ट्रिय-वित्तं तथा वैश्विक-आर्थिकस्थितिः इत्यादिषु विषयेषु अपि ध्यानं दीयते।

उल्लेखनीयं यत् ब्रिक्सः विश्वव्यापार-सङ्घटने तथा वैश्विकवित्तीयव्यवस्थायाम् अन्तर्भूतेषु अन्ताराष्ट्रियसंस्थासु अधिक-प्रतिनिधित्वस्य समानतायाश्च प्रबलं समर्थनं करोति। एतेषाम् प्रयासानां उद्देश्यं वैश्विकशासनं अधिकसमावेशि, प्रभावि तथा वर्तमानसमस्याभ्यः अधिकं उत्तरदायि च कर्तुम् अस्ति।

Hindusthan Samachar / Divya Ranjan