Enter your Email Address to subscribe to our newsletters

जालन्धरम्, १० सेप्टेम्बरमासः (हि.स.)। पंजाबस्य पूर्व-कैबिनेटमन्त्री भगत-चुन्नीलालस्य गुरुवासरे प्रातः निधनम् अभवत्। ९३ वर्षस्य वयस्ये सः जालन्धरस्य बस्तीक्षेत्रे स्थिते स्वनिवासे अन्तिमश्वासं त्यक्तवान्। तस्य निधनस्य वार्ता प्राप्तमात्रेण राजनैतिके सामाजिकक्षेत्रे च शोकस्य तरंग: प्रसृत:। तस्य अन्त्येष्टिः गुरुवासरे सायं प्रायः ५ वादने बस्तीशेख-श्मशानघट्टे करिष्यते। भाजपा-नेत्रा शीतल-अङ्गुरालेन सह अनेके नेतारः तस्य निधनं प्रति शोकं प्रकटितवन्तः।
भगतचुन्नीलालः पंजाबस्य आम आदमी पक्षस्य सर्वकारे कैबिनेटमन्त्रिणः मोहेन्द्र-भगतस्य पिता आसीत्। भगतचुन्नी-लालस्य जन्म १ दिसम्बरमासे १९३२ तमे वर्षे सियालकोटे अभवत्, यत् सम्प्रति पाकिस्तानदेशे अस्ति। तस्य पत्न्या: शीलादेव्याः पूर्वमेव निधनम् अभवत्। भारत-पाकिस्तान-विभाज-नानन्तरं तस्य परिवारः जालन्धरम् आगत्य उषितवान्। राजनीतौ प्रवेशात् पूर्वं सः क्रीडासामग्रीणां व्यवसाये सम्बद्धः आसीत् तथा च क्रीडासामग्री विदेशेषु प्रेषयितुं व्यवसायं करोति स्म। तस्य परिवारे चत्वारः पुत्राः चतस्रश्च पुत्र्यः आसन्।
भगतचुन्नीलालः १९८५ तमे वर्षे स्वस्य निर्वाचनराजनीतेः आरम्भं कृतवान्। सः जालन्धर-दक्षिण-विधानसभाक्षेत्रात् स्वतन्त्रप्रत्याशिरूपेण निर्वाचनम् अयोजयत्, किन्तु तस्मिन् सफलः न अभवत्। ततः सः भारतीयजनतापक्षे सम्मिलितः भूत्वा पक्षस्य सह सक्रिय-राजनीतौ अग्रे प्रवृत्तः। १९९७ तमे वर्षे सः भाजपा-पक्षत: जालन्धर-दक्षिणात् निर्वाचनं जित्वा प्रथमवारं पंजाब-विधानसभां प्राप्तवान्।
२००७ तमे वर्षे भगतचुन्नीलालः अस्मादेव विधानसभाक्षेत्रात् पुनः विजयम् अवाप्तवान्। ततः विधानसभाक्षेत्राणां परिसीमनस्य कारणेन जालन्धर-दक्षिणक्षेत्रस्य स्वरूपं परिवर्तितम् तथा जालन्धर-पश्चिम-विधानसभासीट् अस्तित्वम् आगता। २०१२ तमे वर्षे विधानसभा-निर्वाचने सः भाजपा-प्रत्याशिरूपेण जालन्धर-पश्चिमात् निर्वाचनम् अयोजयित्वा विजयम् अवाप्तवान्। अनेन विजयेन सह सः तृतीयवारं विधानसभायाः सदस्यः अभवत्।
स्वस्य राजनैतिकजीवने भगतचुन्नीलालः अनेकानि महत्त्वपूर्णानि दायित्वानि निर्वुढवान्। २०११ तमे वर्षे तत्कालीनस्य विधानसभोपाध्यक्षस्य सतपालगोसाईं इत्यस्य त्यागपत्रानन्तरं सः पंजाब-विधानसभायाः उपाध्यक्षरूपेण निर्वाचितः। ततः २०१२ तः २०१७ तमं वर्षं यावत् प्रकाशसिंहबादलस्य नेतृत्वे आसीने अकाली-भाजपा-सर्वकारे सः कैबिनेट-मन्त्री आसीत्। अस्मिन् काले तस्य समीपे स्थानीयनिकायानां, चिकित्सा-शिक्षायाः अनुसन्धानस्य च, श्रमस्य तथा वन-वन्यजीवानां च विभागानां दायित्वम् आसीत्।
भगत् चुन्नीलालः २०१२ तः २०१७ तमं वर्षं यावत् पंजाब-विधानसभायां भाजपा-विधायकदलस्य नेतापि आसीत्। जालन्धर-पश्चिमस्य राजनीतौ तस्य दीर्घकालं यावत् विशेषः प्रभावः आसीत् तथा च सः क्षेत्रस्य प्रमुखेषु भाजपा-नेतृषु परिगण्यते स्म। प्रायः त्रिदशकं यावत् सक्रिय-राजनीतौ स्थित्वा सः २०१७ तमे वर्षे निर्वाचनराजनीतेः निवृत्तिं स्वीकर्तुं निर्णयं कृतवान् तथा तस्मिन् वर्षे विधानसभा-निर्वाचनं न अयोजयत्।
Hindusthan Samachar / Divya Ranjan