Enter your Email Address to subscribe to our newsletters

उज्जयिनी, १० सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां स्थिते विश्वप्रसिद्धे श्रीमहाकालेश्वरमन्दिरे गुरुवासरे प्रातः भाद्रपदकृष्णपक्षस्य चतुर्दश्यां भगवान् महाकालस्य भस्मारार्तिकी विशेषशृङ्गारेण सम्पन्ना। प्रातः प्रायः चतुर्वादने मन्दिरस्य पटोद्घाटनानन्तरं पण्डितैः पुजारीभिश्च गर्भगृहे प्रतिष्ठितानां देवीदेवानां पूजनं कृतम्। ततः भगवत: महाकालस्य जलाभिषेकं कृत्वा दुग्ध-दधि-घृत-मधु-फलरसैः निर्मितेन पञ्चामृतेन अभिषेकः कृतः।
पूजनस्य समये प्रथमं घण्टानादं कृत्वा भगवते हरिओमजलं समर्पितम्। कर्पूरारत्यनन्तरं भगवान् महाकालस्य मस्तके रजतचन्द्रं, भाङ्गं चन्दनं च समर्पितम्। गुलाबपुष्पाणां मालया, रजतमुकुटेन त्रिपुण्ड्रेण च भगवान् अलङ्कृतः। ततः ज्योतिर्लिङ्गं वस्त्रेण आच्छाद्य विधिविधानपूर्वकं भस्म समर्पितम्। महा-निर्वाणी-अखाडापक्षतः भस्म समर्पितम्। भस्मारार्तिक्यन्तरं भगवत: महाकालस्य राजस्वरूपेण विशेषशृङ्गारः कृतः। तस्मै शेषनागस्य रजतमुकुटं, रजतमुण्डमालां, रुद्राक्षमालां, आभरणानि सुगन्धिपुष्पाणां मालाश्च धारिताः। भाङ्गया शुष्कफलैश्च अपि अलङ्करणं कृतम्।
शृङ्गारानन्तरं भगवत: महाकालाय फलानि मिष्टान्नानि च नैवेद्यरूपेण समर्पितानि। मान्यता अस्ति यत् भस्मसमर्पणानन्तरं भगवान् महाकालः निराकाररूपात् साकाररूपेण भक्तेभ्यः दर्शनं ददाति। भस्मारार्तिक्यां बहुसंख्यकाः श्रद्धालवः सम्मिलिताः। भक्ताः बाबा-महाकालस्य दर्शनं कृत्वा आशीर्वादं प्राप्तवन्तः तथा नन्दीमहाराजस्य दर्शनमपि कृतवन्तः। श्रद्धालवः नन्देः कर्णे स्वकीयां मनोकामनाम् कथयन्तः दृश्यन्ते स्म। अस्मिन् समये मन्दिरपरिसरः बाबा-महाकालस्य जयघोषैः गुंजितः अभवत्।
Hindusthan Samachar / Divya Ranjan