विरोधराजनीतेः उपरि उत्थाय काङ्ग्रेसेन भारतस्य प्रगतेः स्वागतं कर्तव्यम् - भाजपा
नवदिल्ली, १० सेप्टेम्बरमासः (हि.स.)। भारतदेशे १२-१३ सेप्टेम्बरदिनाङ्कयोः आयोज्यमानं ब्रिक्स-शिखरसम्मेलनं प्रति राजनैतिकवक्तव्येषु तीव्रता वर्धिता अस्ति। काङ्ग्रेसस्य वरिष्ठनेता पी. चिदम्बरम् इत्यनेन ब्रिक्स-माध्यमेन भारताय प्राप्तस्य दृढस्य लाभस्य
Ashish Usha Agrawal file photo


नवदिल्ली, १० सेप्टेम्बरमासः (हि.स.)। भारतदेशे १२-१३ सेप्टेम्बरदिनाङ्कयोः आयोज्यमानं ब्रिक्स-शिखरसम्मेलनं प्रति राजनैतिकवक्तव्येषु तीव्रता वर्धिता अस्ति। काङ्ग्रेसस्य वरिष्ठनेता पी. चिदम्बरम् इत्यनेन ब्रिक्स-माध्यमेन भारताय प्राप्तस्य दृढस्य लाभस्य विषये प्रश्नाः उत्थापिताः। ततः भारतीयजनतापक्षेण तस्य प्रत्युत्तरं प्रदत्तम्। भाजपया उक्तं यत् काङ्ग्रेसस्य तस्य नेतॄणां च विरोधराजनीतेः उपरि उत्थाय भारतस्य प्रगतेः स्वागतं कर्तव्यम्।

भाजपायाः राष्ट्रियमाध्यमसहसंयोजकः आशीष-ऊषा-अग्रवालः सामाजिकमाध्यमे ‘एक्स’-मध्ये प्रकाशितेन सन्देशेन चिदम्बरं प्रति व्यङ्ग्यं कुर्वन् उक्तवान् यत् भारतः ब्रिक्स इत्यादृशस्य महत्त्वपूर्णस्य वैश्विकमञ्चस्य आतिथ्यं कुर्वन् अस्ति तथा च विश्वं भारतस्य वर्धमानां शक्तिं भूमिकां च स्वीकुर्वद् अस्ति, किन्तु काङ्ग्रेसाय उपलब्धेः स्थाने केवलं प्रश्नाः एव दृश्यन्ते। सः चिदम्बरम् अवदत् यत् वक्तव्यं दातुं पूर्वं तथ्यानां सङ्ख्यानां च अवलोकनं करणीयम्।

भाजपानेता उक्ततवान् यत् ब्रिक्स-मध्ये भारतस्य व्यापारः प्रभावश्च निरन्तरं वर्धेते तथा च देशः अधुना केवलं विश्वस्य अग्रिमपङ्क्तौ एव न, अपितु नेतृत्वस्य पङ्क्तावपि स्थितः अस्ति। सः जी-२०, ५जी तथा अङ्कीयक्रान्तेः उल्लेखं कुर्वन् उक्तवान् यत् काङ्ग्रेसस्य पुरातनी प्रवृत्तिः अस्ति यत् भारतस्य प्रगतौ प्रश्नाः उत्थाप्येरन् तथा च विश्वेन भारतस्य सम्मानं क्रियमाणे तस्मिन्नपि सन्देहः प्रदर्श्येत।

चिदम्बरम् उक्तवान् आसीत् यत् गतद्वे-त्रीणि ब्रिक्स-शिखरसम्मेलनानि दृष्ट्वा तेन कश्चन विशेषः दृढ: लाभः परिणामो वा न दृश्यते। सः ब्रिक्स-सहितं जी-२०, एससीओ तथा क्वाड् इत्यादिषु बहुपक्षीयसमूहेषु भारतस्य सहभागितायाः लाभस्य विषये अपि प्रश्नान् उत्थापितवान् आसीत्।

भारतस्य ब्रिक्स-अध्यक्षताकाले व्या-पारस्य आर्थिकसहयोगस्य च विषये अनेके प्रयत्ना: कृताः सन्ति। अगस्तमासे जयपुरे आयोजिता ब्रिक्स-व्यापारमन्त्रिणां सभायां ‘ब्रिक्स इकोनॉमिक पार्टनरशिप २०३०’ इत्यस्य रणनीतेः अन्तिमरूप-प्रदानस्य दिशि प्रगतिः अभवत्। सूक्ष्म-लघु-मध्यम-उद्यमानां कृते व्यापारवित्तस्य वृद्ध्यादि-विषयेषु अपि सहमतिः अभवत्।

अग्रवालः काङ्ग्रेसं प्रति आह्वानं कृतवान् यत् मोदीसर्वकारस्य विरोधं कुर्वता देशस्य उपलब्धीनां विरोधः न करणीयः। सः उक्तवान् यत् विरोधराजनीतेः उपरि उत्थाय भारतस्य प्रगतेः स्वागतं करणीयम्।

Hindusthan Samachar / Divya Ranjan