पलायित: हरनेकसिंहः अमेरिकादेशात् प्रत्यर्पितः, दिल्लीविमानपत्तने सीबीआईद्वारा गृहीतः
नवदिल्ली, १० सेप्टेम्बरमासः (हि.स.)। केन्द्रीयान्वेषणब्यूरो-संस्था सिङ्गापुर-प्रकरणे वर्ष २०१३ तः पलायितं वाञ्छिताभियुक्तं हरनेकसिंहं अमेरिका-देशात् भारतं प्रत्यर्पितं कारयित्वा अत्र इन्दिरागान्धी-अन्ताराष्ट्रियविमान-पत्तनात् गृहीतवती। तस्य विरुद्ध
सीबीआई की हिरासत में सिंगापुर स्कैम का भगोड़ा आरोपी हरनेक सिंह।


नवदिल्ली, १० सेप्टेम्बरमासः (हि.स.)। केन्द्रीयान्वेषणब्यूरो-संस्था सिङ्गापुर-प्रकरणे वर्ष २०१३ तः पलायितं वाञ्छिताभियुक्तं हरनेकसिंहं अमेरिका-देशात् भारतं प्रत्यर्पितं कारयित्वा अत्र इन्दिरागान्धी-अन्ताराष्ट्रियविमान-पत्तनात् गृहीतवती। तस्य विरुद्धं रेड-कॉर्नर-नोटिस तथा लुक-आउट-सर्क्युलर इति च प्रसारिते आस्ताम्। सीबीआई तम् शीघ्रमेव हरियाणाराज्यस्य पञ्चकुलानगरे स्थितायां विशेषन्यायिक-दण्डाधिकारिणः न्यायालये उपस्थाप-यिष्यति।

सीबीआई इत्यनया उक्तं यत् अस्मिन् प्रकरणे वर्ष २०१६ तमे वर्षे षड्यन्त्रस्य, वञ्चनायाः, कूटलेखकरणस्य, कूटतथ्यानां प्रयोगस्य तथा सूचनाप्रौद्योगिकी-अधिनियमस्य सम्बन्धितधाराणाम् अन्तर्गतं प्राथमिकी पञ्जीकृता आसीत्। अन्वेषणकाले एतत् प्रकाशितं यत् वर्ष २०१३ तमे वर्षे भारतात् कार्यं कुर्वन्तः वञ्चकाः कूटकॉलद्वारा सिङ्गापुरदेशे निवसद्भ्यः कार्यं कुर्वद्भ्यश्च भारतीय-नागरिकेभ्यः सम्पर्कं कुर्वन्ति स्म। दूरभाषं कुर्वन्तः जनाः स्वयम् सिङ्गापुरस्य आप्रवास-अधिकारीणः इति परिचयं दत्त्वा पीडितान् भयभीतान् कुर्वन्ति स्म यत् विमानपत्तने अवतरणसमये ते प्रपत्रे मिथ्याविवरणं पूरितवन्तः, अतः तेषां विरुद्धं आपराधिकं प्रकरणं पञ्जीकृत्य ते निर्वासिताः कर्तुं शक्यन्ते। ततः पीडितान् नैयायिककार्यवाहीतः रक्षणस्य नाम्ना कथितदण्डराशेः अथवा सन्धिशुल्कस्य रूपेण वेस्टर्न-यूनियन-मनी-ट्रान्सफर-माध्यमेन भारतं प्रति धनं प्रेषयितुं बाध्यं क्रियते स्म।

अन्वेषणे एतदपि पुष्टं जातं यत् वञ्चनया प्राप्तं धनं हरनेकसिंहेन सहाभियुक्ताभ्यां आदित्यभारद्वाजेन दीपकजैनेन च सह सञ्चालितस्य धनान्तरणकेन्द्रस्य माध्यमेन प्राप्यते स्म।

अपराधं कृत्वा हरनेकसिंहः मईमासे, वर्ष २०१३ तमे एव भारतात् पलायितः। ततः सः अवैधरूपेण अमेरिकादेशे प्रविष्टवान् तथा गतदशकादपि अधिककालं यावत् गिरफ्तारीतः परिहरतः आसीत्। तस्य पलायनकाले एव पञ्चकुलानगरे स्थिते विशेषन्यायालये सहाभियुक्तयोः आदित्य-भारद्वाजस्य दीपकजैनस्य च विरुद्धं न्यायिकप्रक्रिया पूर्णा अभवत् तथा उभौ २६ मे-मासे २०२५ तमे दिने न्यायालयेन दोषिणौ घोषितौ।

अमेरिकादेशस्य न्यायविभागस्य माध्यमेन अमेरिकादेशे समन्स् तथा जमानतीय-वारण्ट् तामील इति कारितमपि हरनेकसिंहः न्यायिकश्रवणार्थं न्यायालये न उपस्थितवान्। अतः पञ्चकुलानगरे स्थितेन विशेषसीबीआई-न्यायालयेन २२ एप्रिल् २०२४ तमे दिने तस्य विरुद्धम् अजमानतीय-ग्रहणादेशः निस्सारितः। ततः सीबीआई-संस्थया इन्टरपोल-माध्यमानां द्वारा अभियुक्तस्य विरुद्धं रेड-कॉर्नर-नोटिस निस्सारितम्। तस्य विरुद्धं लुक-आउट-सर्क्युलर अपि निस्सारितम्।

Hindusthan Samachar / Divya Ranjan