छत्तीसगढस्य सक्तिनगरे शुक्रवासरे ग्रामीणविकासकार्यक्रमः, शिवराजसिंहचौहानः भागं ग्रहीष्यति।
रायपुरम् , 10 सितंबरमासः (हि.स.)। छत्तीसगढस्य सक्तिजिलान्तर्गतस्य जेठा-ग्रामे ११ सितम्बर्-दिनाङ्के आयोज्यमाने ग्रामीणविकासकार्यक्रमे केन्द्रीयग्रामीणविकास-कृषिमन्त्री शिवराजसिंहचौहानः मुख्यातिथिरूपेण सहभागं करिष्यति। कार्यक्रमे मुख्यमन्त्री विष्ण
छत्तीसगढस्य सक्तिनगरे शुक्रवासरे ग्रामीणविकासकार्यक्रमः, शिवराजसिंहचौहानः भागं ग्रहीष्यति।


रायपुरम् , 10 सितंबरमासः (हि.स.)।

छत्तीसगढस्य सक्तिजिलान्तर्गतस्य जेठा-ग्रामे ११ सितम्बर्-दिनाङ्के आयोज्यमाने ग्रामीणविकासकार्यक्रमे केन्द्रीयग्रामीणविकास-कृषिमन्त्री शिवराजसिंहचौहानः मुख्यातिथिरूपेण सहभागं करिष्यति। कार्यक्रमे मुख्यमन्त्री विष्णुदेवसायः सह प्रदेशसर्वकारस्य मन्त्रिणः, सांसदाः, विधायकाः तथा पञ्चायतप्रतिनिधयः सहभागं करिष्यन्ति।

जिलाप्रशासनेन कथितं यत् कार्यक्रमे प्रधानमन्त्री-ग्रामीणावासयोजनायाः अन्तर्गतं द्विलक्षपरिवारेभ्यः पक्कगृहाणां सौगातं प्रदाय गृहप्रवेशः कारयिष्यते। तथैव आवासयोजनायां कृत्रिमबुद्धिमत्ताआधारित-जियोटैगसत्यापनप्रणाल्याः शुभारम्भः भविष्यति।

अस्मिन् अवसरे नदीनां जलधाराणां च पुनर्जीवनाय ‘धार अपार अभियानस्य’ शुभारम्भः करिष्यते। ग्रामीणजीविकायाः सुदृढीकरणाय २७० नवीनसमेकितकृषिक्लस्टराणाम् अपि शुभारम्भः भविष्यति। कार्यक्रमे लखपतीदीदी, ड्रोनदीदी तथा राणीराजमिस्त्रीभ्यः सम्मानं प्रदास्यते। तदतिरिक्तं उत्कृष्टकार्यं कुर्वतीनां पञ्चपञ्चायतीनां प्रतिनिधीनाम् अपि सम्मानं करिष्यते।

कार्यक्रमस्य अवधौ १२२ कोटिरूप्यकाणाम् अधिकव्ययेन सम्पन्नानां ३९ विकासकार्याणां लोकार्पणं भूमिपूजनं च शिलान्यासश्च करिष्यते।

---------

Hindusthan Samachar / अंशु गुप्ता