Enter your Email Address to subscribe to our newsletters

अद्यतः १३२ वर्षपूर्वम् अद्यैव दिने अमेरिकादेशस्य शिकागोनगरे आयोजिते विश्वधर्मसम्मेलने भारतस्य महान् दार्शनिकः सन्तश्च स्वामीविवेकानन्दः स्वकीयेन ऐतिहासिकेन भाषणेन सम्पूर्णस्य विश्वस्य ध्यानम् आकर्षितवान्।
स्वामीविवेकानन्दः “अमेरिकादेशस्य भगिन्यः भ्रातरश्च” इति सम्बोधनेन स्वभाषणस्य आरम्भं कृतवान्, यत् श्रुत्वा सभा करतलध्वनिभिः गुञ्जिता। एतत् सम्बोधनं न केवलं श्रोतॄणां हृदयानि अस्पृशत्, अपितु भारतीयाध्यात्मस्य सनातनसंस्कृतेश्च आदर्शान् अपि विश्वपटलस्य पुरतः प्रकाशयत्।
विवेकानन्दः स्वकीय-वक्तव्ये सर्वेषां धर्माणाम् एकता, सहिष्णुता, मानवतायाश्च महत्त्वे बलं दत्तवान्। सः अवदत् यत् भारतं प्राचीनकालादेव विविधाः श्रद्धाः संस्कृतयश्च स्वीकृत्य ताभ्यः समानं सम्मानं ददाति। तस्य वचनैः न केवलं भारतस्य आध्यात्मिकपरम्परायै विश्वस्तरे परिचयः प्राप्तः, अपितु एषः सन्देशः अपि प्रसारितः यत् धर्मः विभाजनस्य न, अपितु मानवतायाः संयोजनस्य माध्यमम् अस्ति। एतत् भाषणम् अद्यापि विश्व-इतिहासस्य अमूल्य-धरोहररूपेण मन्यते, येन अन्तर्राष्ट्रिय-मञ्चे भारतस्य छविः नूतनां ऊर्ध्वतां प्राप्तवती।
महत्त्वपूर्णाः घटनाः
१७३० — अमृतादेव्याः नेतृत्वे खेजड़ली-ग्रामस्य ३६३ जनैः वृक्षरक्षणाय स्वजीवनानि बलिदत्तानि। तेषां स्मरणार्थं ११ सेप्टेम्बरमासे ‘राष्ट्रीयवनशहीददिवसः’ आचर्यते।१८९३ — शिकागोनगरे विश्वधर्मसम्मेलने स्वामीविवेकानन्देन कट्टरतायाः विरोधे, सहिष्णुतायाः सर्वेषु धर्मेषु निहितायाः सत्यतायाश्च विषये ऐतिहासिकं भाषणं प्रदत्तम्।१९०६ — महात्मागान्धिना दक्षिण-अफ्रीकादेशे सत्याग्रहान्दोलनम् आरब्धम्।१९१९ — अमेरिकीय-नौसेनया होण्डुरास-देशे आक्रमणं कृतम्।१९२२ — आस्ट्रेलियादेशस्य मेलबर्ननगरे सचित्र-दैनिकसमाचारपत्रस्य ‘द सन न्यूज पेक्टोरियल’ इत्यस्य प्रकाशनम् आरब्धम्।१९३९ — इराक्-सऊदी-अरबदेशाभ्यां जर्मनीदेशस्य विरुद्धं युद्धस्य घोषणा कृता।१९४१ — अमेरिकीय-रक्षामन्त्रालयस्य पेन्टागन-भवनस्य निर्माणम् आरब्धम्।१९५१ — फ्लोरेन्स-चैडविक् इति महिला इङ्ग्लैण्डतः फ्रान्सदेशं प्रति तैरित्वा इङ्ग्लिश-चैनल-समुद्रमार्गं पारं कृतवती। तस्यै १६ होराः १९ निमेषाश्च अभवन्।१९६१ — विश्ववन्यजीवकोषस्य स्थापना कृता।१९६५ — भारत-पाकिस्तानयोः युद्धस्य समये भारतीयसेनया दक्षिणपूर्व-लाहौरस्य समीपे बुर्कीनगरं स्वाधीनं कृतम्।१९६८ — एअर-फ्रान्सस्य १६११ क्रमाङ्कस्य विमानं नीस-नगरस्य समीपे दुर्घटनाग्रस्तम्। दुर्घटनायां ८९ यात्रिणां चालकदलस्य षण्णां सदस्यानां च निधनम् अभवत्।१९७१ — मिस्रदेशे संविधानम् अङ्गीकृतम्।१९७३ — चिलीदेशस्य राष्ट्रपतेः साल्वाडोर-अलन्दे-महोदयस्य विरुद्धं सैन्यविद्रोहः अभवत्।१९९६ — राष्ट्रमण्डल-संसदीय-सङ्घटने प्रथमवारं महिला अध्यक्षरूपेण निर्वाचिता।२००१ — अमेरिकादेशस्य वर्ल्ड-ट्रेड-सेन्टर-पेन्टागनयोः आतङ्कवादी-आक्रमणे ६ सहस्राधिकानां जनानां निधनम् अभवत्।२००३ — चीनदेशस्य विरोधस्य उपेक्षां कृत्वा अमेरिकादेशस्य राष्ट्रपतिः जॉर्जबुशः तिब्बतस्य धार्मिकनेता दलाईलामा इत्यनेन सह मिलितवान्।२००५ — गाजापट्टिकायां ३८ वर्षेभ्यः प्रचलितस्य सैन्यशासनस्य समाप्तेः घोषणा कृता।२००६ — पेस्-डेम् इत्येतयोः युगलेन अमेरिकीय-ओपन-प्रतियोगितायाः युगल-विजेतृपदं प्राप्तम्।२००६ — भारतस्य पूर्वप्रधानन्यायाधीशः पी.एन.भगवती संयुक्तराष्ट्रस्य मानवाधिकारसमितौ चतुर्थवारं पुनर्निर्वाचितः।२००६ — प्रसिद्धा बाङ्ग्लादेशीय-लेखिका तस्लीमा-नसरीन भारतेन नागरिकतायाः याचनां कृतवती।२००६ — स्विट्जरलैण्डदेशस्य रोजर-फेडररः लगातारं तृतीयवारं अमेरिकीय-ओपन-टेनिस-प्रतियोगितायाः विजेतृपदं प्राप्तवान्।२००६ — अमेरिकीय-अन्तरिक्षयानम् अटलांटिस् अन्तरिक्षकेन्द्रे सम्बद्धम्।२००७ — येरुशलमः-समीपे डेविड-नगरे प्रायः २००० वर्षप्राचीन: सुरङ्ग: अन्विष्ट:।२००९ — नोएडानगरस्य निठारी-काण्डस्य अभियुक्तः मोनिन्दरसिंह-पंढेरः इलाहाबाद-उच्चन्यायालयेन १९ प्रकरणेषु एकस्मिन् रिम्पा-हलधर-प्रकरणे दोषमुक्तः कृतः।२००९ — सर्वोच्चन्यायालयेन कांशीराम-स्मारकस्थलस्य निर्माणे प्रतिबन्धः आरोपितः।२०११ — रक्षावैज्ञानिकैः श्वेतकुष्ठस्य प्रभाविनी हर्बल्-औषधिः निर्मिता।२०११ — ९/११-घटनायाः अनन्तरम् एशियादेशीयान् जनान् सन्देहदृष्ट्या पश्यन्ति स्म, किन्तु भारतीयमूलस्य जनानां विषये अमेरिकीयानां दृष्टिकोणे महत् परिवर्तनम् अभवत्। अस्य कारणं भारतीयानां प्रतिभा परिश्रमश्च इति कथितम्।२०१२ — सोमालियादेशस्य सेनया सह सङ्घर्षे अल्-शबाब-सङ्घटनस्य ५० आतङ्कवादिनः हताः।२०१९ — अमेरिकादेशेन प्रतिबन्धितस्य तहरीक-ए-तालिबान-पाकिस्तान-सङ्घटनस्य प्रमुखः नूरवली-महसूदः प्रतिबन्धितः तथा च वैश्विक-आतङ्कवादी इति घोषितः।
जन्म
१८९५ — विनोबाभावे — भारतस्य स्वतन्त्रतासङ्ग्रामस्य सेनानी, समाजसेवी प्रसिद्धश्च गान्धीवादी नेता।१९०१ — आत्मारामरावजी-देशपाण्डे — प्रसिद्धः मराठी-साहित्यकारः।१९११ — लालाऽमरनाथः — अन्ताराष्ट्रिय-क्रिकेटक्रीडायां भारतस्य पक्षतः प्रथमं शतकं प्राप्तवान् क्रिकेट-क्रीडकः।१९१९ — कन्हैयालाल-सेठिया — आधुनिककालस्य प्रसिद्धः हिन्दी-राजस्थानी-लेखकः।१९६२ — प्रह्लाद-जोशी — भारतीयजनतापक्षस्य राजनेता।१९८२ — श्रेयासारणः — दक्षिणभारतीय-अभिनेत्री।
निधनम्
१९२१ — सुब्रह्मण्य-भारती — तमिलभाषायाः महान् कविः।१९४८ — मुहम्मद-अली-जिन्ना — ब्रिटिशकालीनभारतस्य प्रमुखः नेता मुस्लिम-लीग-सङ्घटनस्य अध्यक्षश्च।१९६४ — मुक्तिबोध-गजानन-माधवः — प्रगतिशीलः भारतीयः कविः।१९६८ — बाबा-हरभजनसिंहः — भारतीयसेनायाः सैनिकः।१९७३ — नीमकरोली-बाबा — भारतीयः गुरु:।१९८७ — महादेवी-वर्मा — हिन्दी-कवयित्री हिन्दी-साहित्यस्य छायावादीयुगस्य चतुर्षु प्रमुखेषु स्तम्भेषु अन्यतमा च।१९८७ — नरेशचन्द्रसिंहः — मध्यप्रदेशस्य भूतपूर्वः षष्ठः मुख्यमन्त्री।२०२० — स्वामी-अग्निवेशः — भारतस्य समाजसेवी, सुधारकः, राजनेता आर्यसमाजी च।
महत्त्वपूर्णः अवसरः
— राष्ट्रीयवनबलिदानीदिवसः।
Hindusthan Samachar / Divya Ranjan