Enter your Email Address to subscribe to our newsletters

आगरा, १० सेप्टेम्बरमासः (हि.स.)। डॉ.भीमराव-आम्बेडकर-विश्वविद्यालयेन, आगरा इत्यनेन अष्टानाम् अन्तर्जाल-उपाधिकार्यक्रमाणाम् शुभारम्भस्य घोषणा कृता अस्ति। विश्वविद्यालयस्य एष: प्रयत्न: उच्चशिक्षां अधिकां सुलभां, समावेशिनीं शिथिलतां च कर्तुं तथा पारम्परिककक्षायाः भौगोलिकसीमानां च पक्षतः शिक्षार्थिभ्यः गुणवत्तापूर्णां विश्वविद्यालयीयशिक्षां प्रदातुं दिशि महत्त्वपूर्णं पदम् अस्ति।
विश्वविद्यालयस्य कुलपतिः प्रो. आशुरानी अवदत् यत् विश्वविद्यालयस्य दूरस्थ-अन्तर्जाल-शिक्षाकेन्द्रस्य माध्यमेन बीबीए, बीसीए, बी.कॉम., एमबीए, एमसीए, एम.कॉम., एम.ए. तथा एमबीए (यात्रा-पर्यटन-प्रबन्धनम्) इत्येतेषु अष्टसु अन्तर्जाल-कार्यक्रमेषु अध्ययनस्य प्रारम्भः कृतः अस्ति।
एते कार्यक्रमाः विशेषरूपेण तेषां शिक्षार्थिनाम् आवश्यकतान् दृष्ट्वा निर्मिताः सन्ति, ये उच्चशिक्षया सह अधिकां शिथिलतां वाञ्छन्ति। तेषु ते विद्यार्थिनः अपि सम्मिलिताः सन्ति, ये भौगोलिकदूरत्वात्, स्थानपरिवर्तनात् अथवा अन्यकारणैः नियमितरूपेण विश्वविद्यालयपरिसरे उपस्थिताः भवितुं न शक्नुवन्ति। तदतिरिक्तं कार्यरत-व्यावसायिकेभ्यः अपि स्वकीय-व्यावसायिकदायित्वैः सह शिक्षां निरन्तरं कर्तुं अवसरः प्राप्स्यते।
अस्मिन् अवसरे विश्वविद्यालयस्य कुलपतिः प्रो. आशुरानी अवदत्, “डीबीआरएयू इत्यस्य अन्तर्जाल-कार्यक्रमाणां माध्यमेन वयं विश्वविद्यालयस्य शैक्षणिकप्रसारं तेषां विद्यार्थिनां पर्यन्तं विस्तारयामः, ये भौगोलिकदूरत्वात्, समयसीमाभ्यः अथवा व्यावसायिकदायित्वेभ्यः पारम्परिक-शिक्षाव्यवस्थया सह सम्बद्धाः भवितुं न शक्नुवन्ति। अस्माकं उद्देशः डिजिटलशिक्षायाः लचिलतया सह विश्व-विद्यालयस्य शैक्षणिकगुणवत्तां, विश्वस-नीयतां तथा शैक्षणिकमानकान् संरक्षितुं वर्तते। एष: प्रयत्न: उच्चशिक्षां अधिकं समावेशिनीं, सुलभां भविष्यस्य आवश्यकतानुरूपां च कर्तुं दिशि अस्माकं महत्त्वपूर्णः प्रयासः अस्ति।”
अस्मिन् प्रयत्ने टीमलीज-एडटेक् विश्वविद्यालयस्य प्रौद्योगिकी-सहयोगी-संस्थारूपेण सहयोगं करोति। अन्तर्जाल-शिक्षणानुभवस्य प्रभाविसञ्चालनाय प्रबन्धनाय च आवश्यकां प्रौद्योगिकी-अवसंरचनां प्रदातुं टीमलीज-एडटेक् विश्वविद्यालयाय सहयोगं प्रददाति।
एतेषु सर्वेषु अष्टसु अन्तर्जाल-कार्यक्रमेषु प्रवेशप्रक्रिया प्रारब्धा अस्ति। इच्छुकाः विद्यार्थिनः कार्यक्रमानां, योग्यतामान-दण्डानां, प्रवेशप्रक्रियायाः अन्येषां च विवरणानां विषये सूचनां प्राप्तुं तथा अन्तर्जाल-आवेदनं कर्तुं विश्वविद्यालयस्य अन्तर्जाल-शिक्षापोर्टल् इत्यत्र गन्तुं शक्नुवन्ति।
Hindusthan Samachar / Divya Ranjan