Enter your Email Address to subscribe to our newsletters

कोलकाता, १० सेप्टेम्बरमासः (हि.स.)। कोलकातायाः ऐतिहासिकम् ईडन-गार्डन्स-स्थलं अस्मिन् समये क्रिकेट-क्रीडया सह बङ्गालस्य सांस्कृतिक-परिचयस्य अपि प्रमुखं केन्द्रं भवितुं गच्छति। दुर्गापूजायाः अवसरे अत्र विशेषकार्यक्रमस्य आयोजनाय सज्जता क्रियते।
सूत्रानुसारं प्रस्तावितस्य कार्यक्रमस्य मुख्याकर्षणं १० अक्टोबरमासे महालयायां भविष्यमाणम् भव्यायोजनं भविष्यति। राज्यसर्वकारस्य पक्षतः अस्मिन् कार्यक्रमे प्रधानमन्त्रीं नरेन्द्रमोदीं तथा केन्द्रीयगृहमन्त्रीम् अमितशाहं च आमन्त्रयितुं योजना अस्ति। कार्यक्रमस्य सज्जतायै २५ सेप्टेम्बरमासतः १५ अक्टोबरमासपर्यन्तं प्रायः २१ दिनानि यावत् ईडन-गार्डन्स-स्थले विशेषव्यवस्था क्रियमाणेति सूचना प्राप्ता अस्ति। अस्मिन् काले क्रीडाङ्गणे मञ्चस्य, अलङ्कारस्य, प्रकाशव्यवस्थायाः, सुरक्षायाः अन्यासां च सज्जतानां कारणेन सामान्य-क्रिकेटगतिविधीनां कार्यक्रमः प्रभावितः भविष्यति। अत एव ईडन-गार्डन्स-स्थले प्रस्तावितस्य बङ्गाल-दिल्ली-रणजी-ट्रॉफी-क्रीडायाः विषये अपि परिवर्तनस्य स्थितिः उत्पन्ना अस्ति तथा च सा स्पर्धा कल्याणीं स्थानान्तरिता भविष्यतीति सूचना प्राप्ता।
बङ्गाले महालयायाः विशेषं धार्मिकं सांस्कृतिकं च महत्त्वम् अस्ति। अस्मादेव दिने दुर्गापूजायाः आगमनस्य वातावरणं निर्मातुं प्रारभ्यते। अस्मिन् वर्षे राज्यसर्वकारः भव्यायोजनाय ऐतिहासिक-स्थलस्य ईडन-गार्डन्स-स्थलस्य उपयोगं कर्तुं गच्छति।
ईडन-गार्डन्स्-स्थलस्य इतिहासः प्रायः १६२ वर्षपुरातनः अस्ति। अस्य स्थापना १८६४ तमे वर्षे अभवदिति मन्यते। क्रीडाङ्गणस्य नाम ईडन-परिवारेण सम्बद्धम् अस्ति तथा च तत् कोलकातायाः प्राचीनतमेषु प्रतिष्ठितेषु च क्रीडास्थलेषु अन्यतमम् अस्ति। ईडन-गार्डन्स्-स्थले प्रथमा टेस्ट्-क्रीडास्पर्धा १९३४ तमे वर्षे भारत-इङ्ग्लैण्डदेशयोः मध्ये अभवत्। ततः परं तत् भारतीय-क्रिकेटस्य इतिहासस्य अनेकानां महत्त्वपूर्णघटनानां साक्षी अभवत्। अत्र विश्वकप-क्रीडास्पर्धाः, ऐतिहासिक्य: टेस्ट्-क्रीडास्पर्धा: अन्ताराष्ट्रिय-क्रिकेट इत्यस्य अनेकाः स्मरणीयाः क्रीडास्पधाश्च अभवन्।
१९८७ तमे वर्षे क्रिकेट-विश्वकप इत्यस्य अन्तिमा क्रीडास्पर्धा अपि ईडन-गार्डन्स-स्थले अभवत्। तदतिरिक्तं १९९३ तमे वर्षे हीरो-कपस्य उपान्त्यक्रीडा तथा १९९६ तमे वर्षे विश्वकप इत्यस्य उपान्त्यक्रीडा अपि अस्य क्रीडाङ्गणस्य क्रिकेट्-परम्परायाः भागौ स्तः। २००१ तमे वर्षे भारत-ऑस्ट्रेलियादेशयोः मध्ये अभवन् ऐतिहासिकः टेस्ट्-क्रीडास्पर्धा अपि ईडन-गार्डन्स-स्थलस्य इतिहासे विशेषं स्थानं धारयति।
ईडन-गार्डन्स दीर्घकालात् केवलं क्रिकेट-क्रीडाङ्गणं नास्ति। अत्र पादकन्दुक-क्रीडायाः अन्येषां च बृहद्-क्रीडाकार्य-क्रमाणाम् आयोजनमपि अभवत्। १९७७ तमे वर्षे पेले-महोदयस्य उपस्थितौ न्यूयॉर्क-कॉसमॉस: तथा मोहन-बागानयोः मध्ये क्रीडास्पर्धा अपि अस्मिन्नेव क्रीडाङ्गणे अभवत्।
Hindusthan Samachar / Divya Ranjan