गुवाहाटी-अन्ताराष्ट्रिय-मैराथनस्य-क्रीडायाः घोषणा
गुवाहाटी, १० सितम्बरमासः (हि.स.)। आगामी ०७ फरवरी २०२७ दिनाङ्के आयोज्यमानस्य गुवाहाटी-अन्ताराष्ट्रिय-मैराथन–क्रीडायाः घोषणा गुरुवासरे नगरे स्थिते रेडिसन ब्लू होटल इत्यत्र आयोजितायां संवाददाता-सम्मेलनसभायां मुख्यमन्त्री डॉ. हिमन्त बिस्व सरमा तथा क्रि
गुवाहाटी इंटरनेशनल मैराथन की घोषणा


गुवाहाटी इंटरनेशनल मैराथन की घोषणा


गुवाहाटी, १० सितम्बरमासः (हि.स.)। आगामी ०७ फरवरी २०२७ दिनाङ्के आयोज्यमानस्य गुवाहाटी-अन्ताराष्ट्रिय-मैराथन–क्रीडायाः घोषणा गुरुवासरे नगरे स्थिते रेडिसन ब्लू होटल इत्यत्र आयोजितायां संवाददाता-सम्मेलनसभायां मुख्यमन्त्री डॉ. हिमन्त बिस्व सरमा तथा क्रिकेट-क्रीडायाः महान् क्रीडकः सुनील गावस्करः इत्येतयोः उपस्थितौ औपचारिकरूपेण कृता। सम्पूर्णभारतदेशात् विदेशेभ्यश्च प्रायः १२,००० प्रतियोगिनः अस्मिन् मैराथन-धावन-प्रतियोगितायां भागं ग्रहीष्यन्ति इति अपेक्षा अस्ति।

भारतस्य विदेशस्य च धावकानां कृते पञ्जीकरणम् ११ सितम्बरतः आरभ्यते। ७ फरवरी दिनाङ्के आयोज्यमाने प्रथमसंस्करणे ४२.१९५ कि.मी., २१.०९७ कि.मी., १० कि.मी., ५ कि.मी. तथा १.५ कि.मी. धावन-प्रतियोगिताः समाविष्टाः भविष्यन्ति। अस्य प्रमुखस्य आयोजनस्य उद्देश्यं गुवाहाटी तथा असमराज्यम् अन्ताराष्ट्रिय-क्रीडा-आयोजनानां कृते उदयमानकेन्द्ररूपेण तथा प्रमुखगन्तव्यरूपेण स्थापयितुम् अस्ति। गुवाहाटी-अन्ताराष्ट्रिय-मैराथनक्रीडायाः प्रवर्धनं पीएमजी स्पोर्ट्स एल.एल.पी. द्वारा क्रियते।

एतत् आयोजनं उत्सवपूर्णं तथा समुदाय-केन्द्रितं धावन-कार्यक्रमं भविष्यति, यत् विभिन्नवयस्कानां तथा विविधपृष्ठभूमियुक्तानां जनानां सहभागितायै तथा कस्यचित् सत्कार्यस्य समर्थनार्थं धावनाय प्रेरयिष्यति।

गुवाहाटी-अन्ताराष्ट्रिय-मैराथनक्रीडायां भारतीय-बैडमिन्टन-क्रीडायाः विजेता सुश्री पी. वी. सिन्धुः अपि ब्राण्ड-अम्बेसडर् रूपेण सम्मिलिता भविष्यति। तस्याः सहभागितया स्वास्थ्य-जागरूकता, क्रीडा-उत्कृष्टता तथा युवानां सहभागितायाः मैराथनस्य सन्देशः अधिकं प्रबलः भविष्यति। अपि च राष्ट्रिय-अन्ताराष्ट्रियस्तरे अस्य आयोजनस्य प्रसारः विस्तारितः भविष्यति इति अपेक्षा अस्ति।

मैराथनक्रीडायाः औपचारिक-घोषणया सह प्रथमसंस्करणे स्वसहभागितां सुनिश्चितुं धावकानां कृते प्रतिभागी-पञ्जीकरणं ११ सितम्बर २०२६ दिनाङ्कतः उद्घाटितं भविष्यति।

प्रतिभागिनः आधिकारिक-अन्तर्जाल-पट्टिकायाः माध्यमेन https://www.guwahatiinternationalmarathon.org इत्यस्याः द्वारा ऑनलाइन-पञ्जीकरणं कर्तुं शक्नुवन्ति। एषा अन्तर्जाल-पट्टिका पात्रता, पञ्जीकरण-शुल्कम्, धावन-वर्गाणां विषये विस्तृतां सूचनां तथा ऑनलाइन-पञ्जीकरणस्य सुविधां प्रदास्यति।

–––––––––––––––––––––

Hindusthan Samachar / अंशु गुप्ता