Enter your Email Address to subscribe to our newsletters


सीवानम्, १० सेप्टेम्बरमासः (हि.स.)। महाराजगञ्जस्य अनुमण्डलमुख्यालये १०३ वर्षप्राचीनस्य ऐतिहासिकस्य मौनियाबाबामेलापकस्य राजकीय-महोत्सवस्य च २०२६ इत्यस्य गुरुवासरे भव्यः शुभारम्भः अभवत्। अस्मिन् अवसरे श्रद्धालूनां विशालः समागमः अभवत्।
महाराजगञ्जस्य सांसदः जनार्दन-सिंहसिग्रीवालः मेलापकस्य उद्घाटनं कृतवान्। अस्मिन् अवसरे महाराजगञ्जस्य विधायकः हेमनारायणसाहः, जनपदा-धिकारी विजयप्रकाशमीणा, आरक्षक-अधीक्षकः भारतसोनी, डीडीसी, महाराज-गञ्जस्य एसडीएम इत्यादयः बहवः जनप्रतिनिधयः, अधिकारिणः गणमान्य-जनाश्च उपस्थिताः आसन्। उद्घाटनात् पूर्वं मौनियाबाबानः समाधिस्थले पूजार्चना कृता। ततः स्थानीयकलाकारैः विद्यालयीयबालकैश्च सांस्कृतिककार्यक्रमाः प्रस्तुताः। बालकानां सृजनात्मकाभिः प्रस्तुतिभिः उपस्थितानां जनानां मनांसि आकृष्टानि।
प्रशासनानुसारं महाराजगञ्जस्य मौनियाबाबामेलापकः १९२३ तमवर्षात् भाद्रपदमासस्य अमावस्यायाः अवसरं प्रति आयोजितः भवति। उत्तरबिहारस्य प्रसिद्धेषु मेलकेषु परिगणिते अस्मिन् मेलापके दूरस्थेभ्यः क्षेत्रेभ्यः बहुसंख्यकाः जनाः आगच्छन्ति। २०२५ तमे वर्षे अस्य राजकीयमहोत्सवस्य अधिकारप्राप्तेः अनन्तरं मेलापकस्य गरिमा महत्त्वं च अधिकं वर्धितम् अस्ति।
सांसदः जनार्दनसिंहसिग्रीवालः अवदत् यत् राजकीयमेलापकस्य अधिकारप्राप्तेन मौनियाबाबामेलकस्य पारम्परिकायाः परिचयस्य नूतना प्रतिष्ठा प्राप्ता अस्ति। एषः मेलापकः अधुना सीवानस्य सांस्कृतिकपरिचयस्य महत्त्वपूर्णम् आधारं भवति। मेलापके प्रायः २३ महावीरी-अखाडाः अपि भागं गृह्णन्ति। जनपदाधिकारी विजयप्रकाशमीणा तथा आरक्षक-अधीक्षकः भारतसोनी च शान्तिसमित्याः सदस्येभ्यः अखाडानां आयोजनसमये विधिव्यवस्थां स्थापयितुं सहयोगस्य आह्वानं कृतवन्तौ।
अधिकारिभिः उक्तं यत् अखाडा इत्यस्य आयोजनसमये सर्वकारेण निर्धारितानां नियमानाम् अनिवार्यरूपेण पालनं करणीयम्। जनपदाधिकारी अवदत् यत् राजकीय-अधिकार-प्राप्तेः अनन्तरं मौनियाबाबामेलापकः पर्यटनस्य रोजगारस्य च सम्भावनाः अपि सुदृढीकुर्वन् अस्ति। मेलापकस्य आधारभूतसंरचनां श्रेष्ठां सुव्यवस्थितां च कर्तुं जनपदप्रशासनस्य पक्षतः प्रयासाः क्रियन्ते।
सः आशां प्रकटितवान् यत् अग्रिमेषु कालेषु एषः मेलापकः सीवानस्य विशिष्ट-सांस्कृतिकपरिचयरूपेण अधिकं सुदृढः भविष्यति। मेलकपरिसरे काष्ठेन लौहेन च निर्मितानां पारम्परिक-वस्तूनामपि महती याचना अस्ति। अत्र अलमारिकाणां, मंजूषानां, उखलानां, मूसलानां इत्येतै: च सहितानां बहूनां गृहपयोगिवस्तूनां क्रयविक्रयः भवति। अपरत्र महावीरी-अखाडानां आकर्षकाः प्रस्तुतयः सांस्कृतिक-कार्यक्रमाश्च मेलापकस्य प्रमुखाकर्षणानि सन्ति।
श्रद्धालूनां महान् सम्मर्द: श्रद्धा च मौनियाबाबामेलापकं सीवान इत्यस्य सांस्कृतिकजीवन्ततायाः प्रतीकरूपेण स्थापयति।
Hindusthan Samachar / Divya Ranjan