Enter your Email Address to subscribe to our newsletters

- राजनाथः फाइटर जेट्सविमानानां प्रेषणं भारत-जापान डिफेंस पार्टनरशिपनिमित्तं मीलप्रस्तरःउक्तः।
नवदिल्ली, 10 सितंबरमासः (हि.स.)।भारतजापानयोः वायुसैनयोः मध्ये जोधपुरे प्रचलिते संयुक्तवाय्वभ्यासे ‘वीरगार्जियन’ इत्यस्मिन् भागं ग्रहीतुं जापान-वायुस्वसंरक्षणबलस्य त्रयः एफ्-२ युद्धविमानाः जोधपुरं प्राप्तवन्तः। रक्षामन्त्री राजनाथसिंहः जोधपुरे आयोज्यमाने युद्धाभ्यासे भागं ग्रहीतुं जापानतः युद्धविमानानां प्रेषणं भारतजापानयोः रक्षासाझेदारीयै महत्त्वपूर्णं मीलस्तम्भम् इति वर्णितवान्। सः गुरुवासरे उक्तवान् यत् जापानस्य युद्धविमानानां प्रथमभारतयात्रा हिन्द-प्रशान्तक्षेत्रे शान्तेः स्थैर्यस्य च कृते वर्धमानविश्वासस्य साझिबद्धतायाश्च संकेतः अस्ति।
रक्षामन्त्री गतसप्ताहे नवदिल्ल्यां स्वस्य जापानीसमकक्षेण सह सम्पन्नां वार्तां स्मरन् उक्तवान् यत् ‘वीरगार्जियन’ इत्यादीनां अभ्यासानां परस्परं आदानप्रदानं द्वयोः देशयोः समन्वयं अधिकं सुदृढं करोति। जापानस्य वायुस्वसंरक्षणबलस्य युद्धविमानैः सह अयं भारतस्य द्वितीयः वाय्वभ्यासः अस्ति। अस्मात् पूर्वं २०२३ तमे वर्षे भारतस्य युद्धविमानानि प्रथमवारं जापानं गतवन्ति। तस्मिन् समये भारतीयदलम् ४ सुखोई-३० एम्.के.आई. विमानैः सह भागं गृहीतवत्। प्रथमस्मिन् संस्करणे भारतजापानयोः वायुसैन्ययोः ‘वीरगार्जियन’ इति षोडशदिवसीये वाय्वभ्यासे परस्परं विशिष्टक्षमतानां विषये ज्ञानं प्राप्तम् आसीत्।
भारतीयवायुसेनया द्विपक्षीययुद्धाभ्यासाय ‘वीरगार्जियन’ जापान-वायुस्वसंरक्षणबलस्य त्रयाणां एफ्-२ युद्धविमानानां जोधपुरप्राप्तौ स्वागतं कृतम्। संयुक्तवायुरक्षाप्रशिक्षणस्य प्रारम्भस्य घोषणां कुर्वती वायुसेना अस्य अभ्यासस्य सामरिकोद्देश्ये बलं दत्तवती। वायुसैन्यस्थानके जोधपुरे अयं अभ्यासः २२ सितम्बरपर्यन्तं चलिष्यति। भारतस्य पक्षतः विभिन्नप्रकारकाः अग्रपङ्क्तेः युद्धविमानाः भागं ग्रहीष्यन्ति, येषु स्वदेशीयं लघुयुद्धविमानं तेजस्, सुखोई-३० एम्.के.आई. तथा राफेल् इत्येतानि सम्मिलितानि सन्ति।
चतुर्दशदिवसीयस्य अभ्यासस्य अवधौ भागं गृह्णन्तः वायुसैनिकाः उन्नतस्तरीयान् परिचालनमिशनान् करिष्यन्ति तथा व्यावसायिकसंवादं करिष्यन्ति। जोधपुरे भारतीयवायुसेनायाः युद्धविमानैः सह जापानीविमानानि अपि वाय्वभियानानां अभ्यासं करिष्यन्ति। उभयोः देशयोः वायुसैनिकेभ्यः एकत्र कार्यं कर्तुं तथा विभिन्नेषु परिचालनपरिस्थितिषु समन्वयं स्थापयितुं अवसरः प्राप्स्यति।
अभ्यासस्य अवधौ उभयोः देशयोः सेनाः विभिन्नेषु अभियानेषु सहकार्यं करिष्यन्ति। अनेन अन्तर-सञ्चालनीयता अर्थात् उभयोः सेनयोः परस्परं मिलित्वा प्रभाविरूपेण कार्यं कर्तुं क्षमता सुदृढा भविष्यति। तेन सह युद्धक्षमतानां पारस्परिकावबोधस्य च उन्नयनाय अपि ध्यानं दीयते। अयं अभ्यासः परिचालनसमन्वयस्य वर्धने, कौशलस्य परिष्करणे तथा भारतजापानयोः पारस्परिकावबोधस्य सुदृढीकरणे महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।
Hindusthan Samachar / Dheeraj Maithani