भाजपादलेन सप्तमोर्चाणां कृते नूतनाः प्रभारीणः नियुक्ताः
नवदिल्ली, १० सेप्टेम्बरमासः (हि.स.)। भारतीयजनतापक्षेण स्वस्य सप्तप्रमुखमोर्चानां नूतनाः प्रभारीणः नियुक्ताः। महासचिवः हरीशद्विवेदी भारतीयजनता-युवमोर्चस्य प्रभारी नियुक्तः। भाजपायाः राष्ट्रियोपाध्यक्षः डी. पुरन्देश्वरी भाजपामहिलामोर्चा इत्यस्य, राष
भाजपा के मोर्चों के प्रभारी


नवदिल्ली, १० सेप्टेम्बरमासः (हि.स.)। भारतीयजनतापक्षेण स्वस्य सप्तप्रमुखमोर्चानां नूतनाः प्रभारीणः नियुक्ताः।

महासचिवः हरीशद्विवेदी भारतीयजनता-युवमोर्चस्य प्रभारी नियुक्तः। भाजपायाः राष्ट्रियोपाध्यक्षः डी. पुरन्देश्वरी भाजपामहिलामोर्चा इत्यस्य, राष्ट्रिय-महासचिवः सतीशपूनिया अनुसूचितजन-जातिमोर्चा इत्यस्य, महासचिवः सञ्जय-भाटिया अनुसूचितजातिमोर्चा इत्यस्य, राष्ट्रियोपाध्यक्षः वैजयन्तपाण्डा अन्यपृष्ठ-वर्गमोर्चा इत्यस्य, राष्ट्रियो-पाध्यक्षः लालसिंह-आर्यः किसानमोर्चा इत्यस्य तथा गजेन्द्रपटेलः अल्पसंख्यक-मोर्चा इत्यस्य प्रभारी नियुक्तः।

भाजपायाः अनुसारम् एताभिः नियुक्तिभिः सङ्घटनात्मकगतिविधीनां नूतनं वेगं प्राप्स्यति तथा च विभिन्नसामाजिकवर्गेषु दलस्य सम्पर्कः अधिकं सुदृढः भविष्यति। अधुना कतिपयेषु दिनेषु दलस्य राष्ट्रियम्, प्रदेशस्तरीयं च सङ्घटनं प्रति अनेकानि महत्त्वपूर्णानि परिवर्तनानि कृतानि सन्ति। अस्यैव क्रमस्य अन्तर्गतं सम्प्रति सप्तमोर्चानां कृते नूतनप्रभारीणां नियुक्तिः कृता अस्ति।

Hindusthan Samachar / Divya Ranjan