१०२ दिनानन्तरम् अद्य भविष्यति जनपद-परिषद्-शिमलायाः अध्यक्षोपाध्यक्षयोः निर्वाचनम्
शिमला, १० सेप्टेम्बरमासः (हि.स.)। जनपद-परिषद्-शिमलायै १०२ दिनानन्तरम् अद्य अध्यक्षः उपाध्यक्षश्च प्राप्स्यते। जनपद-परिषदः अध्यक्षस्य उपाध्यक्षस्य च निर्वाचनाय अद्य प्रातः १०:३० वादने बचत-भवने सभा भविष्यति। उपायुक्तस्य अनुपमकश्यपस्य अध्यक्षतायां निर
१०२ दिनानन्तरम् अद्य भविष्यति जनपद-परिषद्-शिमलायाः अध्यक्षोपाध्यक्षयोः निर्वाचनम्


शिमला, १० सेप्टेम्बरमासः (हि.स.)। जनपद-परिषद्-शिमलायै १०२ दिनानन्तरम् अद्य अध्यक्षः उपाध्यक्षश्च प्राप्स्यते। जनपद-परिषदः अध्यक्षस्य उपाध्यक्षस्य च निर्वाचनाय अद्य प्रातः १०:३० वादने बचत-भवने सभा भविष्यति। उपायुक्तस्य अनुपमकश्यपस्य अध्यक्षतायां निर्वाचनप्रक्रिया सम्पन्ना करिष्यते। जनपद-प्रशासनेन निर्वाचनसम्बद्धाः सर्वाः सज्जताः पूर्णाः कृताः सन्ति। सदस्येभ्यः सभायाः निर्वाचनप्रक्रियायाश्च सूचना प्रदत्ता अस्ति। निर्वाचनाय बचत-भवने मतपेटिकाः अपि स्थापिताः क्रियन्ते।

जनपद-परिषदः निर्वाचनपरिणामाः ३१ मे-दिनाङ्के तथा १ जून-दिनाङ्के घोषिताः आसन्। पञ्चविंशतिसदस्ययुक्तायां जिला-परिषद्यां कस्यापि दलस्य स्पष्टं बहुमतं न प्राप्तम् आसीत्। अध्यक्षपदस्य प्राप्त्यै १३ सदस्यैः समर्थनम् आवश्यकम् अस्ति। अतः कांग्रेस-दलस्य भाजपायाश्च बहुमतप्राप्त्यै निर्दलीयसदस्यानां समर्थनम् आवश्यकम् अस्ति।

निर्वाचने विजिताः चत्वारः निर्दलीय-सदस्याः सम्प्रति महत्त्वपूर्णां भूमिकां निर्वहन्ति। अध्यक्षोपाध्यक्षयोः निर्वाचने एतेषां समर्थनं कस्यापि दलस्य कृते निर्णायकं भवितुम् अर्हति। यस्य दलस्य पक्षे १३ सदस्याः भविष्यन्ति, तस्य अध्यक्षपदं प्राप्तुं सम्भावना वर्धिष्यते। उपाध्यक्षपदाय कस्यचित् निर्दलीय-सदस्यस्य निर्वाचनस्य सम्भावना अपि वर्तते।

वर्तमानसदस्यसंख्यायाः आधारेण भाजपा दलस्य स्थितिः सुदृढा दृश्यते। भाजपायाः ११ सदस्याः सन्ति तथा तस्यै द्वयोः निर्दलीयसदस्ययोः समर्थनं प्राप्तम् अस्ति। एवं दलं १३ सदस्यसमर्थनस्य संख्यां प्राप्नोति। कांग्रेसपक्षेण अपि विजयस्य दावा क्रियते। निर्वाचनकाले सदस्यैः पक्षपरिवर्तनपूर्वकं मतदानस्य अर्थात् क्रॉस-वोटिङ्ग इत्यस्य सम्भावना अपि न निराकृता अस्ति। अतः वास्तविकस्थितिः मतदानानन्तरमेव स्पष्टा भविष्यति।

जनपद-परिषदः अध्यक्षस्य उपाध्यक्षस्य च निर्वाचनाय अगस्तमासस्य प्रथमसप्ताहे अपि सभा आहूता आसीत्। तस्मिन् समये भाजपा-कांग्रेसयोः उभयोः दलयोः सदस्याः सभायां भागं न गृहीतवन्तः। अतः निर्वाचनं न भवितुं शक्तम्। अधुना गुरुवासरे आयोज्यमाना सभा जनपद-परिषदः द्वितीया सभा भविष्यति।

नियमानुसारं सभायां सदस्यानां ५० प्रतिशतं अर्थात् १३ सदस्याणां उपस्थितौ गणपूर्तिः पूर्णा मन्यते। ततः अध्यक्षस्य उपाध्यक्षस्य च निर्वाचनं कर्तुं शक्यते। निर्वाचनस्थगनसम्बद्धं प्रकरणं प्रदेशस्य उच्चन्यायालये अपि विचाराधीनम् अस्ति। उच्चन्यायालयस्य आदेशानन्तरमेव अधुना गुरुवासरे निर्वाचनं क्रियते।

जनपद-परिषदः अध्यक्षोपाध्यक्षयोः निर्वाचनं प्रति विगतेषु कतिपयेषु कालेषु कांग्रेस-भाजपयोः मध्ये राजनीतिकः संघर्षः अपि आसीत्। भाजपया निर्वाचनस्थगनं प्रति प्रश्नाः उत्थापिताः आसन्। अधुना मतदानानन्तरं स्पष्टं भविष्यति यत् पञ्चविंशतिसदस्ययुक्तायां जनपद-परिषद्यां अध्यक्षस्य उपाध्यक्षस्य च पदयोः कस्य दलस्य समर्थनं प्राप्यते। गुरुवासरस्य मध्याह्नपर्यन्तं निर्वाचन-परिणामे प्रकाशिते जनपद-परिषदः नूतनव्यवस्थापि स्पष्टा भविष्यति।

Hindusthan Samachar / Divya Ranjan