Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १० सेप्टेम्बरमासः (हि.स.)। अन्तरिक्षे वर्धमानानां गतिविधीनां मध्ये प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे वैश्विकसमुदायम् सहयोगं, स्थिरतां समावेशनं च प्राथमिकतारूपेण स्वीकर्तुम् आहूतवान्। सः उक्तवान् यत् अन्तरिक्षे कक्षाः अधिकं सम्मर्दयुक्ताः भवन्ति, प्रौद्योगिक्यः अधिकं शक्तिशालिन्यः भवन्ति तथा अन्तरिक्षक्षेत्रे सहभागिनां संख्या निरन्तरं वर्धते। अतः विश्वेन एकाग्रतायाः स्थाने सहयोगस्य, अल्पकालिक-लाभस्य स्थाने स्थिरतायाः, बहिष्कारस्य स्थाने समावेशनस्य च मार्गः स्वीकर्तव्यः।
प्रधानमन्त्रिणा पेरिस-नगरे आयोजितं प्रथमम् अन्ताराष्ट्रियम् अन्तरिक्ष-शिखरसम्मेलनं प्रति दृक्-श्रव्य-माध्यमेन सम्बोधयता उक्तं यत् भारतं सुरक्षितस्य, संरक्षितस्य, शान्तिपूर्णस्य तथा स्थायिनः अन्तरिक्षक्षेत्रस्य समर्थनं करोति। एषा व्यवस्था अन्ताराष्ट्रियविधि, संवादः बहुपक्षीयसहयोगश्च आधृत्य भवितव्या।
मोदी उक्तवान् यत् भारतस्य अन्तरिक्षदृष्टिकोणः ‘वसुधैव कुटुम्बकम्’ अर्थात् एकः पृथ्वी, एकं कुटुम्बम् एकं भविष्यं च इत्यस्य भावनायां निहितः अस्ति। एषा भावना इदानीं पृथिव्याः परे अन्तरिक्षपर्यन्तम् अपि प्रसारिता भवेत्। सः उक्तवान् यत् अन्तरिक्षं शताब्देभ्यः मानवस्य कल्पनाशक्तिं प्रेरयति स्म, किन्तु अद्य तस्य प्रौद्योगिक्यः पृथिव्यां जीवनस्य रक्षणे अपि साहाय्यं कुर्वन्ति। जलवायोः तथा सस्यानां निरीक्षणात् आरभ्य महासागराणां समुदायानां च निरीक्षणपर्यन्तं अन्तरिक्षप्रौद्योगिक्याः व्यापकः उपयोगः भवति।
प्रधानमन्त्रिणा भारतस्य भाव्य-अन्तरिक्षलक्ष्याणाम् अपि उल्लेखः कृतः। सः उक्तवान् यत् भारतस्य लक्ष्यं २०३५ तमवर्षपर्यन्तं स्वकीयम् अन्तरिक्षकेन्द्रं स्थापयितुं तथा २०४० तमवर्षपर्यन्तं भारतीयं चन्द्रमसं प्रेषयितुम् अस्ति। सः उक्तवान् यत् एतेषु प्रयासेषु भारतस्य स्पष्टः मार्गदर्शकसिद्धान्तः अस्ति यत् अन्तरिक्षात् प्राप्ताः लाभाः सम्पूर्णमानवतां प्रति प्राप्नुयुः।
मोदी भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनस्य उपलब्धीनाम् उल्लेखं कुर्वन् उक्तवान् यत् तेन उत्कृष्टतायै तथा न्यूनव्ययेषु अन्तरिक्ष-अभियानानां सञ्चालनाय वैश्विकप्रतिष्ठा प्राप्ता अस्ति। इसरोस्य प्रौद्योगिकी कृषकाणां मत्स्यजीविनां च साहाय्याय, ऋतुपूर्वानु-मानाय, आपदाप्रबन्धनाय तथा नौवहनाय इत्यादिषु क्षेत्रेषु उपयोगी भवति। सः अवदत् यत् ३४ देशानां ४३० तः अधिकाः उपग्रहाः भारतीयप्रक्षेपकाणां माध्यमेन अन्तरिक्षे प्रेषिताः सन्ति।
प्रधानमन्त्री उक्तवान् यत् चन्द्रयान्-३ इत्यनेन भारतं चन्द्रस्य दक्षिणध्रुवीयक्षेत्रस्य समीपे अवतरणं कृतवान् प्रथमः देशः अभवत्, यदा तु आदित्य-एल-१ सूर्यस्य रहस्यानां बोधने साहाय्यं कुर्वन् अस्ति। सः उक्तवान् यत् गतवर्षे एकेन भारतीयेन अन्ताराष्ट्रिय-अन्तरिक्षकेन्द्रस्य यात्रा कृता।
मोदी भारतस्य निजी-अन्तरिक्षक्षेत्रस्य द्रुतगत्या प्रगतिम् अपि उल्लिखितवान्। सः उक्तवान् यत् उद्यमशीलतायाः ऊर्जा इसरोस्य वैज्ञानिकश्रेष्ठतया सह संयुज्यते। फ्रान्स्-देशं भारतस्य विश्वसनीयम् अन्तरिक्षसहभागिनं कथयन् सः उक्तवान् यत् उभयोः देशयोः सहयोगः पृथिवी-अवलोकनम् उन्नतप्रौद्योगिकयः च इत्यादिषु विभिन्नक्षेत्रेषु अग्रे वर्धते।
सः फ्रान्स्-देशं विश्वस्य अन्यदेशांश्च भारतस्य आगामीयाम् अन्तरिक्षयात्रायां सहभागिनः भवितुम् आहूतवान्। मानवतायै भाविवंशानां च कृते अन्तरिक्षस्य अन्वेषणं, नवाचारः संरक्षणं च मिलित्वा करणीयम् इति सः उक्तवान्।
Hindusthan Samachar / Divya Ranjan