राजकुमारः रहीम-आगा-खान-पञ्चमः प्रधानमन्त्रिणा मोदिना सह मिलितवान्, भारत-आगा-खान-विकासनिकाययोः सहयोगवर्धनविषये चर्चा
नवदिल्ली, १० सेप्टेम्बरमासः (हि.स.)। शियाइसमाइली-यवनानां पञ्चाशत्तमः इमामः तथा आगा-खान-विकास-निकायस्य अध्यक्षः राजकुमारः रहीम-आगा-खान-पञ्चमः गुरुवासरे प्रधान-मन्त्रिणा नरेन्द्रमोदिना सह मिलितवान्। प्रधानमन्त्री अस्यां साक्षात्कारवार्तायां तस्य दिवङ
एकेडीएन के अध्यक्ष प्रिंस रहीम आगा खान पंचम गुरुवार को प्रधानमंत्री नरेन्द्र मोदी से मुलाकात के दौरान


नवदिल्ली, १० सेप्टेम्बरमासः (हि.स.)। शियाइसमाइली-यवनानां पञ्चाशत्तमः इमामः तथा आगा-खान-विकास-निकायस्य अध्यक्षः राजकुमारः रहीम-आगा-खान-पञ्चमः गुरुवासरे प्रधान-मन्त्रिणा नरेन्द्रमोदिना सह मिलितवान्। प्रधानमन्त्री अस्यां साक्षात्कारवार्तायां तस्य दिवङ्गतस्य पितुः, ४९ तमस्य इमामस्य आगा-खान-चतुर्थस्य च विकासकार्येषु योगदानं सस्नेहं स्मृतवान्। राजकुमारस्य रहीम-आगा-खान-पञ्चमस्य एष: भारतस्य प्रथमः आधिकारिकः यात्रावसरः अस्ति।

प्रधानमन्त्रिणा सामाजिकमाध्यमे ‘एक्स’ इत्यत्र मिलनस्य चित्रं संस्थाप्य उक्तं यत् राजकुमारं रहीम-आगा-खान-पञ्चमेन सह मिलित्वा प्रसन्नता जाता। सः उक्तवान् यत् साक्षात्कारवार्तायां दिवङ्गतस्य आगा-खान-चतुर्थस्य विकासप्रयासेषु स्थायिनः योगदानस्य स्मरणं कृतम्। प्रधानमन्त्री उक्तवान् यत् भारतस्य आगा-खान-विकासनिकायस्य च मध्ये स्वास्थ्यसेवा, कृषिः, ग्रामीणविकासः, युवशक्ति-सशक्तीकरणं महिलासशक्तीकरणं च इत्येतेषु क्षेत्रेषु सहभागिताम् अधिकं सुदृढां कर्तुं उपायानां विषये चर्चा अभवत्।

अस्याः पूर्वं विदेशमन्त्री एस. जयशङ्करः राजकुमारं रहीम-आगा-खान-पञ्चमं मिलितवान्। जयशङ्करेण ‘एक्स’ इत्यत्र साक्षात्कारस्य चित्राणि संस्थाप्य सूचितं यत् तेन आगा-खान-विकासनिकायेन सामाजिकविकासस्य विरासत्संरक्षणस्य च क्षेत्रयोः क्रियमाणानां प्रभावशालिनां कार्याणां विषये चर्चा कृता। भारतस्य विदेशेषु च एतेषु क्षेत्रेषु सहयोगस्य भाविसम्भावनानां विषये अपि विचारविमर्शः कृतः।

उल्लेखनीयं यत् आगा-खान-विकास-निकायः भारतस्य स्वास्थ्य, शिक्षा, ग्रामीणविकास, कृषि, संस्कृतिः तथा अन्येषु सामाजिकविकासक्षेत्रेषु दीर्घ-कालात् कार्यं कुर्वन् अस्ति।

Hindusthan Samachar / Divya Ranjan