Enter your Email Address to subscribe to our newsletters

भोपालम्, ०९ सेप्टेम्बरमासः (हि.स.)। गुजरात-उच्चन्यायालयस्य न्यायाधीशः न्यायमूर्तिः अल्पेशयशवन्त-कोगजे मध्य-प्रदेश-उच्चन्यायालयस्य नूतनः मुख्य-न्यायाधीशः मनोनीतः अस्ति। प्रदेशस्य राज्यपालः मङ्गुभाईपटेलः अद्य (गुरु-वासरे) तं शपथं ग्राहयिष्यति। न्यायमूर्तिः कोगजे मध्यप्रदेशस्य ३०तमः मुख्य-न्यायाधीशः भविष्यति।
विधि-विधायिनी-विभागेन प्रदत्तया सूचनया भोपालस्य लोकभवने स्थिते सान्दीपनि-सभागारे प्रातः ११ वादने शपथ-ग्रहणसमारोहः आयोजयिष्यते। अस्मिन् समारोहे राज्यपालः मङ्गुभाईपटेलः न्यायमूर्तिं कोगजे पदस्य गोपनीयतायाश्च शपथं ग्राहयिष्यति। सः कार्यवाहक-मुख्यन्यायाधीशस्य न्यायमूर्तेः विवेकरूसियायाः स्थानं स्वीकरिष्यति।
मध्यप्रदेश-उच्चन्यायालयस्य मुख्यन्यायाधीशत्वेन मनोनयनात् पूर्वं न्यायमूर्तिः कोगजे गुजरात-उच्चन्यायालये न्यायाधीशरूपेण सेवां कुर्वन् आसीत्। मुख्यन्यायाधीशस्य अध्यक्षतायां सर्वोच्च-न्यायालयस्य न्यायाधीश-समित्या ३१ अगस्तमासे २०२६ तमे वर्षे तस्य नाम्नः अनुशंसा कृता आसीत्। राष्ट्रपतिना द्रौपदीमुर्मु इत्यनया अनुमोदनं प्रदत्तस्य अनन्तरं केन्द्रसर्वकारेण ५ सेप्टेम्बरमासे २०२६ तमे वर्षे तद् अधिसूचितम्।
न्यायमूर्तिः कोगजे बुधवासरे सायमेव भोपालम् आगतवान्। सः अत्र लोकभवनं गत्वा राज्यपालेन मङ्गुभाईपटेलेन सह सौजन्यसाक्षात्कारं कृतवान्। अस्मिन् अवसरे न्यायमूर्तेः कोगजेस्य पत्नी अर्चना-अल्पेश-कोगजे अपि तेन सह आसीत्।
शपथग्रहणानन्तरं न्यायमूर्तिः कोगजे भोपालात् जबलपुरं गमिष्यति। सः ११ सेप्टेम्बरे मध्यप्रदेश-उच्चन्यायालये मुख्यन्यायाधीशरूपेण औपचारिकरूपेण कार्यभारं स्वीकरिष्यति। अस्मिन् अवसरे प्रातः १०:३० वादने उच्चन्यायालयस्य प्रथमक्रमाङ्किते न्यायालयकक्षे औप-चारिक-स्वागतसमारोहः आयोजयिष्यते। समारोहें उच्चन्यायालयस्य न्यायाधीशाः, वरिष्ठाः अधिवक्तारः, बार-पदाधिकारिणः न्यायिकाधिकारिणश्च उपस्थिताः भविष्यन्ति।
Hindusthan Samachar / Divya Ranjan