न्यायमूर्ति अल्पेशकोगजे मध्यप्रदेशोच्चन्यायालयस्य मुख्यन्यायाधीशः, राज्यपालेन शपथ: कारित:
भोपालम्, १० सेप्टेम्बरमासः (हि.स.)। न्यायमूर्तिः अल्पेशयशवन्तकोगजे गुरुवासरे अत्र लोकभवने सांदीपनि-सभागारे आयोजिते सादेसमारोहे मध्यप्रदेशोच्चन्यायालयस्य त्रिंशत्तमः मुख्यन्यायाधीशरूपेण शपथं गृहीतवान्। राज्यपालः मङ्गुभाईपटेलः तं शपथं कारितवान्। अस्
न्यायमूर्ति अल्पेश कोगजे शपथ ग्रहण करने के बाद हस्ताक्षर करते हुए


न्यायमूर्ति अल्पेश कोगजे शपथ ग्रहण करते हुए


न्यायमूर्ति अल्पेश कोगजे का शपथ ग्रहण के स्वागत करते हुए मुख्यमंत्री


भोपालम्, १० सेप्टेम्बरमासः (हि.स.)। न्यायमूर्तिः अल्पेशयशवन्तकोगजे गुरुवासरे अत्र लोकभवने सांदीपनि-सभागारे आयोजिते सादेसमारोहे मध्यप्रदेशोच्चन्यायालयस्य त्रिंशत्तमः मुख्यन्यायाधीशरूपेण शपथं गृहीतवान्। राज्यपालः मङ्गुभाईपटेलः तं शपथं कारितवान्।

अस्मिन् अवसरे मुख्यमन्त्री डॉ. मोहनयादवः अपि उपस्थितः आसीत्। राज्यपालः पटेलः मुख्यमन्त्री यादवश्च शपथग्रहणानन्तरं नवनियुक्ताय मुख्य-न्यायाधीशाय कोगजे-महोदयाय पुष्पगुच्छं प्रदाय अभिनन्दनं शुभकामनाश्च अर्पितवन्तौ। मुख्यसचिवः अशोकबर्णवालः शपथग्रहणसमारोहस्य सञ्चालनं कृतवान्। तेन राष्ट्रपतिना मध्यप्रदेशोच्च-न्यायालयस्य मुख्यन्यायाधीशरूपेण अल्पेशयशवन्तकोगजे-महोदयस्य नियुक्तिसम्बन्धिन्याः अधिसूचनायाः वाचनं कृतम्। समारोहस्य प्रारम्भः समापनं च ‘वन्दे मातरम्’ इति राष्ट्रियगीतस्य ‘जनगणमन’ इति राष्ट्रगानस्य च गायनेन अभवत्।

शपथग्रहणेन सहैव मध्यप्रदेशोच्च-न्यायालयाय प्रायः त्रिमासानन्तरं स्थायीमुख्यन्यायाधीशः प्राप्तः। एतदपूर्वं न्यायमूर्तिः विवेकरुसिया कार्यवाहक-मुख्यन्यायाधीशरूपेण दायित्वं निर्वहन् आसीत्।

शपथग्रहणसमारोहे विधानसभाध्यक्षः नरेन्द्रसिंहतोमरः, उपमुख्यमन्त्रिद्वयं जगदीशदेवडा राजेन्द्रशुक्लश्च, कौशल-विकास-रोजगारराज्यमन्त्री (स्वतन्त्र-प्रभारः) गौतमटेटवालः, महापौरः मालतीरायः, मध्यप्रदेशमानवाधिकारा-योगस्य अध्यक्षः अवधेशप्रतापसिंहः, पूर्व-राज्यपालः कप्तान-सिंहसोलङ्की, न्यायमूर्तयः जी.एस.-अहलूवालिया, सुबोध-अभ्यङ्करः, सन्दीप एन. भट्टः, विनयसराफः, रमेशफडके च, मध्यप्रदेशोच्चन्यायालयस्य रजिस्ट्रार-जनरलः धरमिन्दरसिंहः, अपरमुख्यसचिवौ डॉ. शिवशेखरशुक्लः संजयशुक्लश्च, राज्यपालस्य प्रमुखसचिवः डॉ. नवनीत-मोहनकोठारी, आरक्षक-महानिदेशकः कैलाशमकवाना, विधायकाः, सांसदाः, मध्यप्रदेशस्य गुजरातस्य उत्तरप्रदेशस्य च उच्चन्याया-लयानां न्यायमूर्तयः, वरिष्ठाः प्रशासनिकाः न्यायिकाः च अधिकारिणः, अधिवक्तारः आयोगानां पदाधिकारिणश्च उपस्थिताः आसन्।

उल्लेखनीयं यत् न्यायमूर्तिः कोगजे एतदपूर्वं गुजरातोच्चन्यायालये न्याया-धीशरूपेण स्वसेवां प्रददन् आसीत्। उच्चतम-न्यायालयस्य कॉलेजियमेन ३१ अगस्तमासे २०२६ तमे वर्षे तस्य नाम मुख्यन्यायाधीशपदाय अनुशंसितम् आसीत्। राष्ट्रपतिना द्रौपदीमुर्मु-महोदयया अनुमोदनं प्रदत्तानन्तरं केन्द्रसर्वकारेण ५ सेप्टेम्बरमासे २०२६ तमे वर्षे तत् अधिसूचितम्। शपथग्रहणानन्तरं न्यायमूर्तिः कोगजे भोपालात् जबलपुरं गमिष्यति। सः ११ सेप्टेम्बरमासे मध्य-प्रदेशोच्चन्यायालयस्य मुख्यन्यायाधीश-रूपेण कार्यभारं स्वीकरिष्यति।

Hindusthan Samachar / Divya Ranjan