पीडितायाः महिलायाः वचनं पूर्वाग्रहरहिततया शृण्वन्तु, निर्णयस्य सम्मानं कुर्वन्तु : रेखायादवः
पीडितायाः महिलायाः वचनं पूर्वाग्रहरहिततया शृण्वन्तु, निर्णयस्य सम्मानं कुर्वन्तु : रेखा यादवः। वन स्टॉपकेंद्रस्य परामर्शदातॄणां प्रकरणकार्यकर्तॄणां च कृते एकदिवसीयविशेषप्रशिक्षणकार्यक्रमः। भोपालम्, १० सितम्बरमासः (हि.स.)। मध्यप्रदेशराज्य महिला आय
वन स्टॉप सेंटर के काउंसलर्स एवं केस वर्कर्स के लिए एक दिवसीय विशेष प्रशिक्षण कार्यक्रम में समूह चित्र


पीडितायाः महिलायाः वचनं पूर्वाग्रहरहिततया शृण्वन्तु, निर्णयस्य सम्मानं कुर्वन्तु : रेखा यादवः।

वन स्टॉपकेंद्रस्य परामर्शदातॄणां प्रकरणकार्यकर्तॄणां च कृते एकदिवसीयविशेषप्रशिक्षणकार्यक्रमः।

भोपालम्, १० सितम्बरमासः (हि.स.)। मध्यप्रदेशराज्य महिला आयोगस्य अध्यक्षा रेखा यादव उक्तवती यत् यदा काचित् महिला अथवा बालिका स्वसमस्यां गृहीत्वा वन स्टॉप सेन्टरं प्राप्नोति, तदा परामर्शदातुः प्रथमं दायित्वं तस्याः वचनं कस्यापि पूर्वाग्रहस्य, निर्णयस्य अथवा निष्कर्षस्य विना ध्यानपूर्वकं श्रवणम् अस्ति। महिलायाः परिस्थितिं सम्यक् अविज्ञाय कस्यापि निष्कर्षस्य प्राप्तिः तस्यै अधिकां कठिनतां जनयितुं शक्नोति।

महिला आयोगस्य अध्यक्षा रेखा यादव गुरुवासरे विशेषप्रशिक्षणकार्यक्रमं सम्बोधयन्ती आसीत्। राष्ट्रियमहिला आयोगस्य तत्त्वावधाने मध्यप्रदेशराज्य महिला आयोगेन महिलाभ्यः हिंसायाः अन्यासां च संकटपरिस्थितीनां प्रभावी, संवेदनशीलं समन्वितं च सहाय्यम् उपलब्धुं वन स्टॉप सेन्टरस्य परामर्शदातॄणां प्रकरणकार्यकर्तॄणां च कृते अयं एकदिवसीयः विशेषप्रशिक्षणकार्यक्रमः आयोजितः।

प्रशिक्षणस्य अवधौ भारतीयन्यायसंहिता (बीएनएस), दण्डसम्बद्धविधानानां, पॉक्सो-अधिनियमस्य, दहेजप्रतिषेधाधिनियमस्य, बालविवाहप्रतिषेधाधिनियमस्य, घरेलूहिंसातः महिलानां संरक्षणाधिनियमस्य, नागरिकसुरक्षासम्बद्धप्रावधानानां च सहितं अन्येषां विधानानां सूक्ष्मतायाः तेषां व्यावहारिकक्रियान्वयनस्य च विषये जानकारी प्रदत्ता। सहैव महिलानां विरुद्धं हिंसायाः निवारणाय बालकेषु युवकेषु च लैङ्गिकसमानता, सम्मानः संवेदनशीलता च विषये बोधस्य विकासस्य आवश्यकतायां बलं प्रदत्तम्।

उत्तरजीवीकेन्द्रितरणनीत्याः विषये बलम्

आयोगस्य सदस्यः सुरेश तोमरः उत्तरजीवीकेन्द्रितरणनीत्याः विषये चर्चां कुर्वन् उक्तवान् यत् प्रत्येकस्याः पीडितायाः महिलायाः सुरक्षा, सम्मानः, गोपनीयता, आवश्यकताः निर्णयग्रहणक्षमता च केन्द्रे संस्थाप्य सहायता पुनर्वासव्यवस्था च भवेत्। तेन उक्तं यत् महिलां केवलं ‘प्रकरणम्’ इति न, अपितु स्वजीवनस्य संघर्षं अनुभवन्ती व्यक्तिरूपेण अवगन्तुम् आवश्यकम्।

प्रकरणप्रलेखीकरणस्य मानकसञ्चालनप्रक्रियायाः च जानकारी

प्रशिक्षणस्य द्वितीयसत्रे प्राची चन्देलः प्रकरणप्रलेखीकरणस्य, अभिलेखसंधारणस्य, दत्तांशस्य सुव्यवस्थितप्रबन्धनस्य च विषये विस्तरेण जानकारी प्रदत्तवती। तया कथितं यत् यदा काचित् महिला अथवा बालिका वन स्टॉप सेन्टरम् आगच्छति, तदा तस्याः परिस्थितेः, आवश्यकसेवानां, प्रकरणसम्बद्धानां च सूचनानां सुव्यवस्थितं प्रलेखीकरणं करणीयम्।

प्रकरणकार्यकर्तृभ्यः परामर्शदातृभ्यश्च भारतसर्वकारेण निर्गतायाः मानकसञ्चालनप्रक्रियायाः (एसओपी) अनुरूपं प्रकरणेषु कार्यं कर्तुं प्रक्रिया अवबोधिता। महिलायाः व्यक्तिगतसूचनाः प्रकरणसम्बद्धाः सूचनाः च पूर्णतया गोपनीयाः स्थापनीयाः इत्यस्मिन् विशेषं बलं प्रदत्तम्। सहैव आवश्यकसम्मतिप्रपत्राणि नियमानुसारं पूरयित्वा महिलायै उपलब्धाः सर्वाः आवश्यकसेवाः सहाय्यं च प्रदातुं कथितम्।

विशेषज्ञैः उक्तं यत् वन स्टॉप सेन्टरस्य दायित्वं केवलं महिलायाः प्रारम्भिकसहाय्यतायै सीमितं नास्ति, अपितु प्रकरणेषु नियमितरूपेण अनुवर्तनमपि आवश्यकम् अस्ति, येन सुनिश्चितं कर्तुं शक्यते यत् महिलायै आवश्यकं सहाय्यं वस्तुतः प्राप्यते सा च सुरक्षितस्थितौ अस्ति।

सुरक्षा, विश्वासः सशक्तीकरणं च आधाराः भवन्तु

प्रशिक्षणे अस्मिन् विषये विशेषं बलं प्रदत्तं यत् संकटपरिस्थितौ वन स्टॉप सेन्टरं प्राप्नुवतीषु अधिकांशासु महिलासु किञ्चित् मानसिकं भावनात्मकं च आघातं भवति। अतः सर्वप्रथमं ताभ्यः सुरक्षा, विश्वासः, विकल्पाः, सहभागिता सशक्तीकरणं च विषये आश्वासनं दातुं आवश्यकम् अस्ति।

विशेषज्ञैः उक्तं यत् वन स्टॉप सेन्टरम् आगच्छन्त्यै महिलायै शारीरिकां भावनात्मकां च सुरक्षां प्रदातुं प्रथमं सोपानं भवेत्। तस्याः इच्छायाः, आवश्यकतायाः निर्णयस्य च सम्मानं कुर्वद्भिः तस्यै उपलब्धानां विकल्पानां विषये जानकारी प्रदातव्या, येन सा स्वभविष्यसम्बद्धेषु निर्णयेषु स्वयमेव सहभागी भवितुं शक्नुयात्।

Hindusthan Samachar / Dheeraj Maithani