Enter your Email Address to subscribe to our newsletters


धारः, छिन्दवाडा, बैतूलः, नर्मदापुरम्, दमोहः उमरिया च इत्येतेषां चयनितग्रामाः एस्ट्रो-पर्यटनस्य नवीनकेन्द्राणि भविष्यन्ति
भोपालम्, १० सितम्बरमासः (हि.स.)। मध्यप्रदेशे पर्यटनस्य नवीनानां आयामानां विकासेन सह खगोलीयपर्यटनम् अपि प्रोत्साह्यते। राज्यस्य षट्सु ग्रामेषु ‘एस्ट्रो-विलेज’ इति परियोजना आकारं गृह्णाति। अस्याः परियोजनायाः माध्यमेन मध्यप्रदेशस्य पर्यटनं तारकाणां छायायां निखरितुं सज्जं भवति।
मध्यप्रदेशपर्यटनमण्डलस्य प्रबन्धसञ्चालकः डॉ. इलैयाराजा टी. गुरुवासरे सूचनां दत्त्वा अवदत् यत् मण्डलेन जनजातीयपर्यटनपरियोजनायाः अन्तर्गतं ‘एस्ट्रो-विलेज डेवलपमेण्ट् प्रोजेक्ट्’ इत्यस्य कार्यान्वयनं मई २०२६ तः प्रारब्धम् अस्ति। परियोजनायाः उद्देश्यं राज्यस्य प्राकृतिकरूपेण अन्धकारयुक्तानां अर्थात् ‘डार्क स्काई’ क्षेत्राणां पर्यटनस्य नवीनाकर्षणरूपेण विकासः तथा पर्यटकेभ्यः तारकाणां, ग्रहाणां, आकाशगङ्गायाश्च अवलोकनस्य अद्वितीयम् अनुभवं प्रदातुम् अस्ति।
षट्सु जनपदेषु चयनितग्रामेषु विकासकार्यम् आरब्धम्
सः अवदत् यत् परियोजनायाः प्रथमचरणे प्रदेशस्य षट्सु जनपदेषु धार, छिन्दवाडा, बैतूल, नर्मदापुरम्, दमोह तथा उमरिया इत्येतेभ्यः एकैकः ग्रामः चयनितः अस्ति। एतेषां ग्रामाणां खगोलीयपर्यटनकेन्द्ररूपेण विकासस्य कार्यम् आरब्धम् अस्ति। धारजनपदस्य ज्ञानपुरा, छिन्दवाडाजनपदस्य धुसावानी, बैतूलस्य बाञ्चा, नर्मदापुरमस्य ढाबा, दमोहस्य रिछकुडी तथा उमरियाजनपदस्य रंछा इति ग्रामेषु एस्ट्रो-पर्यटनसम्बद्धानां सुविधानाम् अधोसंरचनायाश्च विकासः क्रियते।
पर्यटकाः शीघ्रमेव एस्ट्रो-विलेज-पर्यटनस्य आनन्दं प्राप्स्यन्ति
प्रबन्धसञ्चालकः डॉ. इलैयाराजा अवदत् यत् मध्यप्रदेशे एस्ट्रो-विलेज-पर्यटनं विज्ञानस्य प्रकृतेश्च अद्वितीयसङ्गमरूपेण विकसितं क्रियते। प्रकाशप्रदूषणात् दूरेषु एतेषु क्षेत्रेषु पर्यटकाः स्वच्छे रात्रिकाले आकाशे तारकाणां, ग्रहाणां, आकाशगङ्गायाश्च अवलोकनं कर्तुं शक्नुवन्ति। सः अवदत् यत् एषा पहलः एस्ट्रो-पर्यटनस्य प्रोत्साहनेन सह स्थानीयसमुदायानां कृते पर्यटनस्य रोजगारस्य च नवीनान् अवसरान् अपि सृजिष्यति। पर्यटनगतिविधिषु स्थानीयजनानां प्रत्यक्षसहभागितां सुनिश्चित्य तान् परियोजनया आर्थिकरूपेण सम्बद्धान् करिष्यते।
आधुनिकयन्त्रैः सुविधाभिश्च विकसितानि भविष्यन्ति एस्ट्रो-विलेज
सः अवदत् यत् चयनितग्रामेषु पर्यटकेभ्यः तारकाणां, ग्रहाणां अन्येषां च खगोलीयपिण्डानां सुरक्षितं स्पष्टं उत्कृष्टं च अवलोकनं कर्तुं आधुनिकाधोसंरचना विकसित्यते। अस्य अन्तर्गतं आधुनिकदूरदर्शकाः, दूरवीक्षणयन्त्राणि तथा एस्ट्रो-फोटोग्राफी-कैमरा इत्यादीनि उपलब्धानि करिष्यन्ते। पर्यटकेभ्यः तारावलोकनमञ्चः तथा अवलोकनक्षेत्रं विकसितं करिष्यते। तेन सह खगोलीयघटनानां अन्तरिक्षसम्बद्धानां च सूचनानां सरलेन रोचकप्रकारेण बोधनाय व्याख्याकेंद्रस्य निर्माणं करिष्यते। एताभिः सुविधाभिः पर्यटकाः रात्रिकालीनस्य आकाशस्य अवलोकनेन सह खगोलीयघटनानाम् अवबोधस्य अवसरम् अपि प्राप्स्यन्ति।
स्थानीययुवकाः भविष्यन्ति ‘एस्ट्रो-गाइड्’
डॉ. इलैयाराजा अवदत् यत् एस्ट्रो-विलेज-परियोजनायाः प्रमुखम् उद्देश्यम् ग्रामीणसमुदायस्य आर्थिकसशक्तीकरणम् अस्ति। अस्य कृते चयनितग्रामाणां स्थानीययुवकेभ्यः नवतिदिवसीयं सघनप्रशिक्षणं प्रदास्यते। प्रशिक्षणानन्तरं ते कुशलाः ‘एस्ट्रो-गाइड्’ इति रूपेण सज्जीकृताः भविष्यन्ति। एस्ट्रो-गाइड्-जनाः पर्यटकेभ्यः रात्रिकालीनस्य आकाशस्य, तारामण्डलानां विभिन्नानां च खगोलीयघटनानां विषये सूचनां दास्यन्ति तथा तारावलोकनादिषु गतिविधिषु मार्गदर्शनं करिष्यन्ति। अनेन स्थानीययुवकेभ्यः रोजगारस्य स्वरोज़गारस्य च नवीनाः अवसराः सृजिष्यन्ते तथा पर्यटनजनितासु आर्थिकगतिविधिषु स्थानीयवासिनां सहभागिता वर्धिष्यते।
भारतस्य प्रमुखं एस्ट्रो-पर्यटनगन्तव्यस्थानरूपेण उदेष्यति मध्यप्रदेशः
प्रबन्धसञ्चालकस्य अनुसारम्, एस्ट्रो-विलेज-परियोजना प्रदेशे तारावलोकनं खगोलीयपर्यटनं च इत्यादीनां विशिष्टपर्यटनगतिविधीनां प्रोत्साहनस्य दिशि महत्त्वपूर्णा पहलः अस्ति। प्राकृतिकरूपेण अन्धकारयुक्तक्षेत्राणि पर्यटनस्य सह संयोज्य मध्यप्रदेशे पर्यटनस्य नवीनं क्षेत्रं विकसितं क्रियते। एषा परियोजना देशविदेशेभ्यः आगच्छद्भ्यः पर्यटकेभ्यः रात्रिकालीनस्य आकाशस्य अवलोकनस्य अद्वितीयम् अनुभवं प्रदास्यति तथा मध्यप्रदेशं भारतस्य प्रमुखं अग्रणीं च एस्ट्रो-पर्यटनगन्तव्यस्थानरूपेण स्थापयितुं महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।
Hindusthan Samachar / Dheeraj Maithani