Enter your Email Address to subscribe to our newsletters

बलरामपुरम्, १० सेप्टेम्बरमासः (हि.स.)। बलरामपुरजनपदे राष्ट्रियपोषणमासस्य शुभारम्भः अद्य गुरुवासरे ‘अस्माकम् आङ्गनवाडी अस्माकं दायित्वम्’ इति विषयवस्तुना कृतः। महिला-बालविकास-विभागस्य पक्षतः सेक्टर-कुस्मीस्थले वेबकास्ट्-माध्यमेन कार्यक्रमस्य सजीवं प्रसारणं हितग्राहिभ्यः दर्शितम्। ततः पोषणस्वास्थ्यसम्बद्धाः सूचनाः प्रदत्ताः तथा उपस्थितजनैः कुपोषणनिवारणस्य शपथः गृहीतः।
कार्यक्रमे गर्भवतीभ्यः शिशुवतीभ्यश्च मातृभ्यः स्तनपानस्य महत्त्वं, सन्तु-लिताहारः तथा महिला-बालविकास-विभागस्य योजनाः इत्यादीनां विषये सूचना प्रदत्ता। आङ्गनवाडी-कर्मकरिभ्यः केन्द्राणां साजसज्जायाः विधयः अपि कथिताः, येन बालकेभ्यः केन्द्रेषु आकर्षकं शिक्षाप्रदं च वातावरणं निर्मातुं शक्येत।
जनपदे अभियानस्य प्रभावी क्रियान्वयनं तृणमूलस्तरे सुनिश्चितं कर्तुम् आङ्गनवाडीकेन्द्राणि स्थानीयसमुदायेन सह संयोजयितुं बलं दीयते। जन-प्रतिनिधीनां, अभिभावकानां तथा स्वसहायतासमूहानां सहभागितां वर्धयितुं सह केन्द्रेषु पोषणवाटिकानां विकासस्य प्रयासः क्रियते। स्थानीयस्तरे उपलब्धानां पौष्टिकधान्यानां भोजनमध्ये समावेशः, अन्नप्राशनादीनाम् आयोजनानां उत्सव-रूपेण आचरणं तथा आङ्गनवाडीकेन्द्राणां नियमितनिरीक्षणम् इत्येतेषु विषयेष्वपि बलं दीयते।
अस्यैव क्रमे परियोजनाकार्यालये रामचन्द्रपुरे सभा-सह-प्रशिक्षणकार्यक्रमः आयोजितः। अस्मिन् पोषणमासस्य सेवासङ्कल्प-अभियानस्य च प्रभावीक्रियान्वयनस्य विषये चर्चा कृता। कार्यकर्तृभ्यः बालकानां भारस्य दीर्घतायाश्च सम्यक् मापनस्य प्रशिक्षणं प्रदत्तम्। तेषां भारमापनयन्त्रं समतले स्थाने स्थापयितुं, तस्य शुद्धतां परीक्षितुं, बालकानां उन्नतिं दीर्घतां च मापयितुं तथा पोषण-ट्रैकर-मध्ये सम्यक् तथ्याङ्कान् प्रविष्टुं च सूचना प्रदत्ता।
प्रशिक्षणकाले कुपोषितबालकानां समुदायस्तरे परिचर्या, गम्भीरकुपोषित-बालकानां परिचयं कृत्वा तेषां पोषणपुनर्वासकेन्द्रं प्रति प्रेषणम्, गर्भवतीनां महिलानां समये पञ्जीकरणं स्वास्थ्यपरीक्षणं च तथा प्रधानमन्त्री-मातृवन्दनायोजनायाः लाभं प्रदातुम् इत्येतेषु विषयेष्वपि बलं दीयते। कार्यकर्तृभ्यः अन्तर्जालीयप्रविष्टीनां व्यावहारिकाभ्यासः अपि कारितः।
जनपदाधिकारी चन्दनसञ्जयत्रिपाठी अवदत् यत् पोषणमासः केवलम् एकमासीयः कार्यक्रमः न, अपि तु जनानां आदतेषु व्यवहारेषु च सकारात्मकपरिवर्तनं जनयितुं निरन्तरं चलितम् अभियानम् अस्ति। आङ्गनवाडी बालकानां स्वस्थभविष्यस्य प्रथमसोपानम् अस्ति। अतः प्रत्येकं बालकस्य नियमितमापनं तस्य सम्यक् अभिलेखरक्षणं च आवश्यकम् अस्ति। सः मातॄन्, अभिभावकान् समुदायं च अभियाने सक्रियसहभागितायै आहूतवान् तथा अवदत् यत् सामूहिकप्रयत्नेन एव जनपदं कुपोषणमुक्तं कर्तुं निर्धारितं लक्ष्यं प्राप्तुं शक्यते।
Hindusthan Samachar / Divya Ranjan