बोकोहरामस्य विरुद्धम् अभियानाय नाइजीरियादेशेन नूतनः सेनानायकः नियुक्तः
अबुजा, 09 सितंबरमासः (हि.स.)।नाइजीरियादेशेन देशस्य पूर्वोत्तरभागे बोकोहरामस्य तस्य च इस्लामिकस्टेटसम्बद्धस्य गुटस्य आईएसडब्ल्यूएपी इत्यस्य विरुद्धं सैन्याभियानाय नूतनस्य सेनानायकस्य नियुक्तिः कृता अस्ति। सेनायाः अनुसारं मेजरजनरल् इबिकुनले अदेमोला अ
बोकोहरामस्य विरुद्धम् अभियानाय नाइजीरियादेशेन नूतनः सेनानायकः नियुक्तः


अबुजा, 09 सितंबरमासः (हि.स.)।नाइजीरियादेशेन देशस्य पूर्वोत्तरभागे बोकोहरामस्य तस्य च इस्लामिकस्टेटसम्बद्धस्य गुटस्य आईएसडब्ल्यूएपी इत्यस्य विरुद्धं सैन्याभियानाय नूतनस्य सेनानायकस्य नियुक्तिः कृता अस्ति। सेनायाः अनुसारं मेजरजनरल् इबिकुनले अदेमोला अजोसः अधुना ‘ऑपरेशन हदीन काई’ इत्यस्य नेतृत्वं करिष्यति। सः मेजरजनरल् अब्दुलसलाम अबुबकरस्य स्थानं गृहीतवान् अस्ति।

अजोसः इतः पूर्वं अबुजास्थिते सेनामुख्यालये नियुक्तः आसीत्। अबुबकरेण अप्रैलमासे २०२५ तमे वर्षे ‘ऑपरेशन हदीन काई’ इत्यस्य पञ्चदशतमसेनानायकत्वेन दायित्वं स्वीकृतम् आसीत्। द्विवर्षात् न्यूनसमये एव नेतृत्वे अयं परिवर्तनं तस्मिन् समये जातम्, यदा नाइजीरियादेशे आगामी जनवरीमासे राष्ट्रपतिनिर्वाचनं भवितुम् अस्ति तथा सुरक्षा-व्यवस्था प्रमुखा चुनौती वर्तते।

बोकोहरामस्य तस्य च विभक्तसङ्गठनस्य इस्लामिकस्टेट् वेस्ट आफ्रिका प्रोविन्स् अर्थात् आईएसडब्ल्यूएपी इत्यस्य विद्रोहः २००९ तमवर्षात् निरन्तरं प्रचलति। आर्म्ड कान्फ्लिक्ट लोकेशन एण्ड इवेण्ट् डेटा प्रोजेक्ट् अर्थात् एसीएलईडी इत्यस्य आँकडानुसारं अस्यां हिंसायां अधुना पर्यन्तं चत्वारिंशत्सहस्राधिकजनानां मृत्युः अभवत् तथा च लक्षशः जनाः विस्थापिताः सन्ति।

नाइजीरियायाः सेनया सेनानायकस्य परिवर्तनं साम्प्रतिकेन केनचित् आक्रमणेन सह न सम्बद्धम् अस्ति। सेनायाः प्रवक्त्री अपोलोनिया एनेले इत्यनुसारम् एतत् पञ्चदशान्यैः जनरल्-अधिकारीभिः सह व्यापकसैन्यपुनर्विन्यासस्य भागः अस्ति। अस्य उद्देश्यं सैन्याभियानानां प्रभावशीलतां वर्धयितुं, नेतृत्वं सुदृढं कर्तुं तथा परिवर्तमानानां सुरक्षाचुनौतीनां अनुरूपं सेनानेतृत्वव्यवस्थां सुदृढीकर्तुम् अस्ति।

----------------------

Hindusthan Samachar / अंशु गुप्ता