Enter your Email Address to subscribe to our newsletters

लखनऊ, 10 सितंबरमासः (हि.स.)।
मुख्यमन्त्रिणः योगी आदित्यनाथस्य नेतृत्वे प्रदेशसर्वकारः शासकीयविद्यालयेषु पठतां बालानां शैक्षणिकावश्यकतानां पूर्तिं कर्तुं सह अभिभावकानां सहभागितामपि सुदृढां करोति। अस्मिन् क्रमे शैक्षणिकसत्रे २०२६-२७ मध्ये कक्षाप्रथमात् अष्टमकक्षापर्यन्तं विद्यार्थिभ्यः विद्यालयवेशभूषायै, पादत्राण-मोजाभ्यां, स्वेटराय, विद्यालयपुटकाय, लेखनसामग्र्यै च डीबीटी-माध्यमेन प्रदीयमानधनराशेः निर्धारितप्रयोजने एव उपयोगं सुनिश्चितं कर्तुं निर्देशाः प्रदत्ताः सन्ति।
मूलभूतशिक्षाराज्यमन्त्री (स्वतन्त्रप्रभारः) सन्दीपसिंहः उक्तवान् यत् डीबीटी-धनराशेः निर्धारितसामग्रीषु उपयोगेन बालानां शैक्षणिकावश्यकतानां पूर्तिर्भविष्यति तथा विद्यालयस्य प्रति तेषां सम्बन्धः सुदृढः भविष्यति। महानिदेशिका मोनिका रानी उक्तवती यत् डीबीटी-राशेः निर्धारितोपयोगस्य सामग्रीप्राप्तेः च विद्यालयस्तरे सत्यापनं सुनिश्चितं क्रियते। सामग्रीनां नियमितोपयोगाय संरक्षणाय च जागरूकतायै विशेषं बलं दीयते।
महानिदेशिका विद्यालयशिक्षा मोनिका रानी सर्वेभ्यः जिलामूलभूतशिक्षाधिकारिभ्यः अस्य व्यापकप्रचार-प्रसारस्य प्रभाविपालनस्य च निर्देशान् प्रदत्तवती। विभागेन उक्तं यत् डीबीटी-धनराशेः उपयोगः केवलं निर्धारितसामग्रीणां क्रयणे एव करणीयः। अभिभावकाः तादृशसामग्रीणां क्रये प्रेरयिष्यन्ते, यस्याः गुणवत्ता सम्पूर्णं सत्रं यावत् स्थास्यति तथा बालाः तस्याः नियमितरूपेण उपयोगं कर्तुं शक्नुयुः।
प्रधानाचार्याः शिक्षकाः च अभिभावकैः सह संवादं कृत्वा एतत् सुनिश्चितं करिष्यन्ति यत् बालाः विद्यालये सामग्रीनां नियमितरूपेण उपयोगं कुर्वन्ति। विद्यालयस्तरे विद्यार्थिभ्यः प्राप्तसामग्रीणां कक्षानुसारं छात्रानुसारं च सत्यापनं कारयिष्यते। एतद् निरीक्ष्यते यत् बालाः विद्यालयवेशभूषया, पादत्राण-मोजाभ्यां, स्वेटरेण च विद्यालयम् आगच्छन्ति तथा पुटकस्य लेखनसामग्र्याश्च उपयोगं कुर्वन्ति।
अभिभावकाः विद्यालयवेशभूषायाः मुख्यतः विद्यालये विद्यालयीयक्रियाकलापेषु च उपयोगाय तथा सामग्रीनां नियमितरक्षणाय अपि जागरूकाः करिष्यन्ते। निर्देशेषु स्पष्टतया उक्तं यत् डीबीटी-धनराशेः उपयोगः अन्येषु मदेषु न करणीयः। उल्लङ्घनस्य सूचना प्राप्ते अभिभावकैः सह सम्पर्कं कृत्वा परामर्शः प्रदास्यते। खण्डशिक्षाधिकारी जिलास्तरीयाधिकारिणश्च निरीक्षणसमये अस्य निरीक्षणं करिष्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani