Enter your Email Address to subscribe to our newsletters

लखनऊम्, १० सेप्टेम्बरमासः (हि.स.)। मुख्यसचिवः एस.पी.गोयलः गुरुवासरे लखनऊनगरे प्रोजेक्ट-मॉनिटरिङ्ग-ग्रुप इत्यस्य सभाम् आयोज्य प्रदेशे सञ्चाल्यमानानां विभिन्नानां महत्त्व-पूर्णानाम् अवस्थापनापरियोजनानां योजनानां च प्रगतिम् विस्तरेण समीक्षितवान्। अस्मिन् क्रमे कानपुरम्, आग्रानगरम्, लखनऊनगरं च सम्बद्धानां मेट्रो-परियोजनानां, गौतमबुद्धनगरजनपदे चिल्ला-रेगुलेटरतः महामाया-फ्लाइवोवरपर्यन्तं प्रस्तावितस्य उन्नत-मार्गस्य परियोजनायाः, प्रधानमन्त्री-विकसितभारत-रोजगारयोजनायाश्च प्रगतेः विषये विस्तरेण चर्चा कृता।
मुख्यसचिवः सम्बद्धेभ्यः विभागेभ्यः कार्यदायीसंस्थाभ्यश्च निर्धारितसमय-सीमामनुसृत्य परियोजनाकार्येषु गतिं वर्धयितुं तथा गुणवत्तामानकानां पूर्णतया अनुपालनं सुनिश्चितं कर्तुं निर्देशान् दत्तवान्।
मुख्यसचिवः गौतमबुद्धनगरजनपदे मयूरविहारस्य समीपे स्थितात् चिल्ला-रेगुलेटरतः सेक्टर-१४ए-मार्गेण एम.पी.-३-मार्गस्थितं महामाया-फ्लाइ-वोवरं नोएडानगरं च संयोजयितुं शाहदरा-नालायाः समानान्तरं निर्मीयमाणस्य उन्नतमार्गस्य परि-योजनायाः समीक्षां कृत्वा अवशिष्टेषु कार्येषु आवश्यकां गतिं स्थापयितुं निर्देशितवान्। निर्धारितानि माइलस्टोन-कार्याणि समये पूर्णानि भवेयुः तथा परियोजनाकार्याणां सततं निरीक्षणं सुनिश्चितं भवेत् इत्यत्र सः विशेषं बलं दत्तवान्।
सभायां लखनऊ-मेट्रो इत्यस्य कॉरिडोर-१बी इत्यस्य प्रगतेः समीक्षायां ज्ञापितं यत् परियोजनायाः विस्तृत-निर्माण-परामर्शदातुः, मेट्रो-डिपो, उन्नतमार्गखण्डस्य तथा लिफ्ट्-यन्त्रस्य निविदाः प्रदत्ताः सन्ति। भूमिगतखण्डस्य कृते तान्त्रिकमूल्याङ्कनस्य प्रक्रिया प्रचलति।
कानपुर-मेट्रो-रेल-परियोजनायाः कॉरिडोर-१ इत्यस्य प्रगतेः समीक्षायां ज्ञापितं यत् झकरकट्टीतः ट्रान्सपोर्ट्-नगरपर्यन्तं द्वयोः भूमिगतस्थानकयोः संरचनात्मकानि परिष्कारसम्बद्धानि च कार्याणि पूर्णानि सन्ति तथा स्थानकानां भौतिकप्रगतिः ९९ प्रतिशतं वर्तते। अपरतः बारादेवीतः नौबस्तापर्यन्तं पञ्च उन्नत-स्थानकैः युक्ते खण्डे संरचनात्मकानि कार्याणि पूर्णानि सन्ति तथा परिष्कारसम्बद्धानि कार्याणि प्रायः पूर्णानि सन्ति। अस्मिन् खण्डे स्थानकानां प्रगतिः १०० प्रतिशतं वर्तते।
कानपुर-मेट्रो इत्यस्य कॉरिडोर-२ इत्यस्य, यः सी.एस.ए.-विश्वविद्यालय-मेट्रो-स्थानकतः बर्रा-८-मेट्रोस्थानकपर्यन्तं प्रस्तावितः अस्ति, समीक्षायां ज्ञापितं यत् रावतपुरतः डबलपुलियापर्यन्तं त्रिभिः भूमिगतस्थानकैः युक्ते खण्डे सुरङ्गनिर्माणकार्यं पूर्णं जातम् अस्ति तथा संरचनात्मकानि परिष्कारसम्बद्धानि च कार्याणि प्रगतिपथे सन्ति। अस्य खण्डस्य भौतिकप्रगतिः ८७.१५ प्रतिशतं वर्तते। तथैव सी.एस.ए.-तः तथा विजयनगरतः बर्रा-८-पर्यन्तं पञ्चभिः उन्नतस्थानकैः युक्ते खण्डे संरचनात्मकानि कार्याणि प्रचलन्ति तथा तस्य भौतिकप्रगतिः ६५ प्रतिशतं वर्तते।
आगरा-मेट्रो-रेल-परियोजनायाः कॉरिडोर-१ इत्यस्य अवशिष्टे भूमिगतभागे संरचनात्मकानि कार्याणि सफलतया पूर्णानि कृतानि सन्ति तथा परिष्कार-सम्बद्धानि कार्याणि प्रचलन्ति। अस्मिन् खण्डे सी.एम.आर.एस्.-निरीक्षणं सफलतया सम्पन्नम् अस्ति। कॉरिडोरस्य उन्नतभागे आई.एस.बी.टी.-मेट्रो-स्थानकस्य निर्माणकार्यं पूर्णं जातम् अस्ति, अपरयोः द्वयोः स्थानकयोः निर्माणकार्यं तु तीव्रगत्या प्रचलति।
आग्रा-मेट्रो इत्यस्य कॉरिडोर-२ इत्यस्य, आग्राकैण्टतः कालिन्दीविहारपर्यन्तं प्रस्तावितस्य, विषये ज्ञापितं यत् चतुर्दश उन्नतस्थानकानां वायाडक्ट्-निर्माणस्य च कार्याणि तीव्रगत्या प्रचलन्ति। परियोजनायां उपयोगितासुविधानां परिचयः, बैरिकेडिङ्ग्-बोर्ड्, पाइल-कैप, पाइलिङ्ग, पियर, पियर-कैप तथा यू-गर्डर इत्यादीनां कार्याणि निरन्तरं प्रगतिपथे सन्ति। लाइन-२ इत्यस्य प्राथमिकताखण्डे आगराकैण्टतः आग्राकॉलेज-मेट्रोस्थानकपर्यन्तं तथा अवशिष्टखण्डस्य कार्यं यथाशीघ्रं पूर्णं कर्तुं प्रभावीरूपेण कार्यं प्रचलति।
सभायां सम्बद्धविभागानां वरिष्ठाः अधिकारिणः अन्ये च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan