वाराणस्यां प्रकटितः राजस्थानस्य पोषणप्रतिमानस्य प्रभावः, सम्पूर्णदेशे गुञ्जितं ‘सक्षमा नारी, स्वस्थं बाल्यम्’ इति सन्देशः।
जयपुरम्, 10 सितंबरमासः (हि.स.)। राजस्थानस्य पोषणनवाचारैः राष्ट्रियमञ्चे स्वकीयं विशिष्टं स्थानं निर्मितम् अस्ति। वाराणस्यां नवमस्य राष्ट्रियपोषणमासस्य शुभारम्भस्य अवसरे राजस्थानमहिलाबालविकासविभागस्य पक्षतः स्थापितः पोषणप्रदर्शनिकामण्डपः आकर्षणस्य
पोषण प्रदशर्नी


जयपुरम्, 10 सितंबरमासः (हि.स.)।

राजस्थानस्य पोषणनवाचारैः राष्ट्रियमञ्चे स्वकीयं विशिष्टं स्थानं निर्मितम् अस्ति। वाराणस्यां नवमस्य राष्ट्रियपोषणमासस्य शुभारम्भस्य अवसरे राजस्थानमहिलाबालविकासविभागस्य पक्षतः स्थापितः पोषणप्रदर्शनिकामण्डपः आकर्षणस्य केन्द्रम् अभवत्। राजस्थानस्य ‘सक्षमा नारी, स्वस्थं बाल्यं, समृद्धः राजस्थानः’ इति विषयाधारितायां प्रदर्शन्यां प्रदेशे सञ्चालितानां पोषणबालविकाससम्बद्धानां विभिन्नानां नवाचाराणां प्रदर्शनं कृतम्।

केन्द्रसर्वकारस्य महिलाबालविकासमन्त्रालयेन अपि राजस्थानस्य प्रदर्शनिकामण्डपस्य चित्राणि स्वकीयसामाजिकमाध्यममञ्चे प्रसारितानि तथा तस्य प्रशंसा कृता।

वाराणस्याः रुद्राक्ष-अन्तर्राष्ट्रिय-सम्मेलनकेन्द्रे आयोजिते राष्ट्रियकार्यक्रमे देशस्य षड् राज्यैः स्वकीयेषु नवाचारेषु आधारिताः प्रदर्शनिकामण्डपाः स्थापिताः आसन्। राजस्थानस्य मण्डपे मातृत्वपोषणाय नगदसहायतायुक्तस्य ‘कैश प्लस’ प्रतिमानस्य प्रमुखतया प्रदर्शनं कृतम्। तेन सह आङ्गनबाडीकेंद्रेषु बालकेभ्यः दीयमानस्य पूरकपोषणाहारस्य, मुख्यमन्त्रिणः अमृताहारयोजनायाः अन्तर्गतं प्रदीयमानस्य दुग्धस्य, मुख्यमन्त्रिणः सुपोषणन्यूट्रीकिटयोजनायाः तथा शालापूर्वशिक्षायाः सम्बद्धानां नवाचाराणां विषये अपि सूचना प्रदत्ता।

प्रदर्शन्याः अवलोकनं उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः, केन्द्रीयमहिलाबालविकासमन्त्री अन्नपूर्णादेवी, राज्यमन्त्री सावित्रीठाकुरः, भारतसर्वकारस्य सचिवः अनिलमलिकः इत्यादयः विशिष्टप्रतिनिधयः कृतवन्तः। ते राजस्थानस्य योजनानां नवाचाराणां च विषये सूचनां प्राप्तवन्तः तथा प्रदर्शन्याः प्रशंसाम् अकुर्वन्।

राजस्थाने ९ सितम्बरतः ८ अक्तूबरपर्यन्तं नवमः राष्ट्रियपोषणमासः जनान्दोलनरूपेण आचरिष्यते। अस्मिन् वर्षे अस्य मुख्यविषयः ‘अस्माकम् आङ्गनबाडी, अस्माकं दायित्वम्’ इति निर्धारितः अस्ति। अस्य उद्देश्यं आङ्गनबाडीकेंद्राणि केवलं पोषणवितरणस्थानरूपेण न स्थापयित्वा पोषणस्य, परिचर्यायाः प्रारम्भिकबाल्यावस्थाविकासस्य च सशक्तकेन्द्ररूपेण विकसितुं तथा समुदायस्य मनसि तेषां प्रति स्वामित्वभावनां सुदृढां कर्तुम् अस्ति।

पोषणमासस्य अवधौ आहारवैविध्ये पर्याप्तप्रथिने च, आङ्गनबाडीकेंद्रेषु ताजेन पक्वेन उष्णभोजने, सामुदायिकस्वामित्वे उत्तरदायित्वे च, बाल्यावस्थाविकासाय पोषणस्य प्रारम्भिकप्रेरणायाः च तथा प्रधानमन्त्रीमातृवन्दनायोजनया सम्बद्धासु गतिविधिषु विशेषं बलं दीयते।

एताः गतिविधयः स्वास्थ्यशिक्षापञ्चायतीराजग्रामीणविकासविभागानां समन्वयेन आयोजयिष्यन्ते। अभियानस्य दैनिकप्रगतिः जनान्दोलन-डैशबोर्ड् इत्यत्र अङ्किता भविष्यति।

राष्ट्रियस्तरे राजस्थानस्य पोषणपद्धतेः प्रशंसानन्तरम् अधुना प्रदेशे प्रारब्धः पोषणमासः केवलं सर्वकारीयकार्यक्रमः न भूत्वा आङ्गनबाडीकेंद्रात् आरभ्य परिवारं समुदायं च पर्यन्तं पोषणस्य दायित्वं संयोजयन् अभियानरूपेण अग्रे वर्धते।

---------------

Hindusthan Samachar / Dheeraj Maithani