वर्ल्ड-इन्क्लूजन-कॉन्फ्रेन्स इत्यस्मात् प्राप्तशिक्षां विभागीयकार्येषु समावेशयितुं मन्थनम्
लखनऊ, १० सेप्टेम्बरमासः (हि.स.)। नवदिल्लीनगरे आयोजितात् वर्ल्ड-इन्क्लूजन-कॉन्फ्रेन्स-२०२६ इत्यस्मात् प्राप्ता शिक्षा अधुना समाज-कल्याणविभागस्य कार्यप्रणाल्यां नूतन-चिन्तनस्य नूतनप्रयासानां च आधारः भविष्यति। एतदर्थं बुधवासरे गोमतीनगरे स्थिते सहभागित
लोगो


लखनऊ, १० सेप्टेम्बरमासः (हि.स.)। नवदिल्लीनगरे आयोजितात् वर्ल्ड-इन्क्लूजन-कॉन्फ्रेन्स-२०२६ इत्यस्मात् प्राप्ता शिक्षा अधुना समाज-कल्याणविभागस्य कार्यप्रणाल्यां नूतन-चिन्तनस्य नूतनप्रयासानां च आधारः भविष्यति। एतदर्थं बुधवासरे गोमतीनगरे स्थिते सहभागिताभवने सभा आयोजिता। “एकं विश्वं, सर्वेषां सम्मानम्” इति विषयवस्तुना आयोजितायां सभायां समाजकल्याणराज्यमन्त्री असीम-अरुणः, दिव्यप्रेमसेवामिशन इत्यस्य संस्थापकः आशीषः, समाजकल्याणविभागस्य प्रमुखसचिवः अनुरागयादवः, निदेशकः सञ्जीवसिंहः इत्यादयः सर्वे विभागीयाः अधिकारिणः उपस्थिताः आसन्।

नवीनावश्यकतानाम् अनुरूपं नीतिषु विचारः

सम्मेलने सहभागं कृतवन्तः नवनियुक्ताः जनपदसमाजकल्याणाधिकारिणः विभिन्नविषयेषु प्रस्तुतीकरणानां माध्यमेन स्वानुभवान् प्राप्तशिक्षां च सहभागं कृतवन्तः। सभायां समाज-कल्याणक्षेत्रे उद्भवन्तीनां नवीना-वश्यकतानां परिचयं कृत्वा तदनुरूपाणां नवीननीतीनां प्रभाविकार्यक्रमाणां च दिशि कथम् अग्रे गन्तुं शक्यते इत्यस्मिन् विषये अपि मन्थनं कृतम्। अधिकारिभिः स्वानुभवानाम् आधारेण नवाचारस्य समाधानाधारितदृष्टिकोणस्य च स्वीकरणस्य सम्भावनाः प्रस्तुताः।

“नूतनचिन्तनेन नीतिनिर्माणे बलं ददतु”

समाजकल्याणमन्त्री असीम-अरुणः अवदत् यत् सम्मेलने प्राप्तानुभवान् केवलं व्यक्तिगतशिक्षायाः सीमासु न स्थापयित्वा नूतनचिन्तनेन विभागीयकार्येषु दृढपरिवर्तनं तथा श्रेष्ठनीतिनां निर्माणं कर्तुं तेषां उपयोगः करणीयः। सः अधिकारिभ्यः समाजकल्याणक्षेत्रस्य नवीनावश्यकतानां परिचयं कृत्वा नवाचारस्य समाधानाधारितदृष्टिकोणस्य च सहायतया अग्रे गन्तुं बलं दत्तवान्।

हिन्दुस्थान समाचार / Divya Ranjan