Enter your Email Address to subscribe to our newsletters

हल्द्वानी, १० सेप्टेम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीनः गुरुवासरे हल्द्वान्याः बेरीपडाव-स्थिते अष्टभुजाश्रीमहालक्ष्मी-मन्दिरे पूजार्चनां कृतवान्। सः महालक्ष्म्याः समीपे देशस्य उत्तराखण्डस्य च जनानां सुखसमृद्धेः, शान्तेः, मङ्गलमयजीवनस्य च कामनां कृतवान्।
नितिननवीनः निर्धारितकार्यक्रमानुसारं प्रातः प्रायः नववादने मन्दिरं प्राप्तवान् तथा विधिवत् पूजार्चनां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री पुष्करसिंहधामी, भाजपायाः प्रदेशाध्यक्षः राज्यसभासदस्यश्च महेन्द्रभट्टः, पक्षस्य राष्ट्रियमाध्यम-संयोजकः सांसदश्च अनिलबलूनी इत्यादयः भाजपायाः वरिष्ठपदाधिकारिणः उपस्थिताः आसन्।
भाजपाध्यक्षस्य मन्दिरागमने पक्षस्य कार्यकर्तारः स्थानीयजनाश्च तस्य स्वागतं कृतवन्तः। पूजायाः अनन्तरं सः मन्दिरपरिसरे उपस्थितैः जनैः सह अपि मिलितवान्।
नितिननवीनः उत्तराखण्डयात्रायाः क्रमे हल्द्वान्यां विभिन्नेषु कार्यक्रमेषु भागं गृह्णाति। मन्दिरदर्शनस्य अनन्तरं तस्य युवासंवादकार्यक्रमः अमरदीप-होटल इत्यत्य निर्धारितः अस्ति। ततः सः भारतरत्न-पण्डितगोविन्दवल्लभपन्तस्य जयन्त्युपलक्ष्ये आयोजिते कार्यक्रमे भागं गृह्णीयात्। अनन्तरं पूर्वसैनिकानां अर्धसैनिक-बलानां च सम्मानसमारोहे अपि भागं गृह्णीयात्। रुद्रपुरमार्गस्थिते आर्क-होटल-एण्ड्-रिसोर्ट इत्यत्र पंजाबीगौरवसम्मेलने अपि प्रतिभागं करिष्यति।
Hindusthan Samachar / Divya Ranjan