सेवासङ्कल्प-अभियाने सर्वे जनप्रतिनिधयः सक्रियतया सहभागं कुर्वन्तु, स्वक्षेत्रेषु मिलित्वा कार्यक्रमान् जनसहभागितायाः स्वरूपं ददतु – मुख्यमन्त्री योगी
प्रभारीमन्त्रिणः जनपदेषु स्वेभ्यः आवंटितविधानसभाक्षेत्रेषु च गत्वा जनप्रतिनिधिभिः सह मिलित्वा कार्यक्रमाणां रूपरेखां सज्जीकुर्वन्तु : मुख्यमन्त्री योगी ‘नमो सेवा’ १८ सेप्टेम्बरतः सर्वासु ४०३ विधानसभासु, स्थानीयकलाकारैः सह विद्यार्थिनः शिक्षकाः च स
बैठक करते मुख्यमंत्री योगी


प्रभारीमन्त्रिणः जनपदेषु स्वेभ्यः आवंटितविधानसभाक्षेत्रेषु च गत्वा जनप्रतिनिधिभिः सह मिलित्वा कार्यक्रमाणां रूपरेखां सज्जीकुर्वन्तु : मुख्यमन्त्री योगी

‘नमो सेवा’ १८ सेप्टेम्बरतः सर्वासु ४०३ विधानसभासु, स्थानीयकलाकारैः सह विद्यार्थिनः शिक्षकाः च सहभागिनः भवन्तु : मुख्यमन्त्री योगी

लखनऊ, १० सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे प्रदेशस्य सर्वेषां सांसदानां, जनपद-पञ्चायताध्यक्षाणां, विधायकानां, विधानपरिषद्सदस्यानां, महापौराणां, नगरपालिकाध्यक्षाणां, नगरपञ्चायता-ध्यक्षाणां तथा विकासखण्डप्रमुखाणाम् इत्येतै: च सह अन्तर्जालमाध्यमेन सभाम् अकरोत्। सः सर्वान् जनप्रतिनिधीन् ‘सेवासङ्कल्प-अभियाने’ सह सम्मिलितुं तथा स्वस्वक्षेत्रेषु जनैः सह मिलित्वा अभियानस्य सफलतां सुनिश्चितुं च आह्वानं कृतवान्।

मुख्यमन्त्री अभियानस्य १२ प्रमुख-कार्यक्रमाणां विषये सूचनां दत्त्वा अवदत् यत् प्रधानमन्त्रिण: नरेन्द्रमोदिनः २५ वर्षाणां निरन्तरजनसेवायै समर्पितम् एतदभियानं तदैव सार्थकं भविष्यति, यदा समाजस्य प्रत्येकं वर्गस्य अस्मिन् सहभागिता भविष्यति। सांसदानां, विधायकानां अन्येषां च जनप्रतिनिधीनां सक्रियसहभागितया अभियानस्य प्रसारः ग्रामेभ्यः नगरपर्यन्तं समाजस्य प्रत्येकवर्गं च यावत् भविष्यति।

मुख्यमन्त्री १७ सेप्टेम्बर-दिनाङ्के आयोज्यमाने ‘सेवादिवस-आशीर्वादस्य दीपः’ इति कार्यक्रमे अपि जनप्रतिनिधीनां सहभागितां सुनिश्चितुं निर्दिष्टवान्। १७ सेप्टेम्बर-दिनाङ्के सेवादिवसे विश्वकर्माजयन्त्याः अवसरं च दृष्ट्वा सर्वेषु विधानसभाक्षेत्रेषु विश्वकर्मापूजनं तथा शिल्पकारेभ्यः उपकरणपेटिकानां वितरणं च भविष्यति। ‘आशीर्वादस्य दीपः’ इति कार्यक्रमे सायं सप्तवादने लाभार्थिपरिवारैः सह दीपाः प्रज्वालयिष्यन्ते। द्विइञ्जिन-सर्वकारस्य योजनाभिः निर्मितानां प्रमुखभवनानां विकासपरियोजनास्थलानां च परिसरेषु अपि दीपाः प्रज्वालयितव्याः। मुख्यमन्त्री सर्वेभ्यः विधायकेभ्यः स्वस्वक्षेत्रेषु एतेषु कार्यक्रमेषु उपस्थिताः भवितुम् आह्वानं कृतवान्।

सः अवदत् यत् ‘मम स्वप्नानां भारतम्’ इति कार्यक्रमे सर्वेषां सर्वकारीय-निजी-प्राथमिक-माध्यमिक-उच्चशैक्षणिक-संस्थानां सहभागिता सुनिश्चिता क्रियताम्। विद्यार्थिनां चित्रकलां, भाषणं, वादविवाद-प्रतियोगितां च आयोजयित्वा शिक्षकाणां स्थानीयजन-प्रतिनिधीनां च सहभागिताम् अपि सुनिश्चितं क्रियताम्। अनेन बालानां यूनां च देशस्य विकासयात्रया सह सम्बद्धतायाः अवसरः प्राप्स्यते।

‘नमो सेवा, अनुक्तकथाः’ इति कार्यक्रमः १८ सेप्टेम्बरतः प्रदेशस्य सर्वासु ४०३ विधानसभासु आयोजयितव्यः अस्ति। मुख्यमन्त्री अवदत् यत् अस्मिन् कार्यक्रमे पर्यटनविभागः नोडलविभागरूपेण कार्यं करोतु। स्थानीयकलाकारानां प्राथमि-कतया सहभागिता सुनिश्चिता भवतु तथा विद्यार्थिनः शिक्षकाः च कार्यक्रमेण सह सम्बद्धाः क्रियन्ताम्। तेषां माध्यमेन सेवायाः, सुशासनस्य, विकासस्य च ताः कथाः जनानां पर्यन्तं प्राप्यन्ताम्, याः अस्माकं समीपे एव आकारं गृह्णन्ति।

‘आङ्गनमिलनसेवा’ इत्यस्य अन्तर्गतं उत्कृष्टकार्यं कुर्वत्यः आशा-कार्यकर्त्र्यः आङ्गनवाडी-कार्यकर्त्र्यश्च सम्मानिताः भविष्यन्ति। तेन सह स्वस्थशिशु-प्रतियोगिता अपि आयोजयिष्यते। मुख्य-मन्त्री अवदत् यत् एतत् कार्यक्रमं केवलम् आयोजनपर्यन्तं सीमितं न स्थापनीयम्। मातृभ्यः पोषणस्य, स्वास्थ्यस्य, महिलाबालविकाससम्बद्धानां च आवश्यकसूचनानां सहजतया प्रसारण-मपि करणीयम्।

‘सेवायाः कथा’ इत्यस्य अन्तर्गतं विगतेषु सार्धनववर्षेषु आगतानां परिवर्तनानां लाभार्थिनां स्वकीयकथानां माध्यमेन प्रस्तुतौ बलं दत्तम्। मुख्यमन्त्री अवदत् यत् समाजस्य प्रत्येकस्मिन् क्षेत्रे परिवर्तनम् आगतम् अस्ति तथा च भेदभावं विना जनाः सर्वकारीययोजनानां लाभं प्राप्नुवन्ति। एतेषां परिवर्तनानां वास्तविकं चित्रं लाभार्थिनाम् अनुभवैः एव सम्यक् प्रकाशते। सः अवदत् यत् वीडियो-रील इत्यस्मिन् लाभार्थिनः नाम, ग्रामस्य नाम, जनपदस्य नाम योजनायाः नाम च अवश्यं प्रदर्शनीयम्। मुख्यमन्त्री-विवेकाधीन-कोषस्य आयुष्मानभारत-योजनायाः च लाभार्थिनः अपि अस्मिन् कार्यक्रमे सम्मिलिताः करणीयाः।

‘सेवाज्योतिकलशयात्रा’ इत्यस्य सम्बन्धे मुख्यमन्त्री अवदत् यत् सप्तमे अक्टोबरमासस्य दिनं विशेषमहत्त्वपूर्णम् अस्ति। अस्मिन्नेव दिने २५ वर्षपूर्वं प्रधानमन्त्री नरेन्द्रमोदी गुजरातस्य मुख्यमन्त्रिरूपेण स्वस्य जनसेवायाः नूतनां यात्राम् आरब्धवान् आसीत्। अस्य अवसरस्य उपलक्ष्ये प्रत्येकस्मिन् जनपदे एकस्मिन् प्रमुखचतुष्पथे ‘सेवाकलशः’ स्थापितः भविष्यति तथा तत्र प्रधानमन्त्रिणः विशेषसम्बोधनं भविष्यति। मुख्यमन्त्री अवदत् यत् जनप्रतिनिधयः अस्मिन् कार्यक्रमे सक्रियतया सहभागं कुर्वन्तु, येन एतदायोजनं सेवा-समर्पण-सङ्कल्पानां प्रतीकरूपेण भवेत्।

‘सेवा मम योगदानम्’ इत्यस्य अन्तर्गतं नागरिकान् विभिन्नासु सेवागतिविधिषु सम्बद्धाः क्रियन्ताम्। प्रत्येकस्मिन् विधानसभाक्षेत्रे न्यूनातिन्यूनं द्वयोः स्थलयोः कायाकल्पकार्यं जनसह-भागितया कारयितव्यम्। ‘सेवासेतु-अभियानस्य’ अन्तर्गतं प्रत्येकस्मिन् विकासखण्डे सप्तदिवसीयाः बहूद्देश्यीयाः सेवाशिविराः आयोजयिष्यन्ते। मुख्यमन्त्री अवदत् यत् शिविराणाम् उद्देश्यं स्पष्टं भवेत्—नागरिकः लाभप्राप्त्यर्थं विभिन्नानां सर्वकारीयकार्यालयानां चक्करान् न लगेत्। एकस्मिन्नेव स्थले केन्द्र-सर्वकारस्य राज्यसर्वकारस्य च योजनानां सूचना प्राप्येत, आवेदनं क्रियेत, पात्रतायाः सत्यापनं भवेत् तथा पात्रजनानां प्रकरणेषु स्वीकृतिप्रक्रिया अग्रे नीयेत। एतै: शिविरै: सह स्वास्थ्य-मेलापकाः अपि आयोजयिष्यन्ते।

मुख्यमन्त्री अवदत् यत् ‘सेवासङ्कल्प-अभियानस्य’ वास्तविकं बलं जन-सहभागिता अस्ति। अतः अस्मिन् सांसदैः विधायकैः च सह ग्रामस्तरपर्यन्तं जनप्रतिनिधयः, युवानः, महिलाः, विद्यार्थिनः, शिल्पकाराः, स्वसहायतासमूहाः सामाजिकसङ्गठनानि च सम्मिलिताः भवन्तु। सः सर्वान् जनप्रतिनिधीन् १७ सेप्टेम्बरतः १७ अक्टोबरमासपर्यन्तं चलिष्यमाणम् एतदभियानं स्वस्वक्षेत्रेषु सेवा-सुशासन-जनसहभागितानां उत्सवरूपेण परिणमयितुम् आह्वानं कृतवान्।

हिन्दुस्थान समाचार / Divya Ranjan