Enter your Email Address to subscribe to our newsletters

वाराणसी, 10 सितम्बरमासः (हि. स.)।
उत्तरप्रदेशस्य वाराणस्यां सलारपुरस्थिते अध्यात्मन्यायसमितेः कार्यालये गुरुवासरे सचिवः राजकुमारमिश्रः अवदत् यत् नेपालदेशे अभूतपूर्वया बाढ्या अकालमृत्युमुपगतानां आत्मनां मोक्षाय ११ सितम्बर् २०२६ दिनाङ्के शुक्रवासरे नगरे पिशाचमोचनस्थले अध्यात्मन्यायसमितेः तत्त्वावधाने त्रिपिण्डीश्राद्धस्य आयोजनं क्रियते। इदं आयोजनं प्रातः दशवादनतः अपराह्णे एकवादनपर्यन्तं भविष्यति। अस्मिन् आयोजने नगरस्य जनाः अपि आगत्य सहभागितां कर्तुं शक्नुवन्ति।
सचिवः राजकुमारमिश्रः अवदत् यत् नेपालदेशे सहसा समागतया बाढ्या जनजीवनं प्रभावितं जातम्। बहवः जनाः अकालमृत्युं प्राप्तवन्तः। नेपालस्य जनजीवनं सामान्यावस्थां प्राप्तुं एकवर्षादपि अधिकः कालः भविष्यति। अतः अध्यात्मन्यायसमितेः सदस्यैः त्रिपिण्डीश्राद्धस्य आयोजनं कृत्वा स्वकर्तव्यस्य निर्वहनं कृतम्।
---------------
Hindusthan Samachar / अंशु गुप्ता