Enter your Email Address to subscribe to our newsletters


—प्रमुखजनसंवादसङ्गोष्ठ्यां अवदत् राष्ट्रियस्वयंसेवकसङ्घस्य अखिल-भारतीयकार्यकारिणीसदस्यः
वाराणसी, १० सेप्टेम्बरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसङ्घः सम्पूर्णसमाजस्य सङ्घटनम् अस्ति। सम्पूर्णः समाजः एकात्मभावेन एकत्र समागच्छेत्, इत्येव सङ्घस्य भावना अस्ति। सङ्घः भारतस्य ‘स्व’रूपम् अस्ति। इति राष्ट्रियस्वयं-सेवकसङ्घस्य अखिलभारतीयकार्य-कारिणीसदस्यः डॉ. मनमोहनवैद्यः गुरुवासरे अवदत्। अवसरः आसीत् राष्ट्रियस्वयंसेवकसङ्घस्य काशी-महानगरस्य पक्षतः केन्द्रीयकारागार-मार्गस्थिते सनबीम-वरुणा-सभागारे आयोजितायाः प्रमुखजनसंवादसङ्गोष्ठ्याः।
सङ्गोष्ठ्यां मुख्यवक्तृरूपेण डॉ. मनमोहनवैद्यः अवदत् यत् अस्माकं परिचयः आध्यात्मिकः अस्ति, तस्यैव नाम हिन्दुत्वम् अस्ति। राष्ट्रियस्वयंसेवकसङ्घः समाजजागरणस्य, व्यवस्थापरिवर्तनस्य व्यक्तिनिर्माणस्य च कार्यं करोति। अस्मिन् कार्ये समाजस्य प्रत्येकस्य जनस्य सहभागिता आवश्यकी अस्ति। अस्माभिः न वक्तव्यं यत् अस्माकं समीपे समयाभावः अस्ति। यतः यथा मत्स्यः जले वसति, तथैव वयं समयस्य मध्ये जीवामः।
धर्मस्य व्याख्यां कुर्वन् डॉ. वैद्यः अवदत् यत् भारते धर्मः ‘रिलीजन’ इत्यस्य पर्यायः नास्ति। समाजाय दानं चैरिटी इति कथ्यते, किन्तु समाजात् प्राप्तं समाजाय प्रत्यर्पणं धर्मः अस्ति। धर्मः विभाजनं न करोति, अपितु बन्धुत्वेन बध्नाति। एकस्मिन् गृहे पञ्चानां जनानां ‘रिलीजन’ भिन्नं भवितुं शक्नोति। भारते ‘रिलीजन’ इत्यस्य अर्थः उपासना भवितुम् अर्हति। विविधतायाम् एकतां, अनेकतायाम् ऐक्यं च पश्यितुम्—एतदेव भारतस्य अन्तर्निहितं धर्मतत्त्वम् अस्ति। व्यक्तिः धर्मप्रवणः भवेत्, समाजश्च धर्माधारितः भवेत्, तदा राष्ट्रं बलशाली भविष्यति।
प्राचीनभारतस्य वैभवस्य उल्लेखं कुर्वन् सः अवदत् यत् ‘वर्ल्ड हिस्ट्री ऑफ इकॉनॉमिक्स’ इति पुस्तके उल्लेखित-मस्ति यत् ईस्वीसंवत्सरस्य प्रथमवर्षात् १७०० तमवर्षपर्यन्तं विश्वस्य अर्थ-व्यवस्थायां भारतस्य सहभागिता ३३ प्रतिशतं आसीत्। चर्मोद्योगे, धातूद्योगे, सुगन्धिद्रव्योद्योगे, वस्त्रोद्योगे च भारतं विश्वे प्रमुखं स्थानं धारयति स्म। महिलाः गृहेषु उद्योगान् सम्भालयन्ति स्म तथा पुरुषाः वस्तूनि विक्रेतुं बहिः गच्छन्ति स्म। गृहस्य सम्पत्तेः नियन्त्रणं गृहिण्याः हस्ते आसीत्, अत एव महिलाः ‘गृहलक्ष्मी’ इति कथ्यन्ते स्म। के.एम. मुन्शिना लिखितायां ‘पिलग्रिम टू फ्रीडम’ इति पुस्तकानुसारं भारतस्य निर्यातः अधिकः, आयातश्च न्यूनः आसीत्। भारतस्य मन्दिराणि समाजस्य समृद्धेः केन्द्राणि आसन्, अतः सुवर्णभण्डारः मन्दिरेषु भवति स्म।
भारते महिलानां स्थितेः उल्लेखं कुर्वन् डॉ. वैद्यः अवदत् यत् भारते महिलानां स्थितिः आदिकालादेव पुरुषाणां समक्षम् आसीत्। स्वातन्त्र्यप्राप्तेः अनन्तरं महिलाभ्यः मताधिकारः विना चर्चामेव प्रदत्तः, येन तासां सामाजिकमहत्त्वं ज्ञायते।
समाजः स्वस्य दैनिकजीवने ‘भारत’-शब्दस्य प्रयोगं स्वीकुर्यात्
जिज्ञासासमाधानस्य क्रमे पृष्टस्य प्रश्नस्य उत्तरं ददन् सः अवदत् यत् भारतं विश्वे एकमात्रं राष्ट्रम् अस्ति यत् स्वाभ्यां नामभ्यां सह अग्रे वर्धते। यदा तु बर्मादेशः स्वातन्त्र्यप्राप्तेः अनन्तरं ‘म्यांमार’ इति नाम स्वीकृतवान्। वयं के स्मः, यावत् एतत् न निर्धारितं भविष्यति, तावत् वयं स्वस्य प्राथमिकतां निर्धारयितुं न शक्नुमः। ‘स्व’स्य निषेधस्य प्रवृत्तिः प्रगतिशील-बौद्धिकतायाः नाम्ना भारते स्वीकृता भवति स्म। परन्तु सम्प्रति वातावरणं परिवर्तितम् अस्ति। राष्ट्रपत्याः आधिकारिकपत्रेषु ‘इण्डिया’ इत्यस्य स्थाने ‘भारत’ इति शब्दस्य प्रयोगः भवति। आवश्यकता एतस्यैव अस्ति यत् समाजः स्वस्य दैनिकजीवने ‘भारत’शब्दस्य प्रयोगं स्वीकुर्यात्। तदा अस्माभिः ‘इण्डिया दैट इज भारत’ इति वक्तव्यं न भविष्यति।
कार्यक्रमस्य अध्यक्षतां कुर्वन् एकस्य निजीविद्यालयसमूहस्य निदेशकः दीपक-मधोकः अवदत् यत् शिक्षा राष्ट्रस्य प्रमुखा रक्षिका अस्ति। डॉ. भीमराव-अम्बेडकरेण शिक्षा ‘सिंह्याः दुग्धम्’ इति कथिता। शिक्षया भारतस्य सेवा एव व्यक्तेः एकमात्रं ध्येयम् भवेत्।
कार्यक्रमस्य प्रारम्भे निवेदिता-शिक्षासदनस्य छात्राभिः राष्ट्रगीतं ‘वन्दे मातरम्’ प्रस्तुतम्। सङ्घस्य काशी-विभागस्य विभागसङ्घचालकेन प्रो. जयप्रकाशलालेन सह मञ्चस्थैः अतिथिभिः दीपप्रज्वलनं कृतम्। अतिथीनां स्वागतं डॉ. चारुचन्द्र-राम-त्रिपाठिना कृतम्। विषयप्रस्तावनां काशीप्रान्तस्य सहप्रान्त-कार्यवाहः प्रो. राकेशतिवारी कृतवान्। सञ्चालनं डॉ. हरेन्द्ररायः, धन्यवादज्ञापनं च आशुतोषः कृतवान्।
प्रमुखजनसंवादसङ्गोष्ठ्यां प्रमुखरूपेण काशीप्रान्तप्रचारकः रमेशः, विभागप्रचारकः नितिनः, रामानुजसिंहः, डॉ. आनन्दप्रभा, यूपी-कॉलेजस्य प्रधानाचार्यः डॉ. रमेशसिंहः, डॉ. शान्तनुत्रिपाठी, डॉ. चन्द्रमणिसिंहः, डॉ. श्रीप्रकाशः, डॉ. विश्वेश्वरः, डॉ. प्रियङ्कातिवारी, डॉ. अम्बरीशरायः इत्यादयः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan